श्रीलिङ्गमहापुराण उत्तरभाग चालीसवाँ अध्याय
कन्या दान विधि
सनत्कुमार उवाच
कन्यादानं प्रवक्ष्यामि सर्वदानोत्तमोत्तमम् ।
कन्यां लक्षणसम्पन्नां सर्वदोषविवर्जिताम् ॥ १
मातापित्रोस्तु संवादं कृत्वा दत्त्वा धनं महत्।
आत्मीकृत्याथ संस्नाप्य वस्त्रं दत्त्वा शुभं नवम् ॥ २
भूषणैर्भूषयित्वाथ गन्धमाल्यैरथार्चयेत् ।
निमित्तानि समीक्ष्याथ गोत्रनक्षत्रकादिकान् ॥ ३
उभयोश्चित्तमालोक्य उभौ सम्पूज्य यत्नतः ।
दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ॥ ४
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे।
दासदासीधनाढ्यं च भूषणानि विशेषतः ॥५
क्षेत्राणि च धनं धान्यं वासांसि च प्रदापयेत् ।
यावन्ति देहे रोमाणि कन्यायाः सन्ततौ पुनः ॥ ६
तावद्वर्षसहस्त्राणि रुद्रलोके महीयते ॥ ७
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे कन्यादानविधिर्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तर भागमें 'कन्यादानविधि' नामक चालीसवाँ अध्याय पूर्ण हुआ ॥ ४० ॥
टिप्पणियाँ