गोत्र प्रवर-कीर्तन में महर्षि वसिष्ठकी शाखा का कथन | gotr pravar-keertan mein maharshi vasishth kee shaakha ka kathan
मत्स्य पुराण दो सौवाँ अध्याय
गोत्र प्रवर-कीर्तन में महर्षि वसिष्ठ की शाखा का कथन
मत्स्य उवाच
वसिष्ठवंशजान् विप्रान् निबोध वदतो मम।
एकार्षेयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ॥ १
मत्स्यभगवान्ने कहा- राजन्। इसके बाद अब मैं वसिष्ठगोत्रमें उत्पन्न हुए ब्राह्मणोंका वर्णन कर रहा हूँ, सुनिये। वसिष्ठ गोत्रि यों का प्रवर एकमात्र वसिष्ठ ही है। १
वसिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठजैः ।
व्याघ्रपादा औपगवा वैक्लवा शाद्वलायनाः ॥ २
कपिष्ठला औपलोमा अलब्धाश्च शठाः कठाः ।
गौपायना बोधपाश्च दाकव्या हाथ वाह्यकाः ॥ ३
बालिशयाः पालिशयास्ततो वाग्ग्रन्धयश्च ये।
आपस्थूणाः शीतवृत्तास्तथा ब्राह्मपुरेयकाः ॥ ४
लोमायनाः स्वस्तिकराः शाण्डिलिर्गोडिनिस्तथा।
वाडोहलिश्च सुमनाश्चोपावृद्धिस्तथैव च ॥ ५
चौलिवॉलिर्ब्रह्मबलः पौलिः श्रवस एव च।
पौडवो याज्ञवल्क्यश्च एकार्षेया महर्षयः ॥ ६
वसिष्ठ एषां प्रवरो ह्यवैवाह्याः परस्परम् ।
शैलालयो महाकर्णः कौरव्यः क्रोधिनस्तथा ॥ ७
कपिञ्जला वालखिल्या भागवित्तायनाश्च ये।
कौलायनः कालशिखः कोरकृष्णाः सुरायणाः ॥ ८
शाकाहार्याः शाकधियः काण्वा उपलपाश्च ये।
शाकायना उहाकाश्च अथ माषशरावयः ॥ ९
दाकायना बालवयो वाकयो गोरथास्तथा।
लम्बायनाः श्यामवयो ये च क्रोडोदरायणाः ॥ १०
प्रलम्बायनाश्च ऋषय औपमन्यव एव च।
सांख्यायनाश्च ऋक्षयस्तथा वै वेदशेरकाः ॥ ११
पालंकायन उद्गाहा ऋषयश्च बलेक्षवः।
मातेया ब्रह्ममलिनः पन्नागारिस्तथैव च ॥ १२
त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
भिगीवसुर्वसिष्ठश्च इन्द्रप्रमदिरेव च ॥ १३
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
औपस्थलास्वस्थलयो बालो हालो हलाश्च ये ।। १४
मध्यन्दिनो माक्षतयः पैप्पलादिर्विचक्षुषः ।
त्रैशृङ्गायणसैबल्काः कुण्डिनश्च नरोत्तम ॥ १५
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ १६
दानकाया महावीर्या नागेयाः परमास्तथा।
आलम्बा वायनश्चापि ये चक्रोडादयो नराः ॥ १७
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
शिवकर्णो वयश्चैव पादपश्च तथैव च ॥ १८
त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
जातूकर्थ्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १९
वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रधानाः सततं द्विजेन्द्राः ।
येषां तु नाम्नां परिकीर्त्तितेन पापं समग्रं पुरुषो जहाति ॥ २०
इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तने वसिष्ठगोत्रानुवर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥
इस प्रकार श्रीमत्स्यमहापुराणके प्रवरानुकीर्तन प्रसङ्गमें असितगोत्रानुवर्णन नामक दो साँवाँ अध्याय सम्पूर्ण हुआ ॥ २०० ॥
टिप्पणियाँ