लिंग पुराण : सोम ( चन्द्रमा )-की स्थिति एवं गतिका निरूपण, चन्द्रकलाओंके हास तथा वृद्धिका वर्णन | Linga Purana: Description of the position and movement of Soma (Moon), description of waxing and waning of moon phases
लिंग पुराण [ पूर्वभाग ] छप्पनवाँ अध्याय
सोम ( चन्द्रमा )-की स्थिति एवं गति का निरूपण, चन्द्रकलाओं के हास तथा वृद्धि का वर्णन
सूत उवाच
वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः।
त्रिचक्रोभयतोश्वश्च विज्ञेयस्तस्थ वे रथ:॥ ९
शतारैश्च त्रिभिश्चक्रैर्युक्त: शुक्लैहयोत्तमै: ।
दशभिस्त्वकशर्दिव्यैरसड्रैस्तैमनोजबै: ॥ २
रथेनानेन देवैश्च पितृभिश्चैव गच्छति।
सोमो हाम्बुमयैगोंभि: शुक्लैः शुक्लगभस्तिमान्॥ ३
क्रमते शुक्लपक्षादौ भास्करात्परमास्थित:।
आपूर्यते परस्यान्तः सततं दिवसक्रमात्॥ ४
देवैः पीत॑ क्षये सोममाप्याययति नित्यशः।
पीत॑ पञ्चदशाहं तु रश्मिनेकेन भास्कर:॥ ५
आपूरयन् सुषुम्नेन भागं भागमनुक्रमात्।
इत्येषा सूर्यवीयेण चन्द्रस्थाप्यायिता तनु:॥ ६
स पोर्णमास्यां दृश्येत शुक्ल: सम्पूर्णमण्डल: ।
एवमाप्यायितं सोम॑ शुक्लपक्षे दिनक्रमात्॥ ७
ततो द्वितीयाप्रभति बहुलस्य चतुर्दशीम्।
पिब्न्त्यम्बुमयं देवा मधु सोम्यं सुधामृतम्॥ ८
सम्भूत॑ त्वर्धभासेन हामृतं सूर्यतेजसा।
पानार्थममृतं॑ सोम॑ पौर्णमास्यामुपासते। ९
एकरात्रिं सुरा: सर्वे पितृभिस्त्वृषिभि: सह।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च॥ १०
प्रक्षीयन्ते परस्यान्त: पीयमाना: कला: क्रमात्।
त्रयस्त्रिशच्छताश्चेव त्रयस्त्रिंशत्तथेव च॥ ११
त्रयस्त्रिंशत्सहस्त्राणि देवा: सोमं पिबन्ति वै।
एवं दिनक्रमात्पीते विबुधेस्तु निशाकरे॥ १२
पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमा:।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम्॥ १३
ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपराह्न पितृगणा जघन्यं पर्युपासते ॥ १४
पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या।
निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥ १५
मासतृप्तिमवाप्याग्रयां पीत्वा गच्छन्ति तेऽमृतम् ।
पितृभिः पीयमानस्य पञ्चदश्यां कला तु या ॥ १६
यावत्तु क्षीयते तस्य भागः पञ्चदशस्तु सः ।
अमावास्यां ततस्तस्या अन्तरा पूर्यते पुनः ॥ १७
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ।
एवं सूर्यनिमित्तैषा पक्षवृद्धिर्निशाकरे ॥ १८
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत पूर्वभागमें 'सोमवर्णन' नामक छप्पनवाँ अध्याय पूर्ण हुआ ॥ ५६ ॥
टिप्पणियाँ