श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ! Sri Dattatreya Sahasranama Stotram ! श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं !

श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ! Sri Dattatreya Sahasranama Stotram

श्री दत्तात्रेयसहस्रनाम स्तोत्र पाठ का माहात्म्य 

इस स्तोत्र के स्तवन् से मनोवाञ्छित फल की प्राप्ति होती है। भगवान विष्णु के चरणों की अखण्ड भक्ति की प्राप्ति होती है। साधक का सांसारिक मोह नष्ट हो जाता है। साधक का भय नष्ट होता है तथा इनकी उपासना से अभय वर की प्राप्ति होती है।
श्री दत्तात्रेय सहस्रनाम स्तोत्र को परम पुनीत स्तोत्र माना जाता है. इस स्तोत्र का पाठ करने से उपासक को इहलोक और परलोक में आनंद की प्राप्ति होती है. इस स्तोत्र के स्तवनों से मनोवांछित फल मिलता है और भगवान विष्णु के चरणों की अखंड भक्ति की प्राप्ति होती है. इस स्तोत्र का पाठ करने से साधक का सांसारिक मोह नष्ट हो जाता है और भय भी दूर होता है. इस स्तोत्र की उपासना से अभय वर की प्राप्ति होती है !

श्री दत्तात्रेय स्तोत्र के कुछ और फ़ायदे-

  • इस स्तोत्र का पाठ करने से शत्रुओं का नाश होता है.
  • इस स्तोत्र का पाठ करने से जीवन के हर मोड़ पर विजय मिलती है.
  • इस स्तोत्र का पाठ करने से भक्तों को ज्ञान की प्राप्ति होती है.
  • इस स्तोत्र का पाठ करने से भक्तों का चित्त निर्मल हो जाता है.
  • इस स्तोत्र का पाठ करने से सभी पाप तुरंत नष्ट हो जाते हैं.
  • इस स्तोत्र के पाठ करने से दत्तात्रेय जी का साक्षात दर्शन होता है.

श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ! Sri Dattatreya Sahasranama Stotram

निखिलागमतत्त्वज्ञ ब्रह्मज्ञानपरायण ।
वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् ॥ १॥
सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् ।
को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् ॥ २॥
  • सूत उवाच
निगमागमतत्त्वज्ञो ह्यवधूतश्चिदम्बरः ।
भक्तवात्सल्यप्रवणो दत्त एव हि केवलः ॥ ३॥
सदा प्रसन्नवदनो भक्तचिन्तैकतत्परः ।
तस्य नामान्यनन्तानि वर्तन्तेऽथाप्यदः परम् ॥ ४॥
दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् ।
यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः ॥ ५॥
मुच्यते सर्वपापेभ्यः स सस्द्यो नात्र संशयः ।
अन्ते तद्धाम संयाति पुनरावृत्तिदुर्लभम् ॥ ६॥
  • विनियोगः
अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य अवधूत ऋषिः ।अनुष्टुप्छन्दः । दिगम्बरो देवता । ॐ बीजम् । ह्रीं शक्तिः ।
क्रौं कीलकम् । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ॥
  • अथ ध्यानम् -
दिगम्बरं भस्मविलेपिताङ्गं बोधात्मकं मुक्तिकरं पर्सन्नम् ।
निर्मानसं श्यामतनुं भजेऽहं दत्तात्रेयं ब्रह्मसमाधियुक्तम् ॥

अथ सहस्रनामस्तोत्रम् । Sri Dattatreya Sahasranama Stotram

दत्तात्रेयो महोयोगी योगेशश्चामरप्रभुम् ।
मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः ॥ १॥
अवधूतो महानाथः शङ्करोऽमरवल्लभः ।
महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ २॥
सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः ।
सत्त्ववित्सत्त्वसाक्षी च सत्त्वसाध्योऽमराधिपः ॥ ३॥
भूतकृद्भूतभृच्चैव भूतात्मा भूतसम्भवः ।
भूतभावो भवो भूतवित्तथा भूतकारणः ॥ ४॥
भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः ।
भूतसङ्गविहीनात्मा भूतात्मा भूतशङ्करः ॥ ५॥
भूतनाथो महानाथश्चादिनाथो महेश्वरः ।
सर्वभूतनिवासात्मा भूतसन्तापनाशनः ॥ ६॥
सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः ।
सर्वसाक्षी बृहद्भानुः सर्ववित्सर्वमङ्गलः ॥ ७॥
शान्तः सत्यः समः पूर्णो ह्येकाकी कमलापतिः ।
रामो रामप्रियश्चैव विरामो रामकारणम् ॥ ८॥
शुद्धात्मा पावनोऽनन्तः प्रतीतः परमार्थभृत् ।
हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि ॥ ९॥
सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ॥
सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा ॥ १०॥
सुलक्षणः सुमेधावी विद्यावान्विगतान्तरः ।
विज्वरश्च महाबाहुर्बहुलानन्दवर्धनः ॥ ११॥
अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् ।
परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् ॥ १२॥
दयावान्भगवान्भावी भावात्मा भावकारणः ।
भवसन्तापनाशश्च पुष्पवान्पण्डितो बुधः ॥ १३॥
प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः ।
प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ १४॥
प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः ।
मृत्युञ्जयो विविक्तात्मा शङ्करात्मा परो वपुः ॥ १५॥
परमस्तनुविज्ञेयः परमात्मनि संस्थितः ।
प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ १६॥
चिदम्बरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः ।
चित्तचैतन्यचित्तात्मा देवानां परमा गतिः ॥ १७॥
अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः ।
चित्तात्मा चेतनारूपो लसत्पङ्कजलोचनः ॥ १८॥
परब्रह्म परं ज्योतिः परं धाम परन्तपः ।
परं सूत्रं परं तन्त्रं पवित्रं परमोहवान् ॥ १९॥
क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरञ्जनः ।
क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान्बहुनायकः ॥ २०॥
योगेन्दो योगपूज्यश्च योग आत्मविदां शुचिः ।
योगमायाधरः स्थाणुरचलः कमलापतिः ॥ २१॥
योगेशो योगनिर्माता योगज्ञानप्रकाशनः ।
योगपालो लोकपालः संसारतमनाशनः ॥ २२॥
गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः ।
गहनो गगनाकारो गम्भीरो गणनायकः ॥ २३॥
गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः ।
गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः ॥ २४॥
योगयुक्तो भोगयुक्तः शङ्कामुक्तसमाधिमान् ।
सहजः सकलेशानः कार्तवीर्यवरप्रदः ॥ २५॥
सरजा विरजाः पुंसो पावनः पापनाशनः । पुमान्
परावरविनिर्मुक्तः परञ्ज्योतिः पुरातनः ॥ २६॥
नानाज्योतिरनेकात्मा स्वयञ्ज्योतिः सदाशिवः ।
दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ २७॥
नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः ।
प्रमादविगतश्चैव परेशः परविक्रमः ॥ २८॥
योगी योगो योगपश्च योगाभ्यासप्रकाशनः ।
योक्ता मोक्ता विधाता च त्राता पाता निरायुध्यः ॥ २९॥
नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः ।
सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वम्भृतां गतिः ॥ ३०॥
श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः ।
श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः ॥ ३१॥
त्यागी त्यागार्थसम्पन्नस्त्यागात्मा त्यागविग्रहः ।
त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः ॥ ३२॥
भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः ।
भोगी भोगार्थसम्पन्नो भोगज्ञानप्रकाशनः ॥ ३३॥
केवलः केशवः कृष्णः कंवासाः कमलालयः ।
कमलासनपूज्यश्च हरिरज्ञानखण्डनः ॥ ३४॥
महात्मा महदादिश्च महेशोत्तमवन्दितः ।
मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ ३५॥
भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया ।
दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः ॥ ३६॥
कामहा क्रोधहा चैव दम्भदर्पमदापहः ।
अज्ञानपतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ ३७॥
रूपकुद्रूपभृद्रूपी रूपात्मा रूपकारणः ।
रूपज्ञो रूपसाक्षी च नामरूपो गुणान्तकः ॥ ३८॥
अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः ।
प्रमाणरहितोऽचिन्त्यश्चेतनाविगतोऽजरः ॥ ३९॥
अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः ।
विशिष्टो वित्तशास्त्री च दृष्टो दृष्टान्तवर्जितः ॥ ४०॥
गुणेशो गुणकायश्च गुणात्मा गणभावनः ।
अनन्तगुणसम्पन्नो गुणगर्भो गुणाधिपः ॥ ४१॥
गणेशो गुणनाथश्च गुणात्मा गणभावनः ।
गणबन्धुर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ ४२॥
अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः ।
यज्ञश्च यज्ञफल्दो यज्ञ इज्योऽमरोत्तमः ॥ ४३॥
हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः ।
मायागर्भो लोकगर्भः स्वयम्भूर्भुवनान्तकः ॥ ४४॥
निष्पापो निबिडो नन्दी बोधी बोधसमाश्रयः ।
बोधात्मा बोधनात्मा च भेदवैतण्डखण्डनः ॥ ४५॥
स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः ।
नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् ॥ ४६॥
गुह्येशो गुणगम्भीरो गुणदोषनिवारणः ।
गुणसङ्गविहीनश्च योगारेर्दर्पनाशनः ॥ ४७॥
आनन्दः परमानन्दः स्वानन्दसुखवर्धनः ।
सत्यानन्दश्चिदानन्दः सर्वानन्दपरायणः ॥ ४८॥
सद्रूपः सहजः सत्यः स्वानन्दः सुमनोहरः ।
सर्वः सर्वान्तरश्चैव पूर्वात्पूर्वतरस्तथा ॥ ४९॥
खमयः खपरः खादिः खम्ब्रह्म खतनुः खगः ।
खवासाः खविहीनश्च खनिधिः खपराश्रयः ॥ ५०॥
अनन्तश्चादिरूपश्च सूर्यमण्डलमध्यगः ।
अमोघः परमामोघः परोक्षः वरदः कविः ॥ ५१॥
विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः ।
धनञ्जयो महातेजास्तेजिष्ठस्तैजसः सुखी ॥ ५२॥
ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः ।
ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ ५३॥
जितेन्द्रियो जितक्रोधो जितात्मा जितमानसः ।
जितसङ्गो जितप्राणो जितसंसारवासनः ॥ ५४॥
निर्वासनो निरालम्बो निर्योगक्षेमवर्जितः ।
निरीहो निरहङ्कारो निराशीर्निरुपाधिकः ॥ ५५॥
नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः ।
विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ ५६॥
प्रत्याहारी निराहारी सर्वाहारपरायणः ।
नित्यशुद्धो निराकाङ्क्षी पारायणपरायणः ॥ ५७॥
अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा ।
एकस्तथाऽनेकरूपो विश्वरूपः सनातनः ॥ ५८॥
नैकरूपो विरूपात्मा नैकबोधमयोऽपि च ।
नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ ५९॥
एकश्चैकान्तिकश्चैव नानाभावविवर्जितः ।
एकाक्षरस्तथा बीजः पूर्णबिम्बः सनातनः ॥ ६०॥
मन्त्रवीर्यो मन्त्रबीजः शास्त्रवीर्यो जगत्पतिः ।
नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः ॥ ६१॥
प्राणेशः प्राणदः प्राणः प्राणायामपरायणः ।
प्राणपञ्चकनिर्मुक्तः कोशपञ्चकवर्जितः ॥ ६२॥
निश्चलो निष्कलोऽसङ्गो निष्प्रपञ्चो निरामयः ।
निराधारो निराकारो निर्विकारो निरञ्जनः ॥ ६३॥
निष्प्रतीतो निराभासो निरासक्तो निराकुलः ।
निष्ठासर्वगतश्चैव निरारम्भो निराश्रयः ॥ ६४॥
निरन्तरः सत्त्वगोप्ता शान्तो दान्तो महामुनिः ।
निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः ॥ ६५॥
ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनन्दपूरितः ।
ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ ६६॥
दयावान्भवरोगारिश्चिकित्साचरमागतिः ।
चन्द्रमण्डलमध्यस्थश्चन्द्रकोटिसुशीतलः ॥ ६७॥
यन्तकृत्परमो यन्त्री यन्त्रारूढपराजितः ।
यन्त्रविद्यन्त्रवासश्च यन्त्राधारो धराधरः ॥ ६८॥
तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः ।
तत्त्वसङ्ख्यानयोगज्ञः साङ्ख्यशास्त्रप्रवर्तकः ॥ ६९॥
अनन्तविक्रमो देवो माधवश्च धनेश्वरः ।
साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः ॥ ७०॥
निःसङ्कल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः ।
आरोग्यसुखदश्चैव प्रवरो वासवस्तथा ॥ ७१॥
परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः ।
दुराधर्षो दुरावासो दूरत्वपरिनाशनः ॥ ७२॥
वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः ।
विविक्तसेवी च संसारश्रमनाशनस्तथा ॥ ७३॥
ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् ।
विशालाक्षो विश्वनाथो हाटकाङ्गदभूषणः ॥ ७४॥
अबाध्यो जगदाराध्यो जगदार्जवपालनः ।
जनवान्धनवान्धर्मी धर्मगो धर्मवर्धनः ॥ ७५॥
अमृतः शाश्वतः साद्यः सिद्धिदः सुमनोहरः ।
खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः ॥ ७६॥
उपद्रष्टा तथा श्रेष्ठः शुचिर्भूतो ह्यनामयः ।
वेदसिद्धान्तवेद्यश्च मानसाह्लादवर्धनः ॥ ७७॥
देहदन्यो गुणादन्यो लोकादन्यो विवेकवित् ।
दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ ७८॥
कर्मी कर्मविनिर्मुक्तः संन्यासी साधकेश्वरः ।
सर्वभावविहीनश्च तृष्णासङ्गनिवारकः ॥ ७९॥
त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः ।
त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः ॥ ८०॥
दक्षो दक्षादिवन्द्यश्च ज्ञानवादप्रवर्तकः  ।
शब्दब्रह्ममयात्मा च शब्दब्रह्मप्रकाशवान् ॥ ८१॥
ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः  ।
विद्वत्तमो महावन्द्यो विशालोत्तमवाङ्मुनिः ॥ ८२॥
ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्बाह्मणप्रियः  ।
ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः ॥ ८३॥
अत्रिवंशप्रभूतात्मा तापसोत्तमवन्दितः  ।
आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः ॥ ८४॥
प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः  ।
नारायणो महागर्भो भार्गवप्रियकृत्तमः ॥ ८५॥
सङ्कल्पदुःखदलनः संसारतमनाशनः  ।
त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ८६॥
भेदत्रयहरश्चैव तापत्रयनिवारकः  ।
दोषत्रयविभेदी च संशयार्णवखण्डनः ॥ ८७॥
असंशयस्त्वसम्मूढो ह्यवादी राजनन्दितः  ।
राजयोगी महायोगी स्वभावगलितस्तथा ॥ ८८॥
पुण्यश्लोकः पवित्राङ्घ्रिर्ध्यानयोगपरायणः  ।
ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः ॥ ८९॥
अविज्ञेयो ह्यन्तरात्मा मुख्यबिम्बसनातनः  ।
जीवसञ्जीवनो जीवश्चिद्विलासश्चिदाश्रयः ॥ ९०॥
महेन्द्रोऽमरमान्यश्च योगेन्द्रो योगवित्तमः  ।
योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः ॥ ९१॥
नैकबाहुरनन्तात्मा नैकनामपराक्रमः  ।
नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः ॥ ९२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्  ।
सहस्ररूपदृक्चैव सहस्रारमयोद्धवः ॥ ९३॥
त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव च  ।
त्र्यम्बकश्च महावीर्यो योगवीर्यविशारदः ॥ ९४॥
विजयी विनयी जेता वीतरागी विराजितः  ।
रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः ॥ ९५॥
अन्तर्ज्योतिरनन्तात्मा प्रत्यगात्मा निरन्तरः ।
अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः ॥ ९६॥
अन्तः शून्यो बहिः शून्यः शून्यात्मा शून्यभावनः  ।
अन्तःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः ॥ ९७॥
अन्तस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान्  ।
अन्तर्यागी बहिर्यागी सर्वयोगपरायणः ॥ ९८॥
अन्तर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः  ।
अन्तर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा ॥ ९९॥
बाह्यान्तरविमुक्तश्च बाह्यान्तरविवर्जितः  ।
शान्तः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः ॥ १००॥
अकालः कालनेमी च कालकालो जनेश्वरः  ।
कालात्मा कालकर्ता च कालज्ञः कालनाशनः ॥ १०१॥
कैवल्यपददाता च कैवल्यसुखदायकः  ।
कैवल्यकलनाधारो निर्भरो हर्षवर्धनः ॥ १०२॥
हृदयस्थो हृषीकेशो गोविन्दो गर्भवर्जितः  ।
सकलागमपूज्यश्च निगमो निगमाश्रयः ॥ १०३॥
पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः  ।
पराविद्या पराक्षान्तिर्विभक्तिर्युक्तसद्गतिः ॥ १०४॥
स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः  ।
स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी ॥ १०५॥
स्वानुसन्धानशीलात्मा स्वानुसन्धानगोचरः  ।
स्वानुसन्धानशून्यात्मा स्वानुसन्धानाश्रयस्तथा ॥ १०६॥
स्वबोधदर्पणोऽभङ्गः कन्दर्पकुलनाशनः  ।
ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः ॥ १०७॥
तत्त्वबोधः सुधावर्षः पावनः पापपावकः  ।
ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्धनिर्णयः ॥ १०८॥
आत्यन्तिको महाकल्पः सङ्कल्पावर्तनाशनः  ।
आधिव्याधिहरश्चैव संशयार्णवशोषकः ॥ १०९॥
तत्त्वात्मज्ञानसन्देशो महानुभवभावितः  ।
आत्मानुभवसम्पन्नः स्वानुभावसुखाश्रयः ॥ ११०॥
अचिन्त्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः  ।
अनिकेतप्रशान्तात्मा शून्यवासो जगद्वपुः ॥ १११॥
चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः  ।
सर्ववर्णविदारम्भी सर्वारम्भपरायणः ॥ ११२॥
पुराणः प्रवरो दाता सुन्दरः कनकाङ्गदी  ।
अनिसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः ॥ ११३॥
कामजित्कामपालश्च कामी कामप्रदागमः  ।
कामवान्कामपोषश्च सर्वकामनिवर्तकः ॥ ११४॥
सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः  ।
सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः ॥ ११५॥
विश्वकर्मा कृतात्मा च कृतज्ञः सर्वसाक्षिकः  ।
सर्वारम्भपरित्यागी जडोन्मत्तपिशाचवान् ॥ ११६॥
भिक्षुर्भिक्षाकरश्चैव भैक्षाहारी निराश्रमी  ।
अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा ॥ ११७॥
जटिलो वनचारी च दण्डी मुण्डी च गण्डवान्  ।
देहधर्मविहीनात्मा ह्येकाकी सङ्गवर्जितः ॥ ११८॥
आश्रम्यनाश्रमारम्भोऽनाचारी कर्मवर्जितः  ।
असन्देही च सन्देही न किञ्चिन्न च किञ्चनः ॥ ११९॥
नृदेही देहशून्यश्च नाभावी भावनिर्गतः  ।
नाब्रह्मच परब्रह्म स्वयमेव निराकुलः ॥ १२०॥
अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः  ।
द्विभुजः प्राकृतश्चैव जनकश्च पितामहः ॥ १२१॥
अनात्मा न च नानात्मा नीतिर्नीतिमतां वरः  ।
सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव च ॥ १२२॥
न कर्तापि च कर्ता च भोक्ता भोगविवर्जितः  ।
तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा ॥ १२३॥
सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः  ।
सर्वलोकनिवासात्मा सकलोत्तमवन्दितः ॥ १२४॥
देहभृद्देहकृच्चैव देहात्मा देहभावनः  ।
देही देहविभक्तश्च देहभावप्रकाशनः ॥ १२५॥
लयस्थो लयविच्चैव लयाभावश्च बोधवान्  ।
लयातीतो लयस्यान्तो लयभावनिवारणः ॥ १२६॥
विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी  ।
विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तत्जा ॥ १२७॥
अविक्षिप्तोऽप्रमादी च परर्द्धिः परमार्थदृक्  ।
स्वानुभावविहीनश्च स्वानुभावप्रकाशनः ॥ १२८॥
निरिन्द्रियश्च निर्बुद्धिर्निराभासो निराकृतः  ।
निरहङ्कारश्चरूपात्मा निर्वपुः सकलाश्रयः ॥ १२९॥
शोकदुःखहरश्चैव भोगमोक्षफलप्रदः  ।
सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसङ्ग्रहः ॥ १३०॥
आगमापायशून्यश्च स्थानदश्च सताङ्गतिः  ।
अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः ॥ १३१॥
भेदत्रयवरश्चैव देहत्रयविनिर्गतः  ।
सर्वकाममयश्चैव सर्वकामनिवर्तकः ॥ १३२॥
सिद्धेश्वरोऽजरः पञ्चबाणदर्पहुताशनः  ।
चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः ॥ १३३॥
अगाधबुद्धिरक्षुब्धश्चन्द्रसूर्याग्निलोचनः  ।
यमदंष्ट्रोऽतिसंहर्ता परमानन्दसागरः ॥ १३४॥
लीलाविश्वम्भरो भानुर्भैरवो भीमलोचनः  ।
ब्रह्मचर्याम्बरः कालस्त्वचलश्चलनान्तकः ॥ १३५॥
आदिदेवो जगद्योनिर्वासवारिविमर्दनः  ।
विकर्मकर्मकर्मज्ञोऽनन्यगमकोऽगमः ॥ १३६॥
अबद्धकर्मशून्यश्च कामरागकुलक्षयः  ।
योगान्धकारमथनः पद्मजन्मादिवन्दितः ॥ १३७॥
भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः  ।
भेदान्तको महानग्र्यो निगूहो गोचरान्तकः ॥ १३८॥
कालाग्निशमनः शङ्खचक्रपद्मगदाधरः  ।
दीप्तो दीनपतिः शास्ता स्वच्छन्दो मुक्तिदायकः ॥ १३९॥
व्योमधर्माम्बरो भेत्ता भस्मधारी धराधरः  ।
धर्मगुप्तोऽन्वयात्मा च व्यतिरेकार्थनिर्णयः ॥ १४०॥
एकानेकगुणाभासाभासनिर्भासवर्जितः  ।
भावाभावस्वभावात्मा भावाभावविभाववित् ॥ १४१॥
योगिहृदयविश्रामोऽनन्तविद्याविवर्धनः ।
विघ्नान्तकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः ॥ १४२॥
इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः  ।
स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ १४३॥
गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः  ।
पठेत्सदैव तो ह्येतत्स लभेच्चिन्तितं ध्रुवम् ॥ १४४॥
इति श्रीमद्दत्तात्रेयपुराणोक्तं
श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रं सम्पूर्णम् ॥
नामरूपात्मकं चैव अवाङ्मानस गोचरं  ।
सर्वं दत्तात्मकं विश्वं भावाभावोद्भवात्मकम् ॥ १४३॥
इति श्री परमं दिव्यं पवित्रं पापनाशनम् ।
दत्तात्रेयसहस्राख्यं नामस्तोत्रं कृतं मया ॥ १४४॥
अतीतानागतं चैव वर्तमानं तधैव च ।
तद्विदुर्ये पठं त्येतत् गुह्याद्गुह्यतरं परम् ॥ १४५॥
श‍ृत्वेदं परमं पुण्यं मर्त्यो ह्यमृतमश्नुते ।
सहस्रनामकं स्तोत्रं श्रद्धया परया भुवि ॥ १४६॥
इदं स्तोत्रमुपाश्रित्य मर्त्यश्चात्मनि संस्थितः ।
परंस्थानमवाप्नोति शङ्करं प्रकृते परम् ॥ १४७॥
एकैकमक्षरं पुंसां मणिमाद्यष्टसिद्धिदम् ।
सर्वपापहरं चैव ब्रह्मनिर्वाणदायकम् ॥ १४८॥
शिवं पूर्णं परं चैव नित्यं शुद्धं निरञ्जनम् ।
निधानं परमं दिव्यं दत्तात्रेयं जगद्गुरुम् ॥ १४९॥
निरीहं प्रतिमाशून्यं सत्वगं गगनोपमम् ।
विशुद्धमक्षरं पूर्णं दत्तात्रेयं जगद्गुरुम् ॥ १५०॥
अवाच्यं प्रणवातीतं निष्प्रपञ्चं निराकलम् ।
सत्यं सिद्धं मनोऽगम्यं दत्तात्रेयं जगद्गुरुम् ॥ १५१॥
कारणं कारणानां च नामरूपविवर्जितम् ।
परमं परमानन्दं दत्तात्रेयं जगद्गुरम् ॥ १५२॥
शाश्वतं सहजं शान्तं पवित्रं च गुणातिगम् ।
सत्यं सनातनं सूक्ष्मं दत्तात्रेयं जगद्गुरम् ॥ १५३॥
निराकारं निराभासं निष्कलङ्कं निरामयम् ।
निरालम्बं निजानन्दं दत्तात्रेयं जगद्गुरम् ॥ १५४॥
देशकालार्थनिर्मुक्तं देशकालसमाश्रयम् ।
परापरविनिर्मुक्तं दत्तात्रेयं जगद्गुरम् ॥ १५५॥
निगीश्वरं निर्विकारं निर्मलज्ञानरूपिणम् ।
गुणादन्यमहं वन्दे दत्तात्रेयं जगद्गुरम् ॥ १५६॥
य इदं पठते नित्यं पाठयेद्वासमाहित ।
सर्वान्कामानवाप्नोति दत्तात्रेयो प्रसादतः ॥ १५७॥
इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः   ।
स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ १५८॥
गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः   ।
पठेत्सदैव तो ह्येतत्स लभेच्चिन्तितं ध्रुवम् ॥ १५९॥
इति श्रीब्रह्मण्डपुराणे अनुकूलागमे सनत्कुमार ब्रह्मऋषि संवादे श्रीदत्तात्रेय सहस्रनामस्तोत्रं संपूर्णम् ॥)

श्री दत्तात्रेय स्तोत्र देवर्षि नारद की रचना Sri Dattatreya Stotra

देवर्षि नारद ने श्री दत्तात्रेय स्तोत्र की रचना की है. श्रीनारदपुराण में इसका वर्णन है. कहा जाता है कि दत्तात्रेय जी के अनुग्रह से ही नारद जी ने इस स्तोत्र की रचना की थी. इस स्तोत्र को बहुत ही तेजस्वी माना जाता है. कहा जाता है कि इस स्तोत्र का नित्य पाठ करने से शत्रु परास्त होते हैं, जीवन के हर मोड़ पर विजय मिलती है, और चारों तरफ़ प्रसिद्धि होती है. इस स्तोत्र का पाठ करने से भक्तों को ज्ञान की प्राप्ति होती है और उनका चित्त निर्मल हो जाता हैमान्यता है कि भगवान दत्तात्रेय भगवान ब्रह्मा, विष्णु और शिव का संयुक्त रूप हैं. यह रूप भक्तों को प्रचुरता, समृद्धि और खुशी का आशीर्वाद देने में बहुत शक्तिशाली है

श्री दत्तात्रेय स्तोत्र देवर्षि नारद की रचना

जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ।।
  • अर्थ
पीले वर्ण की आकृति वाले, जटा धारण किए हुए, हाथ में शूल लिए हुए, कृपा के सागर तथा सभी रोगों का शमन करने वाले देवस्वरूप दत्तात्रेय जी का मैं आश्रय लेता हूँ.
  • विनियोग –
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारद ऋषि:, अनुष्टुप् छन्द:, श्रीदत्त: परमात्मा देवता, श्रीदत्तप्रीत्यर्थं जपे विनियोग: ।
  • अर्थ
इस दत्तात्रेयस्तोत्ररूपी मन्त्र के ऋषि भगवान नारद हैं, छन्द अनुष्टुप है और परमेश्वर-स्वरूप दत्तात्रेय जी इसके देवता हैं. श्रीदत्तात्रेय जी की प्रसन्नता के लिए पाठ में विनियोग किया जाता है.

जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोsस्तु ते ।।1।।

  • अर्थ
संसार के बन्धन से सर्वथा विमुक्त तथा संसार की उत्पत्ति, पालन और संहार के मूल कारण-स्वरूप आप दत्तात्रेय जी को मेरा नमस्कार है.

जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बर दयामूर्ते दत्तात्रेय नमोsस्तु ते ।।2।।

  • अर्थ
जरा और जन्म-मृत्यु के चक्र से मुक्त करने वाले, देह को बाहर-भीतर से शुद्ध करने वाले स्वयं दिगम्बर-स्वरुप, दया के मूर्तिमान विग्रह आप दतात्रेय जी को मेरा नमस्कार है.

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोsस्तु ते ।।3।।

  • अर्थ
कर्पूर की कान्ति के समान गौर शरीर वाले, ब्रह्माजी की मूर्ति को धारण करने वाले और वेद्-शास्त्र का पूर्ण ज्ञान रखने वाले आप दतात्रेय जी को मेरा नमस्कार है.

हृस्वदीर्घकृशस्थूलनामगोत्रविवर्जित ।
पंचभूतैकदीप्ताय दत्तात्रेय नमोsस्तु ते ।।4।।

  • अर्थ
कभी ठिगने, कभी लम्बे, कभी स्थूल और कभी दुबले-पतले शरीर धारण करने वाले, नाम-गोत्र से विवर्जित, केवल पंचमहाभूतों से युक्त दीप्तिमान शरीर धारण करने वाले, आप दतात्रेय जी को मेरा नमस्कार है.

यज्ञभोक्त्रै च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोस्तु ते ।।5।।

  • अर्थ

    श्री दत्तात्रेय स्तोत्र देवर्षि नारद की रचना Sri Dattatreya Stotra composed by Devarshi Narada

यज्ञ के भोक्ता, यज्ञ-विग्रह और यज्ञ-स्वरूप को धारण करने वाले, यज्ञ से प्रसन्न होने वाले, सिद्धरूप आप दत्तात्रेय जी को मेरा प्रणाम है !

आदौ ब्रह्मा मध्ये विष्णुरन्ते देव: सदाशिव: ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोsस्तु ते ।।6।।

  • अर्थ
सर्वप्रथम ब्रह्मारूप, मध्य में विष्णुरूप और अन्त में सदाशिव स्वरूप – इन तीनों स्वरूपों को धारण करने वाले आप दतात्रेय जी को मेरा प्रणाम है !

भोगालयाय भोगाय योग्ययोग्याय धारिणे ।
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोsस्तु ते ।।7।।

  • अर्थ
समस्त सुख्-भोगों के निधानस्वरूप, सभी योग्य व्यक्तियों में भी उत्कृष्ट योग्यतम रूप धारण करने वाले, जितेन्द्रिय तथा जितेन्द्रियों की ही जानकारी में आने वाले आप दत्तात्रेय जी को मेरा नमस्कार है !

दिगम्बराय दिव्याय दिव्यरूपधराय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोsस्तु ते ।।8।।

  • अर्थ
सदा दिगम्बर वेषधारी, दिव्यमूर्ति और दिव्यस्वरूप धारण करने वाले, जिन्हें सदा ही परब्रह्म परमात्मा का साक्षात्कार होता रहता है, ऎसे आप दत्तात्रेय जी को मेरा नमस्कार है !

जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
जयमान: सतां देव दत्तात्रेय नमोsस्तु ते ।।9।।

  • अर्थ
जम्बूद्वीप के विशाल क्षेत्र के अन्तर्गत मातापुर नामक स्थान में निवास करने वाले, संतों के बीच में सदा प्रतिष्ठा प्राप्त करने वाले आप दत्तात्रेय जी को मेरा नमस्कार है !

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोsस्तु ते ।।10।।

  • अर्थ
हाथ में सुवर्णमय भिक्षापात्र लिए हुए, ग्राम-ग्राम और घर-घर में भिक्षाटन करने वाले तथा अनेक प्रकार के दिव्य स्वादयुक्त भिक्षा ग्रहण करने वाले आप दत्तात्रेय जी को मेरा प्रणाम है.

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोsस्तु ते ।।11।।

श्री दत्तात्रेय स्तोत्र देवर्षि नारद की रचना Sri Dattatreya Stotra composed by Devarshi Narada

  • अर्थ
ब्रह्मज्ञानयुक्त ज्ञानमुद्रा को धारण करने वाले और आकाश तथा पृथिवी को ही वस्त्ररूप में धारण करने वाले, अत्यन्त ठोस ज्ञानयुक्त बोधमय विग्रह वाले आप दतात्रेय जी को मेरा नमस्कार है.

अवधूत सदानन्द परब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोsस्तु ते ।।12।।

  • अर्थ
अवधूत वेष में सदा ब्रह्मानन्द में निमग्न रहने वाले तथा परब्रह्म परमात्मा के ही स्वरूप, शरीर होने पर भी शरीर से ऊपर उठकर जीवन्मुक्तावस्था में स्थित रहने वाले आप दतात्रेय जी को मेरा नमस्कार है !

सत्यरूप सदाचार सत्यधर्मपरायण ।
सत्याश्रय परोक्षाय दत्तात्रेय नमोsस्तु ते ।।13।।

  • अर्थ
साक्षात सत्य के रूप, सदाचार के मूर्तिमान स्वरूप और सत्य भाषण एवं धर्माचरण में लीन रहने वाले, सत्य केआश्रय और परोक्ष रूप में परमात्मा तथा दिखायी न पड़ने पर भी सर्वत्र व्याप्त आप दतात्रेय जी को मेरा नमस्कार है !

शूलहस्त गदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोsस्तु ते ।।14।।

  • अर्थ
हाथ में शूल तथा गदा धारण किए हुए, वनमाला से सुशोभित कंधों वाले, यज्ञोपवीत धारण किए हुए ब्राह्मणस्वरूप आप दत्तात्रेय जी को मेरा नमस्कार है !

क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोsस्तु ते ।।15।।

  • अर्थ
क्षर (नश्वर विश्व) तथा अक्षर (अविनाशी परमात्मा) रूप में सर्वत्र व्याप्त, पर से भी परे, स्तोत्र-पाठ करने पर शीघ्र मोक्ष देने वाले आप दतात्रेय जी को मेरा नमस्कार है !

दत्तविद्याय लक्ष्मीश दत्तस्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोsस्तु ते ।।16।।

  • अर्थ
सभी विद्याओं को प्रदान करने वाले, लक्ष्मी के स्वामी, प्रसन्न होकर आत्मस्वरूप को ही प्रदान करने वाले, त्रि गुणा त्मक एवं गुणों से अतीत निर्गुण अवस्था में रहने वाले आप दतात्रेय जी को मेरा नमस्कार है.

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम्
सर्वपापशमं याति दत्तात्रेय नमोsस्तु ते ।।17।।

  • अर्थ
यह स्तोत्र बाह्य तथा आभ्यन्तर (काम, क्रोध, मोहादि) सभी शत्रुओं को नष्ट करने वाला, शास्त्रज्ञान तथा अनुभवजन्य अध्यात्मज्ञान – दोनों को प्रदान करने वाला है, इसका पाठ करने से सभी पाप तत्काल नष्ट हो जाते हैं. ऎसे इस स्तोत्र के आराध्य आप दतात्रेय जी को मेरा नमस्कार है !

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ।।18।।
  • अर्थ
यह स्तोत्र बहुत दिव्य है. इसके पढ़ने से दत्तात्रेय जी का साक्षात दर्शन होता है. दत्तात्रेय जी के अनुग्रह से ही शक्ति-संपन्न होकर नारदजी ने इसकी रचना की है (यह इसकी विशेषता है !

इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सम्पूर्णम् ।।

इस प्रकार श्रीनारदपुराण में निर्दिष्ट देवर्षि नारदजी द्वारा रचित दत्तात्रेय स्तोत्र समाप्त हुआ.

Comments