अग्नि पुराण - छियानबेवाँ अध्याय ! Agni Purana - 96 Chapter !

अग्नि पुराण - छियानबेवाँ अध्याय ! Agni Purana - 96 Chapter !

अग्नि पुराण छियानबेवाँ अध्याय प्रतिष्ठाके अन्तर्गत संधान एवं अधिवासकी विधिका वर्णन

अग्नि पुराण - छियानबेवाँ अध्याय ! Agni Purana - 96 Chapter !

अग्नि पुराण - छियानबेवाँ अध्याय ! Agni Purana - 96 Chapter !

ईश्वर उवाच
स्नात्वा नित्यद्वयं कृत्वा प्रणवार्थकरो गुरुः ।
सहायैर्मूर्त्तिपैर्विप्रैः सह गच्छेन्मशालयं ।। १ ।।

शान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात्।
प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ।। २ ।।

प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।
वारुणे वृषभस्कन्दौ देवीचण्डौ तथोत्तरे ।। ३ ।।

तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ।
पर्ज्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ ।। ४ ।।

धनदश्रीप्रदौ द्वौ द्वौ पूजयेदनुपूर्वशः ।
स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ।। ५ ।।

लोकग्रहावसुद्वाःस्थस्रवन्तीनां द्वयं द्वयं।
भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा ।। ६ ।।

इति देवा मखागारे तिष्ठन्ति प्रतितोरणं।
विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ।। ७ ।।

वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदां।
त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् क्रमात् ।। ८ ।।

ओ ह्रूं फट् नमः। 
ओं ह्रूं फट् द्वाः स्थशक्तये ह्रूं फट् नमः इत्यादिमन्त्रैः।
कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः।
शङ्कुकर्णः सर्वनेत्रः सुमुख सुप्रतिष्ठितः ।। ९ ।।

ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः।
ओं कौं कुमुदाय नम इत्यादिमन्त्रैः ।। १० ।।

हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं यमज्ह्वकं ।
कालं करालिनं षष्ठमेकाङ्‌घ्निम्भीममष्टकं ।। ११ ।।

तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात्।
वलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत् ।। १२ ।।

कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात् ।
पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ।। १३ ।।

सदाशिवपदव्यापि मण्डपं धाम शाङ्करं।
पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत् ।। १४ ।।

दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य पूर्ववत्।
प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत् ।। १५ ।।

प्रदक्षिणक्रमाद्‌गत्वा निविष्टो वेदिदक्षिणे।
उत्तराभिमुखः कुर्य्याद् भूतशुद्धिं यथा पुरा ।। १६ ।।

अन्तर्य्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं।
कुर्व्वींत आत्मनः पूजां पञ्चगव्यादि पूर्ववत् ।। १७ ।

साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं।
विशेषाच्छिचवतत्त्वाय तत्त्वत्रयमनुक्रमात् ।। १८ ।।

ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं।
रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः ।। १९ ।।

ओं हं हां । मूर्त्तीस्तदीश्वरंस्तत्र पूर्ववद्विनिवेशयेत्।
तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्द्धनि ।। २० ।।

ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरं ।
तमः पटलमाधूय प्रद्योतितदिगन्तरं ।। २१ ।।

आत्मानं मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः ।
भूषयित्वा शिवोस्मीति ध्यात्वा बोधासिमुद्धिरेत् ।। २२ ।।

चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मशमण्डपं।
विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत् ।। २३ ।।

आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत्।
शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने ।। २४ ।।

स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात्।
सहस्त्रनयनं शक्रं वज्रपाणिं विभावयेत् ।। २५ ।।

ऐरावतगजारूढं स्वर्णवण किरीटिनं।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ।। २६ ।।

सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुं।
ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनं ।। २७ ।।

महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत्।
रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋृतं ।। २८ ।।

वरुणं मकरे श्वेतं नागपाशधरं स्मरेत्।
वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं ।। २९ ।।

त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणं।
ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ।। ३० ।।

स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत्।
दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ।। ३१ ।।

शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं ।
पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीं ।। ३२ ।।

शिवं स्थिरासनं कुम्भे शस्त्रार्थंञ्च ध्रुवासनं।
पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ।। ३३ ।।

निजयागं जगन्नाथ रक्ष भक्तानुकम्पया।
एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत् ।। ३४ ।।

दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा।
मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ।। ३५ ।।

कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिदारिणः।
गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिं ।। ३६ ।।

जपेयुर्जापिनः सङ्‌ख्यं मन्त्रमन्ये तु संहितां ।
पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ।। ३७ ।।

श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिं।
ऋग्‌वेदी पूर्वदिग्‌भागे सर्वमेतत् समुच्चरेत् ।। ३८ ।।

देवव्रतन्तु भारुण्डं ज्यष्ठसाम रथन्तरं।
पुरुषं गीतिमेतानि सामवेदी तु दक्षइणे ।। ३९ ।।

रुद्रं पुरुषसूक्तञ्च श्लोकाद्यायं विशेषतः।
ब्रह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत् ।। ४० ।।

नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च।
उत्तरेऽथर्वशीर्षञ्च तत्‌परस्तु समुद्धरेत् ।। ४१ ।।

आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्डंथ प्रदापयेत् ।
वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डदितः क्रमात् ।। ४२ ।।

धूपदीपचरूणाञ्च ददीताग्निं सम्‌द्धरेत् ।
पूववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ।। ४३ ।।

देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्त्ये।
होमङ्‌कृत्वा तु मन्त्रज्ञः पूर्णा दत्त्वा शुभावहां ।। ४४ ।।

पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत् ।
यजमानालङकृतास्तु व्रजेयुः स्नानमण्डपं ।। ४५ ।।

भद्रपीठे निधायेशं ताडयित्वावगुण्ठयेत्।
स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा ।। ४६ ।।

गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा।
भस्माना गन्धतोयेन फडन्तास्त्रेण वारिणा ।। ४७ ।।

देशिको मूर्त्तिपैः सार्द्धं कृत्वा कारणशोधनं ।
धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा ।। ४८ ।।

सम्पूज्य सितपुष्पैश्च नयदुत्तरवेदिकां।
तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च ।। ४९ ।।

कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत्।
शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा ।। ५० ।।

अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा।
कृतकर्मा चशस्त्रेण लक्ष्मी शिल्पी समुत्तक्षिपेत् ।। ५१ ।।

त्र्यंशादर्द्धोथ पादार्द्धादर्द्धाया अर्द्धतोथवा ।
सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं ।। ५२ ।।

लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात् ।
विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य सर्वतः ।। ५३ ।।

यवस्य नवभक्तस्य भागैरष्टाभिरावृता हस्तिके ।
लक्ष्मरेखा च गाम्भीर्य्याद् विस्तरादपि ।। ५४ ।।

एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके ।
भवेदष्टयवा पृथ्वी गम्भीरात्र च हास्तिके ।। ५५ ।।

एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके।
भवेदष्टयवा पृथ्वी गम्भीरन्नवहास्तिके ।। ५६ ।।

शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः।
लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्द्धनात् ।। ५७ ।

गम्भीरत्वपृथुत्वाभ्यां रेशापि त्रयंशवृद्धितः।
सर्वेषु च भवेत् सूक्ष्मं लिङ्गमस्तकमस्तकं ।। ५८ ।।

लक्ष्मक्षेत्रेष्टधाभक्ते मूद्‌र्ध्नि भागद्वये शुभे ।
षड्‌भागपरिवर्त्तेन मुक्त्वा भागद्वयन्त्वधः ।। ५९ ।।

रेखात्रयेण सम्बद्धं कारयेत् पृष्ठदेशगं।
रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ।। ६० ।।

स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला।
नयनोन्मीलनं वक्त्रे सान्निध्याय च लक्ष्म तत्।। ६१ ।।

लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा।
मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये ।। ६२ ।।

अर्च्चयेच्च तता लिङ्गं स्नापयित्वा मृदादिभिः।
शिल्पिनन्तोषयित्वा तु दद्याद् गां गुरवो ततः ।। ६३ ।।

लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रियः।
सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ।। ६४ ।।

स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं ।
गुडलवणधान्याकदानेन विसृजेच्च ताः ।। ६५ ।।

गुरुमूर्त्तिधरैः सार्द्धं हृदा वा प्रणवेन वा।
मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरं ।। ६६ ।।

स्नापयेत् पञ्चगव्येन पञ्चमृतपुरः सरं ।
विरूक्षणं कषायैश्च सर्वौषधिजलेन वा ।। ६७ ।।

शुभ्रपुष्पफलस्वर्णरत्न श्रृङ्गयवोदकैः।
तथा धारासहस्रेण दिव्यौषधिजलेन च ।। ६८ ।।

तीर्थोदकेन गङ्गेन चन्दनेन च वारिणा।
क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च ।। ६९ ।।

विरूक्षणं विलेपञ्च सुगन्धैश्चन्दनादिभिः।
सम्पूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः ।। ७० ।।

रक्तरूपेण नीराज्य रक्षातिलकपूर्वकं।
घृतौघैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः ।। ७१ ।।

द्रव्यैः स्तुत्यादिबिस्तुष्टमर्चयेत् पुरुषाणुना ।
समाचम्य हृदा देवं ब्रूयादुत्थीयतां प्रभो ।। ७२ ।।

देवं ब्रह्मारथेनैव क्षिप्रं द्रव्याणि तन्नयेत् ।
मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ।। ७३ ।।

शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे।
पश्चिमे पिण्डिकान्तस्यन्यसेद्ब्रह्मशिलान्तदा ।। ७४ ।।

शस्त्रमस्त्र शतालब्धनिद्राकुम्भध्रुवासनं ।
प्राकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ।। ७५ ।।

उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं।
समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिनन्दनं ।। ७६ ।।

दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा।
गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः ।। ७७ ।।

घृतक्षौद्रयुतं पात्रमब्यङ्गाय पदान्तिके।
देशिकश्च स्थितस्तत्र षट्‌त्रिंशत्तत्त्वसञ्चयं ।। ७८ ।।

शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतं।
विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत् ।। ७९ ।।

मायापदेशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलं ।
तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु ।। ८० ।।

एकशः प्रतिभागेषु ब्रह्मविष्णुहरधिपान्।
विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा ।। ८१ ।।

क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान्।
आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान् ।। ८२ ।।

सर्वं पशुपति चोग्रं रुद्रं भवमखेश्वरं ।
महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ।। ८३ ।।

लवशषचयसाश्च हकारश्च त्रिमात्रिकः।
प्रणवो हृदयाणुर्वा मूलमन्त्रोऽथवा क्कचित् ।। ८४ ।।

पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्चाथवा न्यसेत्।
पृथिवीजलतेजांसि वायुमाकाशमेव च ।। ८५ ।।

क्रमात्तदधिपान् पञ्च ब्रह्माणं धरणीधरं।
रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित् ।। ८६ ।।

मुमुक्षोर्वा निवृत्ताद्याः अजाताद्यास्तदीश्वराः ।
त्रितत्त्वं वाथ न्यसेद्व्याप्त्यात्मकारणं ।। ८७ ।।

शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः।
द्रष्टव्या मूर्त्तिपाश्चैव भोगिनो मन्त्रनायकाः ।। ८८ ।।

पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं।
एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो यथा ।। ८९ ।।

ओं हां शक्तितत्तवाय नम हत्यादि ।
ओं हां शक्तितत्त्वाधिपाय नम इत्यादि।
ओं हां क्ष्मामूर्त्तये नमः।
ओं हां क्ष्मामूर्त्त्यधीशाय शिवाय नम इत्यादि।
ओं हां पृथिवीमूर्त्तये नमः।
 ओं हां मूर्त्त्यधिपाय ब्रह्मणे नम इत्यादि।
ओं हां शिवतत्त्वाधिपाय रुद्राय नम इत्यादि।
नाभिकन्दात्समुच्चार्य्य घण्टा नादविसर्प्पणं ।
ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रइतं ।। ९० ।।

नम्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं।
द्वादशान्तात्समानीय निष्कलं व्यापकं शिवं ।। ९१ ।।

अष्टत्रिशत्कलोपेतं सहस्रकिरणोज्जवलं।
सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत् ।। ९२ ।।

जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः।
पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा ।। ९३ ।।


पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः।
सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे । ९४ ।।

पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थितां।
लिङ्गवत्कृतवनिन्यासां विधिवत्सम्प्रपूजयेत् ।। ९५ ।।

कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत्।
कृतस्नानादिसंस्कारं शक्त्यन्तं वृष्भं तथा ।। ९६ ।।

प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च।
क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीं ।। ९७ ।।

भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः।
रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः ।। ९८ ।।

ओं हूं ह्रं क्रियाशक्तये नमः। ओं हूं ह्रां हः
महागौरी रुद्रदयिते स्वाहेति च पिण्ड़िकायां।
ओं हां आदारशक्तये नमः। ओं हां वृषभाय नमः।
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः।
तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ।। ९९ ।।

वामा ज्येष्ठा क्रिया ज्ञाना बेधा तिस्रोथवा न्यसेत्।
क्रियाज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु ।। १०० ।।

तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः
पञ्च चाथ महामोहा घोरा च त्रितयज्वरा ।। १०१ ।।

तिस्रोथवा क्रियाज्ञाना तथा बाधाधिनायिका।
आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत् ।। १०२ ।।

अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि।
गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत् ।। १०३ ।।

एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः।
कुण्डमध्ये महेशानं मेखलासु महेश्वरं ।। १०४ ।।

क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यासेत्।
घटं स्थण्डिलवह्नीशैः नीडीसन्धानकन्तत ।। १०५ ।।

पद्मतन्तुसमां शक्तिमुद्घातेनां समुद्यतां ।
विशन्ती सूर्यमार्गेण निः सरन्तीं समुद्‌गतां ।। १०६ ।।

पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत्।
एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परं ।। १०७ ।।

सम्पूज्य घारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात्।
तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः ।।१०८।।

सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः ।
शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत् ।। १०९ ।।

तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान् ।
तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि ।। ११० ।।

ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः।
सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः ।। १११ ।।

लिङ्गमुलं च संस्पृश्य विष्ण्वन्तादि विशुद्धये।
विधाय पूर्ववत्सर्वं होमसङ्‌श्याजपादिकम् ।। ११२ ।।

एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये।
विधाय पूर्ववत्सर्वं होमसङ्‌ख्याजपादिकम् ।। ११३ ।।

कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत्।
यथा यथा च सन्धानं तदिदानीमिहोच्यते ।। ११४ ।।

ओँ हाँ हँ ओँ ओँ ओँ एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः ।
ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः।
एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयं ।
पञ्चमूर्च्यांत्मकेप्येवं सन्धानं हृदयादिभिः ।। ११५ ।।

मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वात्रयात्मके ।
शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः ।। ११६ ।।

भागाभागविशुद्ध्यर्थं होमं। कुर्य्याच्छतादिकं ।
न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ।। ११७ ।।

हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत्।
एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो ।। ११८ ।।

ओं नमो भगवते रुद्राय रुद्र नमोस्तुते ।
विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यतां ।। ११९ ।।

ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायां।
अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे ।। १२० ।।

आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि। निबध्य
सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ।। १२१ ।।

करात्रमथो वापि यद्वा सद्योधिवासनं ।
विनाधिवासनं यागः कृतोऽपि न फलप्रदः ।। १२२ ।।

स्वमन्त्रैः प्रत्याहं देयमाहुतीनां शतं शतं।
शिवकुम्भादिपूजाञ्च दिग्‌बलिञ्च निवेदयेत् ।। १२३ ।।

गुर्वादिसहितो वासो रात्रौ नियमपूर्वकम्।
अदिवासः स वसतेवधेर्भावः समीरितः ।। १२४ ।।

इत्यादिमहापुराणे आग्नेये अधिवासनविधिर्नाम षण्णवतितमोऽध्यायः॥

अग्नि पुराण - छियानबेवाँ अध्याय !-हिन्दी मे -Agni Purana - 96 Chapter !-In Hindi

भगवान् शिव कहते हैं - स्कन्द ! पुरोहितको चाहिये कि वह स्नान करके प्रातःकाल और मध्याह्नकाल, दोनों समयोंका नित्यकर्म सम्पन्न करके मूर्तिरक्षक सहायक ब्राह्मणोंके साथ यज्ञमण्डपको पधारे। (मूर्तिभिर्जापिभिर्विप्रैः - इस पाठान्तरके अनुसार मूर्तियों और जपकर्ता ब्राह्मणोंके साथ यज्ञमण्डपमें जाय, ऐसा अर्थ समझना चाहिये।) फिर वहाँ शान्ति आदि
द्वारोंका पूर्ववत् क्रमशः पूजन करे। इन द्वारोंकी दोनों शाखाओंपर प्रदक्षिणक्रमसे द्वारपालोंकी पूजा करनी चाहिये। पूर्व दिशामें द्वारपाल नन्दी और महाकालकी, दक्षिण दिशामें भृङ्गी और विनायककी, पश्चिम दिशामें वृषभ और स्कन्दकी तथा उत्तर दिशामें देवी और चण्डकी पूजा करे। द्वार-शाखाओंके मूलदेशमें पूर्वादि क्रमसे दो-दो कलशोंकी पूजा करे। उनके नाम इस प्रकार हैं- पूर्व दिशामें प्रशान्त और शिशिर, दक्षिणमें पर्जन्य और अशोक, पश्चिममें भूतसंजीवन और अमृत तथा उत्तरमें धनद और श्रीप्रद- इन दो-दो कलशोंकी क्रमशः पूजाका विधान है। इनके नामके आदिमें 'प्रणव' और अन्तमें 'नमः' जोड़कर चतुर्थ्यन्त रूप रखे। यही इनके पूजनका मन्त्र है। यथा- 'ॐ प्रशान्तशिशिराभ्यां नमः ।' इत्यादि ॥ १-५ ॥
लोक दो, ग्रह दो, वसु दो, द्वारपाल दो, नदियाँ दो, सूर्य तीन, युग एक, वेद एक, लक्ष्मी तथा गणेश - इतने देवता यज्ञमण्डपके प्रत्येक द्वारपर रहते हैं। इनका कार्य है- विघ्नसमूहका निवारण और यज्ञका संरक्षण। पूर्वादि दस दिशाओंमें वज्र, शक्ति, दण्ड, खड्ङ्ग, पाश, ध्वज, गदा, त्रिशूल, चक्र और कमलकी क्रमशः पूजा करे तथा प्रत्येक दिशामें दिक्पालकी पताकाका भी पूजन करे। पूजनके मन्त्रका स्वरूप इस प्रकार है - ॐ हूं हः वज्राय हूं फट् । ॐ हूं हः शक्तये हूं फट् । इत्यादि ॥ ६-९॥कुमुद, कुमुदाक्ष, पुण्डरीक, वामन, शङ्कुकर्ण, सर्वनेत्र (अथवा पद्यनेत्र), सुमुख और सुप्रतिष्ठित - ये ध्वजोंके आठ देवता हैं, जो पूर्वादि दिशाओंमें कोटि-कोटि भूतोंसहित पूजनीय हैं। इनके पूजन- सम्बन्धी मन्त्र इस प्रकार हैं- 'ॐ कुं कुमुदाय नमः।' इत्यादि। हेतुक (अथवा हेरुक), त्रिपुरघ्न, शक्ति (अथवा वह्नि), यमजिह्न, काल, छठा कराली, सातवाँ एकाङ्घ्रि और आठवाँ भीम-ये क्षेत्रपाल हैं। इनका क्रमशः पूर्वादि आठ दिशाओंमें पूर्ववत् पूजन करे। बलि, पुष्प और धूप देकर इन सबको सन्तुष्ट करे। तदनन्तर उत्तम एवं पवित्र तृणोंपर, अथवा बाँसके खंभोंपर क्रमशः पृथ्वी आदि पाँच तत्त्वोंकी स्थापना करके सद्योजातादि पाँच मन्त्रोंद्वारा उनका पूजन करे। सदाशिवपदव्यापी मण्डपका, जो भगवान् शंकरका धाम है तथा पताका एवं शक्तिसे संयुक्त है (पाठान्तरके अनुसार पातालशक्ति या पिनाकशक्तिसे संयुक्त है), तत्त्वदृष्टिसे अवलोकन करे ॥ १०-१५ ॥ पूर्ववत् दिव्य अन्तरिक्ष एवं भूलोकवर्ती विघ्नोंका अपसारण करके पश्चिम द्वारमें प्रवेश करे और शेष दरवाजोंको बंद करा दे (अथवा शेष द्वारोंका दर्शनमात्र कर ले। प्रदक्षिणक्रमसे मण्डपके भीतर जाकर वेदीके दक्षिण भागमें उत्तराभिमुख होकर बैठे और पूर्ववत् भूतशुद्धि करे। अन्तर्याग, विशेषार्घ्य, मन्त्र-द्रव्यादि-शोधन, स्वात्मपूजन तथा पश्चगव्य आदि पूर्ववत् करे। फिर वहाँ आधारशक्तिकी प्रतिष्ठापूर्वक कलश स्थापन करे। विशेषतः शिवका ध्यान करे। तदनन्तर क्रमशः तीनों तत्त्वोंका चिन्तन करे। ललाटमें शिवतत्त्वकी, स्कन्धदेशमें विद्यातत्त्वकी तथा पादान्त-भागमें उत्तम आत्मतत्त्वकी भावना करे। शिवतत्त्वके रुद्र, विद्यातत्त्वके नारायण तथा आत्मतत्त्वके ब्रह्मा देवता हैं। इनका अपने नाम-मन्त्रोंद्वारा पूजन करना चाहिये। इन तत्त्वोंके आदि-बीज क्रमशः इस प्रकार हैं-'ॐ ई आम्' ।। १६-२१ ॥ मूर्तियों और मूर्तीश्वरोंकी वहाँ पूर्ववत् स्थापना | करे। उनमें व्यापक शिवका साङ्ग पूजन करके मस्तकपर शिवहस्त रखे। भावनाद्वारा ब्रह्मरन्ध्रके मार्गसे प्रविष्ट हुए तेजसे अपने बाहर भीतरकी अन्धकार राशिको नष्ट करके आत्मस्वरूपका इस प्रकार चिन्तन करे कि 'वह सम्पूर्ण दिङ्मण्डलको प्रकाशित कर रहा है।' मूर्तिपालकोंके साथ अपने-आपको भी हार, वस्त्र और मुकुट आदिसे अलंकृत करके-'मैं शिव हूँ' - ऐसा चिन्तन करते हुए 'बोधासि' (ज्ञानमय खड्ग) को उठावे। चतुष्पदान्त संस्कारोंद्वारा यज्ञमण्डपका संस्कार करे। बिखेरने योग्य वस्तुओंको सब ओर बिखेरकर, कुशकी कूँचीसे उन सबको समेटे। उन्हें आसनके नीचे करके वार्धानीके जलसे पूर्ववत् वास्तु आदिका पूजन करे। शिव-कुम्भास्त्र और वार्धानीके सुस्थिर आसनोंकी भी पूजा करे। अपनी-अपनी दिशामें कलशोंपर विराजमान इन्द्रादि लोकपालोंका क्रमशः उनके वाहनों और आयुध आदिके साथ यथाविधि पूजन करे ॥ २२-२७ ॥
पूर्व दिशामें इन्द्रका चिन्तन करे। वे ऐरावत हाथीपर बैठे हैं। उनकी अङ्ग कान्ति सुवर्णके समान दमक रही है। मस्तकपर किरीट शोभा दे रहा है। वे सहस्त्र नेत्र धारण करते हैं। उनके हाथमें वज्र शोभा पाता है। अग्रिकोणमें सात ज्वालामयी जिह्वाएँ धारण किये, अक्षमाला और कमण्डलु लिये, लपटोंसे घिरे रक्त वर्णवाले अग्निदेवका ध्यान करे। उनके हाथमें शक्ति शोभा पाती है तथा बकरा उनका वाहन है। दक्षिणमें महिषारूढ दण्डधारी यमराजका चिन्तन करे, जो कालाग्निके समान प्रकाशित हो रहे हैं। नैऋत्य कोणमें लाल नेत्रवाले नैऋत्यकी भावना करे, जो हाथमें तलवार लिये, शव (मुर्दे) पर आरूढ हैं। पश्चिममें मकरारूढ, श्वेतवर्ण, नागपाशधारी वरुणका चिन्तन करे। वायव्यकोणमें मृगारूढ, नीलवर्ण वायुदेवका तथा उत्तरमें भेंड़ेपर सवार कुबेरका ध्यान करे। ईशानकोणमें त्रिशूलधारी, वृषभारूढ ईशानका, नैऋत्य तथा पश्चिमके मध्यभागमें कच्छपपर सवार चक्रधारी भगवान् अनन्तका तथा ईशान और पूर्वके भीतर चार मुख एवं चार भुजा धारण करनेवाले हंसवाहन ब्रह्माका ध्यान करे ॥ २८-३२ ॥
खंभोंके मूल भागमें स्थित कलशोंमें तथा बेदीपर धर्म आदिका पूजन करे। कुछ लोग सम्पूर्ण दिशाओंमें स्थित कलशोंपर अनन्त आदिकी पूजा भी करते हैं। इसके बाद शिवाज्ञा सुनावे और कलशोंको अपने पृष्ठभागतक घुमावे । तत्पश्चात् पहले कलशको और फिर वार्धानीको पूर्ववत् अपने स्थानपर रख दे। स्थिर आसनवाले शिवका कलशमें और शस्त्रके लिये ध्रुवासनका पूर्ववत् पूजन करके उद्भव मुद्राद्वारा स्पर्श करे। उस समय भगवान्से इस प्रकार प्रार्थना करे-'हे जगन्नाथ! आप अपने भक्तजनपर कृपा करके इस अपने ही यज्ञकी रक्षा कीजिये।'- यों रक्षाके लिये प्रार्थना सुनाकर कलशमें खड्गकी स्थापना करे। दीक्षा और स्थापनाके समय कलशमें, वेदीपर अथवा मण्डलमें भगवान् शिवका पूजन करे। मण्डलमें देवेश्वर शिवका पूजन करनेके पश्चात् कुण्डके समीप जाय ॥ ३३-३७ ॥
कुण्ड-नाभिको आगे करके बैठे हुए मूर्तिधारी पुरुष गुरुकी आज्ञासे अपने-अपने कुण्डका संस्कार करें। जप करनेवाले ब्राह्मण संख्यारहित मन्त्रका जप करें। दूसरे लोग संहिताका पाठ करें। अपनी शाखाके अनुसार वेदोंके पारंगत विद्वान् शान्तिपाठमें लगे रहें। ऋग्वेदी विद्वान् पूर्व दिशामें श्रीसूक्त, पावमानी ऋचा, मैत्रेय ब्राह्मण तथा वृषाकपि- मन्त्र-इन सबका पाठ करें। सामवेदी विद्वान् दक्षिणमें देवव्रत, भारुण्ड, ज्येष्ठसाम, रथन्तरसाम तथा पुरुषगीत-इन सबका गान करें। यजुर्वेदी विद्वान् पश्चिम दिशामें रुद्रसूक्त, पुरुषसूक्त, श्लोकाध्याय तथा विशेषतः ब्राह्मणभागका पाठ करें। अथर्ववेदी विद्वान् उत्तर दिशामें नीलरुद्र, सूक्ष्मासूक्ष्म तथा अथर्वशीर्षका तत्परतापूर्वक अध्ययन करें ॥ ३८-४३ ॥
आचार्य (अरणी-मन्थनद्वारा) अग्रिका उत्पादन करके उसे प्रत्येक कुण्डमें स्थापित करावें। अग्रिके पूर्व आदि भागोंको पूर्व-कुण्ड आदिके क्रमसे लेकर धूप, दीप और चरुके निमित्त अग्रिका उद्धार करे। फिर पहले बताये अनुसार भगवान् शंकरका पूजन करके शिवाग्रिमें मन्त्र तर्पण करे। देश, काल आदिकी सम्पन्नता तथा दुर्निमित्तकी शान्तिके लिये होम करके मन्त्रज्ञ आचार्य मङ्गलकारिणी पूर्णाहुति प्रदान करके, पूर्ववत् चरु तैयार करे और उसे प्रत्येक कुण्डमें निवेदित करे। यजमानसे वस्त्राभूषणोंद्वारा विभूषित एवं सम्मानित मूर्तिपालक ब्राह्मण स्नान-मण्डपमें जायँ। भद्रपीठपर भगवान् शिवकी प्रतिमाको स्थापित करके ताड़न और अवगुण्ठनकी क्रिया करें। पूर्वकी वेदीपर पूजन करके मिट्टी, काषाय जल, गोबर और गोमूत्रसे तथा बीच-बीचमें जलसे भगवत्प्रतिमाको स्नान करावे। तत्पश्चात् भस्म तथा गन्धयुक्त जलसे नहलावे। इसके बाद आचार्य 'अस्त्राय फट्।' इस मन्त्रसे अभिमन्त्रित जलके द्वारा मूर्तिपालकोंके साथ हाथ धोकर कवच-मन्त्रसे अभिमन्त्रित पीताम्बरद्वारा मूर्तिको आच्छादित करके श्वेत फूलोंसे उसकी पूजा करे। तदनन्तर उसे उत्तर-वेदीपर ले जाय ॥ ४४-५०॥
वहाँ आसनयुक्त शय्यापर सुलाकर कुङ्कुममें रँगे हुए सूतसे अङ्गोंका विभाजन करके आचार्य सोनेकी शलाकाद्वारा उस प्रतिमामें दोनों नेत्र अङ्कित करे। यह कार्य शस्त्र-क्रियाद्वारा सम्पन्न होना चाहिये। पहले चिह्न बनानेवाला गुरु नेत्र- चिह्नको अञ्जनसे अङ्कित कर दे; इसके बाद वह शिल्पी, जो मूर्ति-निर्माणका कार्य पहले भी कर चुका हो, उस नेत्रचिह्नको शस्त्रद्वारा खोदे (अर्थात् खुदाई करके नेत्रकी आकृतिको स्पष्टरूपसे अभिव्यक्त करे)। अचर्चाके तीन अंशसे कम अथवा एक चौथाई भाग या आधे भागमें सम्पूर्ण कामनाओंकी सिद्धिके लिये शुभ लक्षण (चिह्न) की अवतारणा करनी चाहिये। शिवलिङ्गकी लंबाईके मानमें तीनसे भाग देकर एक भागको त्याग देनेसे जो मान हो, वही लिङ्गके लक्ष्मदेहका सब ओरसे विस्तार होना चाहिये ॥ ५१-५५ ॥
एक हाथके प्रस्तरखण्डमें जो लक्ष्मरेखा बनेगी, उसकी गहराई और चौड़ाई उतनी ही होगी, जितनी जौके नौ भागोंमेंसे एकको छोड़ने और आठको लेनेसे होती है। इसी प्रकार डेढ़ हाथ या दो हाथ आदिके लिङ्गसे लेकर नौ हाथतकके लिङ्गमें क्रमशः भागकी वृद्धि करके लक्ष्मरेखा बनानी चाहिये। इस तरह नौ हाथवाले लिङ्गमें आठ जौके बराबर मोटी और गहरी लक्ष्मरेखा होनी चाहिये। जो शिवलिङ्ग परस्पर अन्तर रखते हुए उत्तरोत्तर सवाये बड़े हों, वहाँ लक्ष्म देहका विस्तार एक-एक जौ बढ़ाकर करना चाहिये। गहराई और मोटाईकी वृद्धिके अनुसार रेखा भी एक तिहाई बढ़ जायगी। सभी शिवलिङ्गोंमें लिङ्गका ऊपरी भाग ही उनका सूक्ष्म मस्तक है॥ ५६-५९
लक्ष्म अर्थात् चिह्नका जो क्षेत्र है, उसका आठ भाग करके दो भागोंको मस्तकके अन्तर्गत रखे। शेष छः भागोंमेंसे नीचेके दो भागोंको छोड़कर मध्यके अवशिष्ट भागोंमें तीन रेखा खींचे और उन्हें पृष्ठदेशमें ले जाकर जोड़ दे। रत्नमय लिङ्गमें लक्षणोद्धारकी आवश्यकता नहीं है। भूमिसे स्वतः प्रकट हुए अथवा नर्मदादि नदियोंसे प्रादुर्भूत हुए शिवलिङ्गमें भी लक्ष्मोद्धार अपेक्षित नहीं है। रत्नमय लिङ्गोंके रत्नोंमें जो निर्मल प्रभा होती है, वही उनके स्वरूपका लक्षण (परिचायक) है। मुखभागमें जो नेत्रोन्मीलन किया जाता है, वह आवश्यक है और उसीके संनिधानके लिये वह लक्ष्म या चिह्न बनाया जाता है। लक्षणोद्धारकी रेखाका घृत और मधुसे मृत्युञ्जय मन्त्रद्वारा पूजन करके, शिल्पिदोषकी निवृत्तिके लिये मृत्तिका आदिसे स्रान कराकर, लिङ्गकी अर्चना करे। फिर दान-मान आदिसे शिल्पीको संतुष्ट करके आचार्यको गोदान दे। तदनन्तर सौभाग्यवती स्त्रियाँ धूप, दीप आदिके द्वारा लिङ्गकी विशेष पूजा करके मङ्गल-गीत गायें और सव्य या अपसव्य भावसे सूत्र अथवा कुशके द्वारा स्पर्शपूर्वक रोचना अर्पित करके न्योछावर दें। इसके बाद यजमान गुड़, नमक दे, और धनिया देकर उन स्त्रियोंको विदा करे ॥ ६०-६६ ॥
तत्पश्चात् गुरु मूर्तिरक्षक ब्राह्मणोंके साथ 'नमः' या प्रणव-मन्त्रके द्वारा मिट्टी, गोबर, गोमूत्र और भस्मसे पृथक् पृथक् स्नान करावे। एक-एकके बाद बीचमें जलसे स्रान कराता जाय। फिर पञ्चगव्य, पञ्चामृत, रूखापन दूर करनेवाले कषाय द्रव्य, सर्वोषधिमिश्रित जल, श्वेत पुष्प, फल, सुवर्ण, रत्न, सींग एवं जौ मिलाये हुए जल, सहस्रधारा, दिव्यौषधियुक्त जल, तीर्थ-जल, गङ्गाजल, चन्दनमिश्रित जल, क्षीरसागर आदिके जल, कलशोंके जल तथा शिवकलशके जलसे अभिषेक करे। रूखेपनको दूर करनेवाला विलेपन लगाकर उत्तम गन्ध और चन्दन आदिसे पजन करनेके पश्चात् ब्रह्ममन्त्रद्वारा पुष्प तथा कवच- मन्त्रसे लाल वस्त्र चढ़ावे। फिर अनेक प्रकारसे आरती उतारकर रक्षा और तिलकपूर्वक गीत- वाद्य आदिसे, विविध द्रव्योंसे तथा जय-जयकार और स्तुति आदिसे भगवान्को संतुष्ट करके पुरुष-मन्त्रसे उनकी पूजा करे। तदनन्तर हृदय- मन्त्रसे आचमन करके इष्टदेवसे कहे - 'प्रभो! उठिये ' ॥ ६७-७३ ॥
फिर इष्टदेवको ब्रह्मरथपर बिठाकर उसीके द्वारा उन्हें सब ओर घुमाते और द्रव्य बिखेरते हुए मण्डपके पश्चिम द्वारपर ले जाय और वहाँ शय्यापर भगवान्को पधरावे। आसनके आदि- अन्तमें शक्तिकी भावना करके उस शुभ आसनपर उन्हें विराजमान करे। पश्चिमाभिमुख प्रासादमें पश्चिम दिशाकी ओर पिण्डिका स्थापित करके उसके ऊपर ब्रह्मशिला रखे। शिवकोणमें सौ अस्त्र-मन्त्रोंसे अभिमन्त्रित निद्रा-कलश और शिवासनकी कल्पना करके, हृदय-मन्त्रसे अर्घ्य देवताको उठाकर लिङ्गमय आसनपर शिरोमन्त्रद्वारा पूर्वकी ओर मस्तक रखते हुए आरोपित एवं स्थापित करे। इस प्रकार उन परमात्माका साक्षात्कार होनेपर चन्दन और धूप चढ़ाते हुए उनकी पूजा करे तथा कवच- मन्त्रसे वस्त्र अर्पित करे। घरका उपकरण आदि अर्पित कर दे। फिर अपनी शक्तिके अनुसार नमस्कारपूर्वक नैवेद्य निवेदन करे। अभ्यङ्ग- कर्मके लिये घृत और मधुसे युक्त पात्र इष्टदेवके चरणोंके समीप रखे। वहाँ उपस्थित हुए आचार्य शक्तिसे लेकर भूमि-पर्यन्त छत्तीस तत्त्वोंके समूहको उनके अधिपतियोंसहित स्थापित करके फूलकी मालाओंसे उनके तीन भागोंकी कल्पना करे ॥ ७४-८० ॥ वे तीन भाग मायासे लेकर शक्ति-पर्यन्त हैं। उनमें प्रथम भाग चतुष्कोण, द्वितीय भाग अष्टकोण और तृतीय भाग वर्तुलाकार है। प्रथम भागमें आत्मतत्त्व, द्वितीय भागमें विद्यातत्त्व और तृतीय भागमें शिवतत्त्वकी स्थिति है। इन भागोंमें सृष्टिक्रमसे एक-एक अधिपति हैं, जो ब्रह्मा, विष्णु और शिव नामसे प्रसिद्ध हैं। तदनन्तर मूर्तियों और मूर्तीश्वरोंका पूर्वादि दिशाओंके क्रमसे न्यास करे। पृथ्वी, अग्नि, यजमान, सूर्य, जल, वायु, चन्द्रमा और आकाश - ये आठ मूर्तिरूप हैं। इनका न्यास करनेके पश्चात् इनके अधिपतियोंका न्यास करना चाहिये। उनके नाम इस प्रकार हैं- शर्व, पशुपति, उग्र, रुद्र, भव, ईश्वर, महादेव और भीम। इनके वाचक मन्त्र निम्नलिखित हैं-लं, रं, शं, खं, चं, पं, सं, हं* अथवा त्रिमात्रिक प्रणव तथा 'हां' अथवा हृदय-मन्त्र अथवा कहीं कहीं मूल-मन्त्र इनके (मूर्तियों और मूर्तिपतियोंके) पूजनके उपयोगमें आते हैं। अथवा पञ्चकुण्डात्मक यागमें पृथ्वी, जल, तेज, वायु और आकाश- इन पाँच मूर्तियोंका ही न्यास करे ॥ ८१-८६ ॥ फिर क्रमशः इनके पाँच अधिपतियों - ब्रह्मा, शेषनाग, रुद्र, ईश और सदाशिवका मन्त्रज्ञ पुरुष सृष्टि-क्रमसे न्यास करे। यदि यजमान मुमुक्षु हो तो वह पञ्चमूर्तियोंके स्थानमें 'निवृत्ति' आदि पाँच कलाओं तथा उनके 'अजात' आदि अधिपतियोंका न्यास करे। अथवा सर्वत्र व्याप्तिरूप कारणात्मक त्रितत्त्वका ही न्यास करना चाहिये। शुद्ध अध्वामें विद्येश्वरोंका और अशुद्धमें लोकनायकोंका मूर्तिपतियोंके रूपमें दर्शन करना चाहिये। भोगी (सर्प) भी मन्त्रेश्वर हैं। पैंतीस, आठ, पाँच और तीन मूर्तिरूप-तत्त्व क्रमशः कहे गये हैं। ये ही इनके तत्त्व हैं। इन तत्त्वोंके अधिपतियोंके मन्त्रोंका दिग्दर्शनमात्र कराया जाता है। ॐ हां शक्तितत्त्वाय नमः। इत्यादि । ॐ हां शक्तितत्त्वाधिपाय नमः । इत्यादि। ॐ हां क्ष्मामूर्तये नमः। ॐ हां क्ष्मामूर्त्यधिपतये ब्रह्मणे नमः। इत्यादि । ॐ हां शिवतत्त्वाय नमः। ॐ हां शिवतत्त्वाधिपतये रुद्राय नमः। इत्यादि। नाभिमूलसे उच्चरित होकर घण्टानादके समान सब ओर फैलनेवाले, ब्रह्मादि कारणोंके त्यागपूर्वक, द्वादशान्तस्थानको प्राप्त हुए मनसे अभिन्न तथा आनन्द-रसके उद्गमको पा लेनेवाले मन्त्रका और निष्कल, व्यापक शिवका, जो अड़तीस कलाओंसे युक्त, सहस्रों किरणोंसे प्रकाशमान, सर्वशक्तिमय तथा साङ्ग हैं, ध्यान करते हुए उन्हें द्वादशान्तसे लाकर शिवलिङ्गमें स्थापित करे ॥ ८७-९४ ॥ इस प्रकार शिवलिङ्गमें जीवन्यास होना चाहिये, जो सम्पूर्ण पुरुषार्थोंका साधक है। पिण्डिका आदिमें किस प्रकार न्यास करना चाहिये, यह बताया जाता है। पिण्डिकाको स्नान कराकर उसमें चन्दन आदिका लेप करे और उसे सुन्दर वस्त्रोंसे आच्छादित करके, उसके भगस्वरूप छिद्रमें पञ्चरत्न आदि डालकर, उस पिण्डिकाको लिङ्गसे उत्तर दिशामें स्थापित करे। उसमें भी लिङ्गकी ही भाँति न्यास करके विधिपूर्वक उसकी पूजा करे। उसका स्रान आदि पूजन-कार्य सम्पन्न करके लिङ्गके मूलभागमें शिवका न्यास करे। फिर शक्त्यन्त वृषभका भी स्नान आदि संस्कार करके स्थापन करना चाहिये ॥ ९५-९८ ॥ तत्पश्चात् पहले प्रणवका, फिर 'ह्रां हूं ह्रीं।'-
इन तीन बीजोंमेंसे किसी एकका उच्चारण करते हुए क्रियाशक्तिसहित आधाररूपिणी शिला- पिण्डिकाका पूजन करे। भस्म, कुशा और तिलसे तीन प्राकार (परकोटा) बनावे तथा रक्षाके लिये आयुधोंसहित लोकपालोंको बाहरकी ओर नियोजित एवं पूजित करे। पूजनके मन्त्र इस प्रकार हैं- 'ॐ ह्रीं क्रियाशक्तये नमः। ॐ ह्रीं महागौरि रुद्रदयिते स्वाहा।' निम्नाङ्कित मन्त्रके द्वारा पिण्डिकामें पूजन करे -' ॐ ह्रीं आधारशक्तये नमः। ॐ ह्रां वृषभाय नमः ।' ॥ ९९-१०१ ॥
धारिका, दीप्ता, अत्युग्रा, ज्योत्स्रा, बलोत्कटा, धात्री और विधात्री-इनका पिण्डीमें न्यास करे; अथवा वामा, ज्येष्ठा, क्रिया, ज्ञाना और वेधा (अथवा रोधा या प्रह्ली) - इन पाँच नायिकाओंका न्यास करे। अथवा क्रिया, ज्ञाना तथा इच्छा-इन तीनका ही न्यास करे; पूर्ववत् शान्तिमूर्तियोंमें तमी, मोहा, क्षुधा, निद्रा, मृत्यु, माया, जरा और भया-इनका न्यास करे; अथवा तमा, मोहा, घोरा, रति, अपञ्चरा-इन पाँचोंका न्यास करे; या क्रिया, ज्ञाना और इच्छा- इन तीन अधिनायिकाओंका आत्मा आदि तीन तीव्र मूर्तिवाले तत्त्वोंमें न्यास करे। यहाँ भी पिण्डिका, ब्रह्मशिला आदिमें पूर्ववत् गौरी आदि शम्बरों (मन्त्रों) द्वारा ही सब कार्य विधिवत् सम्पन्न करे ॥ १०२ - १०६ ॥
इस प्रकार न्यास-कर्म करके कुण्डके समीप जा, उसके भीतर महेश्वरका, मेखलाओंमें चतुर्भुजका, नाभिमें क्रियाशक्तिका तथा ऊर्ध्वभागमें नादका न्यास करे। तदनन्तर कलश, वेदी, अग्नि और शिवके द्वारा नाड़ीसंधान-कर्म करे। कमलके तन्तुकी भाँति सूक्ष्मशक्ति ऊर्ध्वगत वायुकी सहायतासे ऊपर उठती और शून्य मार्गसे शिवमें प्रवेश करती है। फिर वह ऊर्ध्वगत शक्ति वहाँसे निकलती और शून्यमार्गसे अपने भीतर प्रवेश करती है। इस प्रकार चिन्तन करे। मूर्तिपालकोंको भी सर्वत्र इसी प्रकार संधान करना चाहिये ॥ १०७-११० ॥ कुण्डमें आधार-शक्तिका पूजन करके, तर्पण करनेके पश्चात्, क्रमशः तत्त्व, तत्त्वेश्वर, मूर्ति और मूर्तीश्वरोंका घृत आदिसे पूजन और तर्पण करे। फिर उन दोनों (तत्त्व, तत्त्वेश्वर एवं मूर्ति, मूर्तीश्वर) को संहिता-मन्त्रोंसे एक सौ, एक सहस्र अथवा आधा सहस्र आहुतियाँ दे। साथ ही पूर्णाहुति भी अर्पण करे। तत्त्व और तत्त्वेश्वरों तथा मूर्ति और मूर्तीश्वरोंका पूर्वोक्त रीतिसे एक- दूसरेके संनिधानमें तर्पण करके मूर्तिपालक भी उनके लिये आहुतियाँ दें। इसके बाद द्रव्य और कालके अनुसार वेदों और अङ्गोंद्वारा तर्पण करके, शान्ति-कलशके जलसे प्रोक्षित कुश- मूलद्वारा लिङ्गके मूलभागका स्पर्श करके, होम- संख्याके बराबर जप करे। हृदय मन्त्रसे संनिधापन और कवच-मन्त्रसे अवगुण्ठन करे ॥ १११-११५ ॥ इस प्रकार संशोधन करके, लिङ्गके ऊर्ध्व- भागमें ब्रह्मा और अन्त (मूल) भागमें विष्णुका पूजन आदि करके, शुद्धिके लिये पूर्ववत् सारा कार्य सम्पन्न कर, होम-संख्याके अनुसार जप
आदि करे। कुशके मध्यभागसे लिङ्गके मध्यभागका और कुशके अग्रभागसे लिङ्गके अग्रभागका स्पर्श करे। जिस मन्त्रसे जिस प्रकार संधान किया जाता है, वह इस समय बताया जाता है - ॐ हां हं, ॐ ॐ एं, ॐ भू भू बाह्यमूर्तये नमः। ॐ हां वां, आं ॐ आं षां, ॐ भू भुं वां वह्निमूर्तये नमः। इसी प्रकार यजमान आदि मूर्तियोंके साथ भी अभिसंधान करना चाहिये। पञ्चमूर्त्यात्मक शिवके लिये भी हृदयादि- मन्त्रोंद्वारा इसी तरह संधानकर्म करनेका विधान है। त्रितत्त्वात्मक स्वरूपमें मूलमन्त्र अथवा अपने बीज मन्त्रोंद्वारा संधानकर्म करनेकी विधि है- ऐसा जानना चाहिये। शिला, पिण्डिका एवं वृषभके लिये भी इसी तरह संधान आवश्यक है। प्रत्येक भागकी शुद्धिके लिये अपने मन्त्रोंद्वारा शतादि होम करे और उसे पूर्णाहुतिद्वारा पृथक् कर दे ॥ ११६-१२० ॥
न्यूनता आदि दोषसे छुटकारा पानेके लिये शिव-मन्त्रसे एक सौ आठ आहुतियाँ दे और जो कर्म किया गया है, उसे शिवके कानमें निवेदन करे-'प्रभो! आपकी शक्तिसे ही मेरे द्वारा इस कार्यका सम्पादन हुआ है, ॐ भगवान् रुद्रको नमस्कार है। रुद्रदेव! आपको मेरा नमस्कार है। यह कार्य विधिपूर्ण हो या अपूर्ण, आप अपनी शक्तिसे ही इसे पूर्ण करके ग्रहण करें।' 'ॐ ह्रीं शांकरि पूरय स्वाहा।'। ऐसा कहकर पिण्डिकामें न्यास करे। तदनन्तर ज्ञानी पुरुष लिङ्गमें क्रिया-शक्तिका और पीठ-विग्रहमें ब्रह्मशिलाके ऊपर आधाररूपिणी शक्तिका न्यास करे सात, पाँच, तीन अथवा एक राततक उसका निरोध करके या तत्काल ही उसका अधिवासन करे। अधिवासनके बिना कोई भी याग सम्पादित होनेपर भी फलदायक नहीं होता। अतः अधिवासन अवश्य करे। अधिवासन-कालमें प्रतिदिन देवताओंको अपने-अपने मन्त्रोंद्वारा सौ-सौ आहुतियाँ दे तथा शिव-कलश आदिकी पूजा करके दिशाओंमें बलि अर्पित करे  गुरु आदिके साथ रातमें नियमपूर्वक वास 'अधिवास' कहलाता है। 'अधि 'पूर्वक 'वस' धातुसे भावमें 'घञ्' प्रत्यय किया गया है। इससे 'अधिवास' शब्द सिद्ध हुआ है ॥ १२१-१२५ ॥
इस प्रकार आदि आग्नेय महापुराणमें 'प्रतिष्ठाके अन्तर्गत संधान एवं अधिवासकी विधिका वर्णन' नामक छियानबेवाँ अध्याय पूरा हुआ ॥ ९६ ॥

टिप्पणियाँ