श्री कृष्णाष्टमी-व्रत की विधि और उसका माहात्म्य | shree krshnaashtamee-vrat kee vidhi aur usaka maahaatmy
मत्स्य पुराण छप्पनवाँ अध्याय
श्री कृष्णाष्टमी-व्रत की विधि और उसका माहात्म्य
श्रीभगवानुवाच
कृष्णाष्टमीमथो वक्ष्ये सर्वपापप्रणाशिनीम्।
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥ १
श्रीभगवान्ने कहा- नारद ! अब मैं श्रीकृष्णाष्टमी- व्रतका वर्णन कर रहा हूँ, जो समस्त पापोंका विध्वंस करनेवाला है। इस व्रतका अनुष्ठान करनेसे मनुष्योंको विशेषरूपसे शान्ति, मुक्ति और विजयकी प्राप्ति होती है॥ १
शङ्करं मार्गशिरसि शम्भु पौषेऽभिपूजयेत्।
माघे महेश्वरं देवं महादेवं च फाल्गुने ॥ २
स्थाणुं चैत्रे शिवं तद्वद् वैशाखे त्वर्चयेन्नरः ।
ज्येष्ठे पशुपतिं चार्चेदाषाडे उग्रमर्चयेत् ॥ ३
पूजयेच्छ्रावणे शर्व नभस्ये त्र्यम्बकं तथा।
हरमाश्वयुजे मासि तथेशानं च कार्त्तिके ॥ ४
कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद् द्विजान्।
गोभूहिरण्यवासोभिः शिवभक्तांश्च शक्तितः ॥ ५
गोमूत्रघृतगोक्षीरतिलान् यवकुशोदकम् ।
गोशृङ्गोदशिरीषार्कबिल्वपत्रदद्धीनि च।
पञ्चगव्यं च सम्प्राश्य शंकरं पूजयेन्निशि ॥ ६
अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च।
पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ॥ ७
मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामिति क्रमात्।
एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत् ॥ ८
देवाय दद्यादर्घ्य च कृष्णां गां कृष्णवाससम्।
दद्यात् समाप्ते दध्यन्त्रं वितानध्वजचामरम् ॥ ९
द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान् ।
गावः कृष्णाः सुवर्ण च वासांसि विविधानि च।
अशक्तस्तु पुनर्दद्यात् गामेकामपि शक्तितः ॥ १०
न वित्तशाठ्यं कुर्वीत कुर्वन् दोषमवाप्नुयात्।
कृष्णाष्टमीमुपोष्यैव सप्तकल्पशतत्रयम् ।
पुमान् सम्पूजितो देवैः शिवलोके महीयते ॥ ११
इति श्रीमाल्ये महापुराणे कृष्णाष्टमीव्रतं नाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥
इस प्रकार श्रीमत्स्यमहापुराणमें श्रीकृष्णाष्टमी व्रत नामक छप्पनयाँ अध्याय सम्पूर्ण हुआ ॥ ५६ ॥
टिप्पणियाँ