गोत्रप्रवर-निरूपण प्रसङ्ग में भृगुवंश की परम्परा का विवरण | gotr pravar-niroopan prasang mein bhrguvansh kee parampara ka vivaran
मत्स्य पुराण एक सौ पञ्चानबेवाँ अध्याय
गोत्र प्रवर-निरूपण प्रसङ्ग में भृगुवंश की परम्परा का विवरण
सूत उवाच
इत्याकर्ण्य स राजेन्द्र ओंकारस्याभिवर्णनम्।
ततः पप्रच्छ देवेशं मत्स्यरूपं जलार्णवे ॥ १
मनुरुवाच
ऋषीणां नाम गोत्राणि वंशावतरणं तथा।
प्रवराणां तथा साम्यमसाम्यं विस्तराद् वद ॥ २
महादेवेन ऋषयः शप्ताः स्वायम्भुवान्तरे ।
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्तय ॥ ३
दाक्षायणीनां च तथा प्रजाः कीर्तय मे प्रभो।
ऋणीणां च तथा वंशं भृगुवंशविवर्धनम् ॥ ४
मत्स्य उवाच
मन्वन्तरेऽस्मिन् सम्प्राप्ते पूर्व वैवस्वते तथा।
चरित्रं कथ्यते राजन् ब्रह्मणः परमेष्ठिनः ॥ ५
महादेवस्य शापेन त्यक्त्वा देहं स्वयं तथा।
ऋषयश्च समुद्भूता हुते शुक्रे महात्मना ॥ ६
देवानां मातरो दृष्ट्वा देवपल्यस्तथैव च।
स्कन्नं शुक्रं महाराज ब्रह्मणः परमेष्ठिनः ॥ ७
तज्जुहाव ततो ब्रह्मा ततो जाता हुताशनात्।
ततो जातो महातेजा भृगुश्च तपसां निधिः ॥ ८
अङ्गारेष्वङ्गिरा जातो ह्यर्चिभ्योऽत्रिस्तथैव च।
मरीचिभ्यो मरीचिस्तु ततो जातो महातपाः ॥ ९
केशैस्तु कपिशो जातः पुलस्त्यश्च महातपाः ।
केशैः प्रलम्बैः पुलहस्ततो जातो महातपाः ॥ १०
वसुमध्यात् समुत्पन्नो वसिष्ठस्तु तपोधनः ।
भृगुः पुलोम्नस्तु सुतां दिव्यां भार्यामविन्दत ॥ ११
तस्यामस्य सुता जाता देवा द्वादश याज्ञिकाः ।
भुवनो भौवनश्चैव सुजन्यः सुजनस्तथा ॥ १२
क्रतुर्वसुश्च मूर्धा च त्याज्यश्च वसुदश्च ह।
प्रभवश्चाव्ययश्चैव दक्षोऽथ द्वादशस्तथा ।। १३
इत्येते भृगवो नाम देवा द्वादश कीर्तिताः।
पौलोम्यां जनयद् विप्रान् देवानां तु कनीयसः ॥ १४
च्यवनं तु महाभागमाप्नुवानं तथैव च।
आप्नुवानात्मजश्चौर्वो जमदग्निस्तदात्मजः ॥ १५
और्वो गोत्रकरस्तेषां भार्गवाणां महात्मनाम् ।
तत्र गोत्रकरान् वक्ष्ये भृगोर्वै दीप्ततेजसः ॥ १६
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च वात्स्यो दण्डिनंडायनः ।। १७
वैगायनो वीतिहव्यः पैलश्चैवात्र शौनकः ।
शौनकायनजीवन्तिरायेदः कार्षणिस्तथा ॥ १८
वैहीनरिर्विरूपाक्षो रौहित्यायनिरेव च।
वैश्वानरिस्तथा नीलो लुब्धः सावर्णिकश्च सः ॥ १९
विष्णुः पौरोऽपि बालाकिरैलिको ऽनन्तभागिनः ।
मृगमार्गेयमार्कण्डजविनो नीतिनस्तथा ।। २०
मण्डमाण्डव्यमाण्डूकफेनपाः स्तनितस्तथा।
स्थलपिण्डः शिखावर्णः शार्कराक्षिस्तथैव च ॥ २१
जालधिः सौधिकः शुभ्यः कुत्सोऽन्यो मौद्गलायनः ।
माड्ङ्कायनो देवपतिः पाण्डुरोचिः सगालवः ॥ २२
सांस्कृत्यश्चातकिः सर्पिर्यज्ञपिण्डायनस्तथा।
गार्थ्यांयणो गायनश्च ऋषिर्गार्हायणस्तथा ॥ २३
गोष्ठायनो वाह्यायनो वैशम्पायन एव च।
वैकर्णिनिः शार्ङ्गरवो याज्ञेयिर्भाष्ठकायणिः ॥ २४
लालाटिर्नाकुलिश्चैव लौक्षिण्योपरिमण्डलौ।
आलुकिः सौचकिः कौत्सस्तथान्यः पैङ्गलायनिः ॥ २५
सात्यायनिर्मालयनिः कौटिलिः कौचहस्तिकः ।
सौहः सोक्तिः सकौवाक्षिः कौसिश्चान्द्रमसिस्तथा ।। २६
नैकजिह्वो जिह्वकश्च व्याधाज्यो लौहवैरिणः ।
शारद्वतिकनेतिष्यौ लोलाक्षिश्चलकुण्डलः ॥ २७
वागायनिश्चानुमतिः पूर्णिमागतिकोऽसकृत् ।
सामान्येन यथा तेषां पञ्चैते प्रवरा मताः ॥ २८
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ॥ २९
अतः परं प्रवक्ष्यामि शृणु त्वन्यान् भृगूद्वहान् ।
जमदग्निर्बिदश्चैव पौलस्त्यो बैजभृत् तथा ॥ ३०
ऋषिश्चोभयजातश्च कायनिः शाकटायनः ।
और्वेया मारुताश्चैव सर्वेषां प्रवराः शुभाः ॥ ३१
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ३२
भृगुदासो मार्गपथो ग्राम्यायणिकटायनी।
आपस्तम्बिस्तथा बिल्विनैकशिः कपिरेव च ॥ ३३
आष्टिषेणो गार्दभिश्च कार्दमायनिरेव च।
आश्वायनिस्तथा रूपिः पञ्चार्षेयाः प्रकीर्तिताः ॥ ३४
भृगुश्च च्यवनश्चैव आप्नुवानस्तथैव च।
आष्टिषेणस्तथारूपिः प्रवराः पञ्च कीर्तिताः ॥ ३५
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
यस्को वा वीतिहव्यो वा मथितस्तु तथा दमः ॥ ३६
जैवन्त्यायनिमौञ्जश्च पिलिश्चैव चलिस्तथा।
भागिलो भागवित्तिश्च कौशापिस्त्वथ काश्यपिः ॥ ३७
बालपिः श्रमदागेपिः सौरस्तिथिस्तथैव च।
गार्गीयस्त्वथ जाबालिस्तथा पौष्ण्यायनो ह्यषिः ॥ ३८
रामोदश्च तथैतेषामार्षेयाः प्रवरा मताः ।
भृगुश्च वीतिहव्यश्च तथा रैवसवैवसौ ॥ ३९
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
शालायनिः शाकटाक्षो मैत्रेयः खाण्डवस्तथा ।। ४०
द्रौणायनो रौक्मायणिरापिशिश्चापिकायनिः ।
हंसजिह्वस्तथैतेषां मार्षेयाः प्रवरा मताः ॥ ४१
भृगुश्चैवाथ वद्ध्यश्वो दिवोदासस्तथैव च।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ४२
एकायनो यज्ञपतिर्मत्स्यगन्धस्तथैव च।
प्रत्यहश्च तथा सौरिश्चौक्षिवै कार्दमायनिः ॥ ४३
तथा गृत्समदो राजन् सनकश्च महानृषिः।
प्रवरास्तु तथोक्तानामार्षेयाः परिकीर्तिताः ॥ ४४
भृगुर्गृत्समदश्चैव आर्षावेतौ प्रकीर्तितौ।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥ ४५
एते तवोक्ता भृगुवंशजाता महानुभावा नृप गोत्रकाराः ।
एषां तु नाम्ना परिकीर्तितेन पापं समग्रं विजहाति जन्तुः ॥ ४६
इति श्रीमात्स्ये महापुराणे भृगुवंशप्रवरकीर्तनं नाम पञ्चनवत्यधिकशततमोऽध्यायः ॥ ९९५ ॥
इस प्रकार श्रीमत्स्यमहापुराणमें भृगुवंशप्रवरवर्णन नामक एक सौ पञ्चानबेवाँ अध्याय सम्पूर्ण हुआ ॥ १९५॥
टिप्पणियाँ