श्रीलिङ्गमहापुराण उत्तरभाग तैंतीसवाँ अध्याय
कल्पपादप दान विधि
सनत्कुमार उवाच
अथान्यत्सम्प्रवक्ष्यामि कल्पपादपमुत्तमम् ।
शतनिष्केण कृत्वैवं सर्वशाखासमन्वितम् ।। १
शाखानां विविधं कृत्वा मुक्तादामाद्यलम्बनम्।
दिव्यैर्मारकतैश्चैव चाङ्कराग्रं प्रविन्यसेत् ॥ २
प्रवालं कारयेद्विद्वान् प्रवालेन द्रुमस्य तु।
फलानि पद्मरागैश्च परितोऽस्य सुशोभयेत् ॥ ३
मूलं च नीलरत्नेन वज्रेण स्कन्धमुत्तमम् ।
वैडूर्येण द्रुमाग्रं च पुष्परागेण मस्तकम् ॥ ४
गोमेदकेन वै कन्दं सूर्यकान्तेन सुव्रत।
चन्द्रकान्तेन वा वेदिं द्रुमस्य स्फटिकेन वा ॥५
वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ।
शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा ।। ६
तन्मूले स्थापयेल्लिङ्ग लोकपालैः समावृतम् ।
पूर्वोक्तवेदिमध्ये तु मण्डले स्थाप्य पादपम् ॥ ७
पूजयेद्देवमीशानं लोकपालांश्च यत्नतः ।
पूर्ववज्जपहोमाद्यं तुलाभारवदाचरेत् ॥ ८
निवेदयेद्रुमं शम्भोयोंगिनां वाथ वा नृप।
भस्माङ्गिभ्योऽथ वा राजा सार्वभौमो भविष्यति ॥ ९ ।
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे कल्पपादपदानविधिर्नाम प्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तर भागमें 'कल्पपादपदानविधि' नामक तैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३३ ॥
टिप्पणियाँ