प्रह्लाद कृत गणेश स्तोत्र |
Prahlaad Krt Ganesh Stotr |
प्रह्लाद कृत गणेश स्तोत्र | Prahlaad Krt Ganesh Stotr
अधुना शृणु देवस्य साधनं योगदं परम् ।
साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥१॥
स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः ।
सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥२॥
विहारेण विहीनश्चाऽयोगो निर्मायिकः स्मृतः ।
संयोगाभेद-हीनत्वाद् भवहा गणनायकः ॥३॥
संयोगा-ऽयोगयोर्योगः पूर्णयोगस्त्वयोगिनः ।
प्रह्लादगणनाथस्तु पूर्णो ब्रह्ममयः परः ॥४॥
योगेन तं गणाधीशं प्राप्नुवन्तश्च दैत्यपः ।
बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥५॥
तस्य माया द्विधा प्रोक्ता प्राप्नुवन्तीह योगिनः ।
तं विद्धि पूर्णभावेन संयगाऽयोगवर्जितः ॥६॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥७॥
क्षिप्तं मूढं च चित्तं च यत्कर्मणि च विकर्मणि ।
संस्थितं तेन विश्वं वै चलति स्व-स्वभावतः ।।८।।
अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद ! ।
तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥९॥
एकाग्रमष्टधा चित्तं तदेवैकात्मधारकम् ।
संप्रज्ञात-समाधिस्थं जानीहि साधुसत्तम ! ॥१०॥
निरोधसंज्ञितं चित्तं निवृत्तिरूपधारकम् ।
असंप्रज्ञातयोगस्थ जानीहि योगसेवया ॥११॥
सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता ।
माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥१२॥
पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता ।
सिद्ध्यर्थं सर्वलोकश्च भ्रमयुक्ता भवन्त्यतः ॥१३॥
धर्मा-ऽर्थ-काम-मोक्षाणां सिद्धिभिन्ना प्रकीर्तिता ।
ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पञ्चधा सदा ॥१४॥
मोहदा सिद्धिरत्यन्तमोहधारकतां गता ।
बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥१५॥
बुद्धया यद् बुद्धयते तत्र पश्चान् मोहः प्रवर्तते ।
अतो गणेशभक्त्या स मायया वर्जितो भवेत् ॥१६॥
पञ्चधा चित्तवृत्तिञ्च पञ्चधा सिद्धिमादरात् ।
त्यक्त्वा गणेशयोगेन गणेशं भज भावतः ॥१७॥
ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् ।
गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तम ॥१८॥
तेन सम्पूजितो योगी प्रह्लादेन महात्मना ।
ययौ गृत्समदो दक्षः स्वर्गलोकं विहायसा ॥१९॥
प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः ।
योगं योगीन्द्रमुख्यं स शान्तिसद्धारकोऽभवत् ॥२०॥
विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः ।
गणेशभजने योगी स सक्तः सर्वदाऽभवत् ॥२१॥
सगुणं विष्णुरूपं च निर्गुणं ब्रह्म वाचकम् ।
गणेशेन धृतं सर्वं कलांशेन न संशयः ॥२२॥
एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः ।
हृदि चिन्तामणि ज्ञात्वाऽभजदन्यभावनः ॥२३॥
स्वल्पकालेह दैत्येन्द्रः शान्ति प्राप्तो शान्तियोगपरायणः ।
गणेशेनैकभावोऽभवत्परः ॥२४॥
शापश्चैव गणेशेन प्रह्लादस्य निराकृतः ।
न पुनर्दुष्टसङ्गेन भ्रान्तोऽभून्मयि मानद ! ॥२५॥
एवं मदं परित्यज्य ह्येकदन्तसमाश्रयात् ।
असुरोऽपि महायोगी प्रह्लादः स बभूव ह ॥२६॥
एतत् प्रह्लादमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेद् वा तस्य सततं भवेदीप्सितदायकम् ॥२७॥
इति मुद्गलपुरोणोक्त प्रह्लादकृतं गणेशस्तोत्रं सम्पूर्णम् ॥११॥
click to read 👇👇
टिप्पणियाँ