मत्स्य पुराण पैंसठवाँ अध्याय
अक्षय तृतीया-व्रत की विधि और उसका माहात्म्य
ईश्वर उवाच
अधान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम् ।
यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ १
भगवान् शंकरने कहा- नारद ! अब मैं सम्पूर्ण कामनाओंको प्रदान करनेवाली एक अन्य तृतीयाका वर्णन कर रहा हूँ, जिसमें दान देना, हवन करना और जप करना सभी अक्षय हो जाता है॥ १
वैशाखशुक्लपक्षे तु तृतीया यैरुपोषिता।
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च ॥ २
सा तथा कृत्तिकोपेता विशेषेण सुपूजिता।
तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते ॥ ३
अक्षया संततिस्तस्य तस्यां सुकृतमक्षयम्।
अक्षतैः पूज्यते विष्णुस्तेन साक्षया स्मृता ।
अक्षतैस्तु नराः स्त्राता विष्णोर्दत्त्वा तथाक्षताम् ॥ ४
विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंस्कृतान् ।
यथान्नभुङ् महाभाग फलमक्षय्यमश्नुते ॥ ५
एकामप्युक्तवत् कृत्वा तृतीयां विधिवन्नरः ।
एतासामपि सर्वांसां तृतीयानां फलं भवेत् ॥ ६
तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम्।
राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति ॥ ७
इति श्रीमालये महापुराणेऽक्षयतृतीयाव्रतं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
इस प्रकार श्रीमत्स्यमहापुराणमें अक्षयतृतीया-व्रत नामक पैंसठवाँ अध्याय सम्पूर्ण हुआ ॥ ६५॥
टिप्पणियाँ