लिंग पुराण : जीवितावस्था में किये जानेवाले जीवच्छ्राद्ध का विधान | Linga Purana: The ritual of Jivacchhradha to be performed while alive
श्रीलिङ्गमहापुराण उत्तरभाग पैंतालीसवाँ अध्याय
जीवितावस्था में किये जाने वाले जीवच्छ्राद्ध का विधान
ऋषय ऊचुः
एवं षोडश दानानि कथितानि शुभानि च।
जीवच्छ्राद्धक्रमोऽस्माकं वक्तुमर्हसि साम्प्रतम् ॥ १
सूत उवाच
पर्वते वा नदीतीरे वने वायतनेऽपि वा।
जीवच्छ्राद्धं प्रकर्तव्यं मृतकाले प्रयत्नतः ॥५
जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते।
कर्म कुर्वन्नकुर्वन् वा ज्ञानी वाज्ञानवानपि ॥ ६
श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा।
वैश्यो वा नात्र सन्देहो योगमार्गगतो यथा ॥ ७
परीक्ष्य भूमिं विधिवद्गन्धवर्णरसादिभिः दभिः।।
शल्यमुद्धृत्य यत्नेन स्थण्डिलं सैकतं भुवि ॥ ८
मध्यतो हस्तमात्रेण कुण्डं चैवायतं शुभम्।
स्थण्डिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः ॥ ९
उपलिप्य विधानेन चालिप्याग्निं विधाय च।
अन्वाधाय यथाशास्त्रं परिगृह्य च सर्वतः ॥ १०
परिस्तीर्य स्वशाखोक्तं पारम्पर्यक्रमागतम्।
समाप्याग्निमुखं सर्वं मन्त्रैरेतैर्यथाक्रमम् ॥ ११
सम्पूज्य स्थण्डिले वह्नौ होमयेत्समिदादिभिः ।
आदौ कृत्वा समिद्धोमं चरुणा च पृथक्पृथक् ॥ १२
घृतेन च पृथक्पात्रे शोधितेन पृथक्पृथक्।
जुहुयादात्मनोद्धृत्य तत्त्वभूतानि सर्वतः ॥ १३
ॐ भूः ब्रह्मणे नमः ॥ १४॥ ॐ भूः ब्रह्मणे स्वाहा ॥ १५ ॥
ॐ भुवः विष्णवे नमः ॥ १६ ॥ ॐ भुवः विष्णवे स्वाहा ॥ १७॥
ॐ स्वः रुद्राय नमः ॥ १८ ॥ ॐ स्वः रुद्राय स्वाहा ॥ १९ ॥
ॐ महः ईश्वराय नमः ॥ २० ॥ ॐ महः ईश्वराय स्वाहा ॥ २१॥
ॐ जनः प्रकृतये नमः ॥ २२॥ ॐ जनः प्रकृत्यै स्वाहा ।॥ २३॥
ॐ तपः मुद्गलाय नमः ॥ २४॥ ॐ तपः मुद्गलाय स्वाहा ॥ २५ ॥
ॐ ऋतं पुरुषाय नमः ॥ २६ ॥ ॐ ऋतं पुरुषाय स्वाहा ॥ २७॥
ॐ सत्यं शिवाय नमः ॥ २८ ॥ ॐ सत्यं शिवाय स्वाहा ॥ २९ ॥
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः ॥ ३० ॥
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय भूः स्वाहा ॥ ३१ ॥
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पल्यै भूर्नमः ॥ ३२॥
ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वपत्यै भूः स्वाहा ॥ ३३॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवो नमः ।॥ ३४ ॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा ॥ ३५॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पल्यै भुवो नमः ॥ ३६ ॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य पल्यै भुवः स्वाहा ॥ ३७॥
ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वरों नमः ॥ ३८ ॥
ॐ रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा ॥ ३९ ॥
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य पल्यै स्वरों नमः ॥ ४० ॥
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पल्यै स्वः स्वाहा ॥ ४१ ॥
उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्राय देवाय महर्नमः ॥ ४२ ॥
उग्र वार्यु मे गोपाय त्वचि स्पर्शमुग्राय देवाय महः स्वाहा ॥ ४३॥
उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महरों नमः ॥ ४४ ॥
ॐ उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पल्यै महः स्वाहा ॥ ४५ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनो नमः ॥ ४६ ॥
भीम सुधिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा ॥ ४७ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य पल्यै जनो नमः ॥ ४८ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पत्ल्यै जनः स्वाहा ॥ ४९॥
ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपो नमः ॥ ५० ॥
ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपः स्वाहा ॥ ५१ ॥
रजो मे गोपाय द्रव्ये तृष्णामीशस्य पल्यै तपो नमः ॥ ५२॥
ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य पत्त्यै तपः स्वाहा ॥ ५३ ॥
महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः ।॥ ५४ ॥
महादेव सत्यं में गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा ॥ ५५ ॥
महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवस्य पत्यै ऋतं नमः ॥ ५६ ॥
महादेव सत्यं में गोपाय श्रद्धां धर्मे महादेवस्य पल्यै ऋतं स्वाहा ॥ ५७।
पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवाय सत्यं नमः ॥ ५८ ॥
पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवस्य सत्यं स्वाहा ॥ ५९ ॥
ॐ पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पल्यै सत्यं नमः ॥ ६०॥
ॐ पशुपते पाशं में गोपाय भोक्तृत्वभोग्यं पशुपतेर्देवस्य पत्ल्यै सत्यं स्वाहा ॥ ६१ ॥
ॐ शिवाय नमः ॥ ६२ ॥ ॐ शिवाय सत्यं स्वाहा ॥ ६३ ॥
एवं शिवाय होतव्यं विरिञ्च्याद्यं च पूर्ववत् ।
विरिञ्चाद्यं च पूर्वोक्तं सृष्टिमार्गेषु सुव्रताः ॥ ६४
पुनः पशुपतेः पत्नीं तथा पशुपतिं क्रमात्।
सम्पूज्य पूर्ववन्मन्त्रैहोंतव्यं च क्रमेण वै ॥ ६५
चर्वन्तमाज्यपूर्व च समिदन्तं समाहितः ॥ ६६
ॐ शर्व धरां मे छिन्धि घ्राणे गन्धं छिन्धि मेघं जहि भूः स्वाहा ॥ ६७ ॥
भुवः स्वाहा ॥ ६८ स्वः स्वाहा ॥ ६९ ॥ भूर्भुवः स्वः स्वाहा ॥ ७०
एवं पृथक्पृथग्घुत्वा केवलेन घृतेन वा।
सहस्त्रं वा तदर्थं वा शतमष्टोत्तरं तु वा ॥ ७१
विरजा च घृतेनैव शतमष्टोत्तरं पृथक्।
प्राणादिभिश्च जुहुयाद्धृतेनैव तु केवलम् ॥ ७२
ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा ॥ ७३
प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा ॥ ७४
ॐ भूः स्वाहा ॥ ७५ ॥ ॐ भुवः स्वाहा ॥ ७६
ॐ स्वः स्वाहा ॥ ७७ ॥ ॐ भूर्भुवः स्वः स्वाहा ॥ ७८
[हवनके मन्त्र इस प्रकार हैं- ॐ शर्व धरां मे छिन्धि घ्राणे गन्धं छिन्धि मेघं जहि भूः स्वाहा। भुवः स्वाहा। स्वः स्वाहा। भूर्भुवः स्वः स्वाहा-इन मन्त्रोंके द्वारा समिधा आदिसे अथवा केवल घृतसे एक हजार अथवा पाँच सौ अथवा एक सौ आठ पृथक्- पृथक् आहुतियाँ प्रदान करके विरजासंज्ञक दीक्षामन्त्रोंके द्वारा घृतसे आहुति देनी चाहिये। तत्पश्चात् प्राणादि मन्त्रोंक द्वारा केवल घृतसे एक सौ आठ आहुति डालनी चाहिये। [प्राणादि मन्त्र ये हैं- ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहा। प्राणाधिपतये रुद्राय वृषान्तकाय स्वाहा। ॐ भूः स्वाहा। ॐ भुवः स्वाहा। ॐ स्वः स्वाहा। ॐ भूर्भुवः स्वः स्वाहा ॥ ६७-७८ ॥
एवं क्रमेण जुहुयाच्छ्राद्धोक्तं च यथाक्रमम् ।
सप्तमेऽहनि योगीन्द्राञ्छ्राद्धार्हानपि भोजयेत् ॥ ७९
शर्वादीनां च विप्राणां वस्त्राभरणकम्बलान् ।
वाहनं शयनं यानं कांस्यताम्रादिभाजनम् ॥ ८०
हैमं च राजतं धेनुं तिलान् क्षेत्रं च वैभवम्।
दासीदासगणश्चैव दातव्यो दक्षिणामपि ॥ ८१
पिण्डं च पूर्ववद्दद्यात्पृथगष्टप्रकारतः ।
ब्राह्मणानां सहस्त्रं च भोजयेच्च सदक्षिणम् ॥ ८२
एकं वा योगनिरतं भस्मनिष्ठं जितेन्द्रियम्।
त्र्यहं चैव तु रुद्रस्य महाचरुनिवेदनम् ॥ ८३
विशेष एवं कथित अशेषश्राद्धचोदितः ।
मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम् ॥ ८४
नित्यनैमित्तिकादीनि कुयाद्वा सन्त्यजेत्तु वा।
बान्धवेऽपि मृते तस्य शौचाशौचं न विद्यते ॥ ८५
सूतकं च न सन्देहः स्नानमात्रेण शुद्धयति ।
पश्चाज्जाते कुमारे च स्वे क्षेत्रे चात्मनो यदि ॥ ८६
तस्य सर्वं प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद्भवेत्।
कन्यका यदि सञ्जाता पश्चात्तस्य महात्मनः ॥ ८७
एकपर्णा इव ज्ञेया अपर्णा इव सुव्रता।
भवत्येव न सन्देहस्तस्याश्चान्वयजा अपि ॥ ८८
मुच्यन्ते नात्र सन्देहः पितरो नरकादपि।
मुच्यन्ते कर्मणानेन मातृतः पितृतस्तथा ॥ ८९
कालं गते द्विजे भूमौ खनेच्च्चापि दहेत्तु वा।
पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते ॥ ९०
कर्मणा चोत्तरेणैव गतिरस्य न विद्यते।
ब्रह्मणा कथितं सर्व मुनीनां भावितात्मनाम् ॥ ९१
पुनः सनत्कुमाराय कथितं तेन धीमता।
कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना ॥ ९२
प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः ।
ज्ञातं मया कृतं चैव नियोगादेव तस्य तु ॥ ९३
एतद्वः कथितं सर्वं रहस्यं ब्रह्मसिद्धिदम् ।
मुनिपुत्राय दातव्यं न चाभक्ताय सुव्रताः ॥ ९४
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे जीवच्छ्राद्धविधिनांम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तरभागमें 'जीवच्छाद्धविधि' नामक पैंतालीसवाँ अध्याय पूर्ण हुआ ॥ ४५ ॥
टिप्पणियाँ