गोत्र प्रवर-कीर्तन में महर्षि कश्यपके वंशका वर्णन | gotr pravar-keertan mein maharshi kashyapake vanshaka varnan
मत्स्य पुराण एक सौ निन्यानबेवाँ अध्याय
गोत्र प्रवर-कीर्तन में महर्षि कश्यप के वंश का वर्णन
मत्स्य उवाच
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले।
गोत्रकारानृषीन् वक्ष्ये तेषां नामानि मे शृणु ॥ १
मत्स्यभगवान्ने कहा- राजन् ! महर्षि मरीचिके पुत्र कश्यप हुए। अब मैं उन्हीं कश्यपके कुलमें जन्म लेने वाले गोत्र-प्रवर्तक ऋषियों का वर्णन कर रहा हूँ १
आश्रायणिऋषिगणो मेषकीरिटकायनाः।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ॥ २
शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः ।
मन्दाकिन्यां वै मृगयाः श्रोतना भौतपायनाः ॥ ३
देवयाना गोमयाना ह्यधश्छायाभयाश्च ये।
कात्यायनाः शाक्रायणा बर्हिर्योगगदायनाः ॥ ४
भवनन्दिर्महाचक्रिर्दाक्षपायण एव च।
योधयानाः कार्तिक्यो हस्तिदानास्तथैव च ।। ५
वात्स्यायना निकृतजा ह्याश्वलायनिनस्तथा।
प्रागायणाः पैलमौलिराश्ववातायनस्तथा ॥ ६
कौबेरकाश्च श्याकारा अग्निशर्मायणाश्च ये।
मेषपाः कैकरसपास्तथा चैव तु बभ्रवः ॥ ७
प्राचेयो ज्ञानसंज्ञेया आग्रा प्रासेव्य एव च।
श्यामोदरा वैवशपास्तथा चैवोद्वलायनाः ॥ ८
काष्ठाहारिणमारीचा आजिहायनहास्तिकाः ।
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ॥ ९
मातङ्गिनश्च भृगवस्त्र्यार्षेयाः परिकीर्तिताः ।
वत्सरः कश्यपश्चैव निधुवश्च महातपाः ॥ १०
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
अतः परं प्रवक्ष्यामि द्वयामुष्यायणगोत्रजान् ॥ ११
अनसूयो नाकुरयः स्नातपो राजवर्तपः ।
शैशिरोदवहिश्चैव सैरन्ध्री रौपसेवकिः ॥ १२
यामुनिः काद्रुपिङ्गाक्षिः सजातम्बिस्तथैव च।
दिवावष्टाश्च इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ॥ १३
त्र्यार्षेयाश्च तथैवैषां सर्वेषां प्रवराः शुभाः ।
वत्सरः कश्यपश्चैव वसिष्ठश्च महातपाः ॥ १४
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलंधरः ॥ १५
भुजातपूरः पूर्यश्च कर्दमो गर्दभीसुखः।
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ॥ १६
कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः ।
निदाघमसृणौ भर्त्या महान्तः केरलाश्च ये ॥ १७
शाण्डिल्यो दानवश्चैव तथा वै देवजातयः ।
पैप्पलादिः सप्रवरा ऋषयः परिकीर्तिताः ॥ १८
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः ।
असितो देवलश्चैव कश्यपश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९
ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम् ।
जगत्समग्र मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमुत्तरं तु ॥ २०
इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तने कश्यपवंशवर्णनं नाम नवनवत्यधिकशततमोऽध्यायः ॥ १९९ ॥
इस प्रकार श्रीमत्यमहापुराणके प्रवरानुकीर्तन प्रसङ्गमें कश्यप वंश-वर्णन नामक एक सी निन्यानवेवाँ अध्याय सम्पूर्ण हुआ ॥ १९९ ॥
टिप्पणियाँ