लिंग पुराण : मंगल, बुध, बृहस्पति, शनि आदि ग्रहों एवं सूर्यके माहात्म्यका वर्णन | Linga Purana: Description of the importance of planets like Mars, Mercury, Jupiter, Saturn etc. and the Sun
लिंग पुराण [ पूर्वभाग ] साठवाँ अध्याय
मंगल, बुध, बृहस्पति, शनि आदि ग्रहों एवं सूर्यके माहात्म्यका वर्णन
सूत उवाच
शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः ।
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥ १
शेषाणां प्रकृतिं सम्यग् वक्ष्यमाणां निबोधत ।
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः ॥ २
नारायणं बुधं प्राहुर्देवं ज्ञानविदो जनाः ।
सर्वलोकप्रभुः साक्षाद्यमो लोकप्रभुः स्वयम् ॥ ३
महाग्रहो द्विजश्रेष्ठा मन्दगामी शनैश्चरः ।
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ ।॥ ४
प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती।
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥ ५ ।
भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ।
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राग्निदिवौकसाम् ॥ ६
द्युतिद्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ।
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥ ७
सूर्य एव त्रिलोकेशो मूलं परमदैवतम्।
ततः सञ्जायते सर्वं तत्रैव प्रविलीयते ॥ ८
भावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा।
अविज्ञेयो ग्रहो विप्रा दीप्तिमान् सुप्रभो रविः ॥ ९
अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः।
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥ १०
मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च।
तदादित्यादृते होषा कालसंख्या न विद्यते ॥ ११
कालादृते न नियमो न दीक्षा नाह्निकक्रमः ।
ऋतूनां च विभागश्च पुष्पं मूलं फलं कुतः ॥ १२
कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोऽपि च।
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ॥१३
जगत्प्रतापनमृते भास्करं रुद्ररूपिणम्।
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ।। १४
तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ।
स एष तेजसां राशिः समस्तः सार्वलौकिकः ॥ १५
उत्तमं मार्गमास्थाय रात्र्यहोभिरिदं जगत्।
पार्श्वतोर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ १६
यथा प्रभाकरो दीपो गृहमध्येऽवलम्बितः ।
पार्श्वतोर्ध्वमधश्चैव तमो नाशयते समम् ॥ १७
तद्वत्सहस्त्रकिरणो ग्रहराजो जगत्प्रभुः।
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः ॥ १८
रखे रश्मिसहस्त्रं यत्प्राङ्मया समुदाहृतम्।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ १९
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च।
विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः ॥ २०
सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः ।
सुषुम्नः सूर्यरश्मिस्तु दक्षिणां राशिमैधयत् ॥ २९
व्यगूर्ध्वाधः प्रचारोऽस्य सुषुम्नः परिकीर्तितः ।
हरिकेशः पुरस्ताद्यो ऋक्षयोनिः प्रकीर्त्यते ॥ २२
दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम्।
विश्वव्यचास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः ॥ २३
सन्नद्धश्च तु यो रश्मिः स योनिलर्लोहितस्य तु।
षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः ॥ २४
शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट्।
एवं सूर्यप्रभावेन नक्षत्रग्रहतारकाः ।। २५
दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत् ।
न श्रीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता ।। २६
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यप्रभावर्णनं नाम षष्टितमोऽध्यायः ॥ ६० ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत पूर्वभागमें 'सूर्यप्रभाववर्णन' नामक साठवाँ अध्याय पूर्ण हुआ ॥ ६० ॥
टिप्पणियाँ