दानवराज मयका दानवों को समझा-बुझाकर त्रिपुर की रक्षा में नियुक्त करना तथा त्रिपुरकौमुदी का वर्णन | daanavaraaj mayaka daanavon ko samajha-bujhaakar tripur kee raksha mein niyukt karana tatha tripurakaumudee ka varnan |
मत्स्य पुराण एक सौ उन्तालीसवाँ अध्याय
दानवराज मयका दानवों को समझा-बुझाकर त्रिपुर की रक्षा में नियुक्त करना तथा त्रिपुरकौ मुदी का वर्णन
सूत उवाच
तारकाख्ये हते युद्धे उत्सार्य प्रमथान् मयः ।
उवाच दानवान् भूयो भूयः स तु भयावृतान् ॥ १
भोऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् ।
यत् कर्तव्यं मया चैव युष्माभिश्च महाबलैः ॥ २
पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः ।
यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥ ३
कुरुध्वं निर्भयाः काले पिशुनाशंसितेन च।
स कालः पुष्ययोगस्य पुरस्य च मया कृतः ॥ ४
काले तस्मिन् पुरे यस्तु सम्भावयति संहतिम्।
स एनं कारयेच्चूर्ण बलिनैकेषुणा सुरः ॥ ५
यो वः प्राणो बलं यच्च या च वो वैरिताऽसुराः ।
तत् कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥ ६
महेश्वररथं होकं सर्वप्राणेन भीषणम् ।
विमुखीकुर्वतात्यर्थं यथा नोत्सृजते शरम् ॥ ७
तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे।
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥ ८
निशम्य तन्मयस्यैकं दानवास्त्रिपुरालयाः ।
मुहुः सिंहरवं कृत्वा मयमूचुर्यमोपमाः ॥ ९
प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम्।
तथा कुर्मी यथा रुद्रो न मोक्ष्यति पुरे शरम् ॥ १०
अद्य यास्यामः संग्रामे तद्रुद्रस्य जिघांसवः ।
कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः ॥ ११
कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् ।
अदानवं वा भविता नारायणपदत्रयम् ॥ १२
वयं न धर्म हास्यामो यस्मिन् योक्ष्यति नो भवान्।
अदैवतमदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः ॥ १३
इति सम्मन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः ।
प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥ १४
मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः ।
तमांस्युत्सार्य भगवांश्चन्द्रो जृम्भति सोऽम्बरम् ॥ १५
कुमुदालङ्कते हंसो यथा सरसि विस्तृते।
सिंहो यथा चोपविष्टो वैदूर्यशिखरे महान् ॥ १६
विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः ।
तथावगाढे नभसि चन्द्रोऽत्रिनयनोद्भवः ।
भ्राजते भ्राजयैल्लोकासृजञ्ज्योत्स्त्रारसं बलात् ॥ १७
शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णे पुरेऽसुराः ।
प्रदोषे ललितं चकुर्गृहमात्मानमेव च ॥ १८
रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च।
दीपाश्चम्पकपुष्याभा नाल्पस्नेहप्रदीपिताः ॥ १९
तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः ।
गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च।
ज्वलतोऽदीपयन् दीपांश्चन्द्रोदय इव ग्रहाः ॥ २०
चन्द्रांशुभिर्भासमानमन्तर्दीपैः सुदीपितम् ।
उपद्रवैः कुलमिव पीयते त्रिपुरे तमः ॥ २१
तस्मिन् पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे।
रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः ॥ २२
विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन।
तत्रासुरेष्वासुरपुङ्गवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥ २३
कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूच्छितांस्तु ।
मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ ॥ २४
तमांसि नैशानि द्रुतं निहत्य ज्योत्स्नावितानेन जगद्वितत्य ।
खे रोहिणीं तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽधिराज्यम् ॥ २५
स्थित्वैव कान्तस्य तु पादमूले काचिद् वरस्त्री स्वकपोलमूले।
विशेषकं चारुतरं करोति तेनाननं स्वं समलङ्करोति ॥ २६
दृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा में मुखजेति जप्त्वा ।
स्मृत्वा वराङ्गी रमणैरितानि तेनैव भावेन रतीमवाप ॥ २७
रोमाञ्चितैर्गात्रवरैर्युवभ्यो रत्तानुरागाद्रमणेन चान्याः ।
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने ॥ २८
पेपीयते चातिरसानुविद्धा विमार्गितान्या च प्रियं प्रसन्ना।
काचित् प्रियस्यातिचिरात् प्रसन्ना आसीत् प्रलापेषु च सम्प्रसन्ना ॥ २९
गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षीरधराऽऽसुरीणाम् ।
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥ ३०
क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः ।
तन्त्रीप्रलापास्त्रिपुरेषु रक्ताःस्त्रीणां प्रलापेषु पुनर्विरक्ताः ॥ ३१
क्वचित् प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् ।
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति ॥ ३२
गेयं प्रवृत्तं त्वथ शोधयन्ति केचित् प्रियां तत्र च साधयन्ति।
केचित् प्रियां सम्प्रति बोधयन्ति सम्बुध्य सम्बुध्य च रामयन्ति ॥ ३३
चूतप्रसूनप्रभवः सुगन्धः सूर्ये गते वै त्रिपुरे बभूव ।
समर्मरो नूपुरमेखलानां शब्दश्च सम्बाधति कोकिलानाम् ॥ ३४
प्रियावगूढा दयितोपगूढा काचित् प्ररूढाङ्गरुहापि नारी।
सुचारुवाष्पाङ्करपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत् ॥ ३५
शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् ।
माधुर्यभूताभरणामहान्तः स्वना बभूवुर्मदनेषु तुल्याः ॥ ३६
पानेन खिन्त्रा दयितातिवेलं कपोलमाघ्रासि च किं ममेदम् ।
आरोह मे श्रोणिमिमां विशालां पीनोन्नतां काञ्चनमेखलाख्याम् ।। ३७
रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु ।
दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥ ३८
अट्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्या मदलोलभावात् ।
संदोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्चीगुणसूक्ष्मनादा ॥ ३९
अम्लानमालान्वितसुन्दरीणां पर्याय एषोऽस्ति च हर्षितानाम्।
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥ ४०
काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासु तद्रागकृताश्च भावाः ।
छिन्दन्ति तासामसुराङ्गनानां प्रियालयान् मन्मथमार्गणानाम् ॥ ४१
चित्राम्बरश्चोद्धृत केशपाशः संदोल्यमानः शुशुभेऽसुरीणाम्।
सुचारुवेशाभरणैरुपेत-स्तारागणैज्र्योतिरिवास चन्द्रः ॥ ४२
सन्दोलनादुच्छ्वसितैश्छिन्नसूत्रैः काञ्चीभ्रष्टैर्मणिभिर्विप्रकीर्णैः।
दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पाश्र्वोपगतैर्विचित्रा ।। ४३
सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् ।
शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणबाणो मदनश्चचार ।। ४४
इति तत्र पुरेऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत्।
रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् ॥ ४५
चन्द्रोऽथ कुन्दकुसुमाकरहारवर्णो ज्योत्स्रावितानरहितोऽभ्रसमानवर्णः ।
विच्छायतां हि समुपेत्य न भाति तद्वद् भाग्यक्षये धनपतिश्च नरो विवर्णः ॥ ४६
चन्द्रप्रभामरुणसारथिनाभिभूय संतप्तकाञ्चनरथाङ्गसमानबिम्बः ।
स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो भात्यम्बरे तिमिरतोयवहां तरिष्यन् ।। ४७
इति श्रीमात्स्ये महापुराणे त्रिपुरकौमुदीनामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ १३९ ॥
इस प्रकार श्रीमत्स्यमहापुराणमें त्रिपुरकौमुदी नामक एक सौ उन्तालीसवाँ अध्याय सम्पूर्ण हुआ ॥ १३९॥
टिप्पणियाँ