वृष्टिजन्य उत्पात के लक्षण और उनकी शान्ति के उपाय | vrkshajany utpaat ke lakshan aur unakee shaanti ke upaay
मत्स्य पुराण दो सौ तैंतीसवाँ अध्याय
वृष्टिजन्य उत्पात के लक्षण और उनकी शान्ति के उपाय
गर्ग उवाच
अतिवृष्टिरनावृष्टिदुर्भिक्षादि भयं मतम् ।
अनृतौ तु दिवानन्ता वृष्टिज्ञेया भयानका ॥ १
गर्गजीने कहा- मुने ! अतिवृष्टि और अनावृष्टि-ये दोनों दुर्भिक्षादिजन्य भयका कारण मानी गयी हैं। वर्षा-ऋतुके बिना दिनमें अनन्त वृष्टिका होना अत्यन्त भयानक है। १
अनभ्रे वैकृता चैव विज्ञेया राजमृत्यवे ।
शीतोष्णानां विपर्यासे नृपाणां रिपुजं भयम् ॥ २
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् ।
अङ्गारपांशुवर्षेषु नगरं तद् विनश्यति ॥ ३
मज्ञ्जास्थिस्नेहमांसानां जनमारभयं भवेत्।
फलं पुष्यं तथा धान्यं परेणातिभयाय तु ॥ ४
पांशुजन्तूपलानां च वर्षतो रोगजं भयम् ।
छिद्रे वान्नप्रवर्षेण सस्यानां भीतिवर्धनम् ।। ५
विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।
दृश्यते तु प्रतीपा वा तत्र देशभयं भवेत् ॥ ६
निरभ्रे वाथ रात्रौ वा श्वेतं याम्योत्तरेण तु ।
इन्द्रायुधं तथा दृष्ट्वा उल्कापातं तथैव च ॥ ७
दिग्दाहपरिवेषौ च गन्धर्वनगरं तथा।
परचक्रभयं ब्रूयाद् देशोपद्रवमेव च ॥८
सूर्येन्दुपर्जन्यसमीरणानां यागस्तु कार्यो विधिवद् द्विजेन्द्र।
धनानि गौः काञ्चनदक्षिणा च देया द्विजानामधनाशहेतोः ॥ ९
इति श्री माल्ये महापुराणेऽद्भुतशान्तौ वृष्टिवैकृतिप्रशमनं नाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३३ ॥
टिप्पणियाँ