तुर्वसु और हुह्यु के वंश का वर्णन, उनके वंश-वर्णन में बलि की कथा | turvasu aur huhyu ke vansh ka varnan, unake vansh-varnan mein bali kee katha |

मत्स्य पुराण अड़तालीसवाँ अध्याय

तुर्वसु और हुह्यु के वंश का वर्णन, अनुके वंश-वर्णन में बलि की कथा और कर्णकी उत्पत्ति का प्रसङ्ग

सूत उवाच

तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः । 
गोभानोस्तु सुतो वीरस्त्रिसारिरपराजितः ॥ १

सूतजी कहते हैं-ऋषियो। (ययाति के पञ्चम पुत्र) तुर्वसुका पुत्र गर्भ और उसका पुत्र गोभानु हुआ। गोभानुका पुत्र अजेय शूरवीर त्रिसारि हुआ। त्रिसारिका पुत्र करंधम और उसका पुत्र मरुत्त हुआ॥ १

करंधमस्तु त्रैसारिर्मरुत्तस्तस्य चात्मजः ।
दुष्यन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥ २

एवं ययातिशापेन जरासंक्रमणे पुरा।
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ३

दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः ।
वरूथात् तु तथाण्डीरः संधानस्तस्य चात्मजः ॥ ४

पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥ ५

द्रुह्योस्तु तनयी शूरौ सेतुः केतुस्तथैव च।
सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः ॥ ६

ख्यायते यस्य नाम्नासौ गान्धारविषयो महान्।
आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥ ७

गन्धारपुत्रो धर्मस्तु धृतस्तस्यात्मजोऽभवत् । 
धृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥ ८

प्रचेतसः पुत्रशतं राजानः सर्व एव ते। 
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः ॥ ९

उसने (संतानरहित होनेके कारण) पुरुवंशी दुष्यन्तको अपना पुत्र बनाया। इस प्रकार पूर्वकालमें वृद्धावस्थाके परिवर्तनके समय ययातिद्वारा दिये गये शापके कारण तुर्वसुका वंश पूरुवंशमें प्रविष्ट हो गया था। दुष्यन्तका पुत्र राजा वरूथ था। वरूथसे आण्डौर (भुवमन्यु) की उत्पत्ति हुई। आण्डीरके संधान, पाण्ड्य, केरल, चोल और कर्ण नामक पाँच पुत्र हुए। उनके समृद्धिशाली देश उन्होंके नामपर पाण्ड्य, चोल और केरल नामसे प्रसिद्ध हुए। (ययात्तिके चतुर्थ पुत्र) द्रुह्युके सेतु और केतु (अन्यत्र सर्वत्र बभु) नामक दो शूरवीर पुत्र उत्पन्न हुए। सेतुका पुत्र शरद्वान् और उसका पुत्र गन्धार हुआ, जिसके नामसे यह विशाल गान्धार जनपद विख्यात है। उस जनपदके आरट्ट (पंजाबका पश्चिम भाग) प्रदेशमें उत्पन्न हुए घोड़े अश्वजातिमें सर्वश्रेष्ठ माने जाते हैं। गन्धारका पुत्र धर्म और उसका पुत्र धृत हुआ। धृतसे विदुषका जन्म हुआ और उसका पुत्र प्रचेता हुआ। प्रचेताके सौ पुत्र हुए जो सब-के-सब राजा हुए। वे सभी उत्तर दिशामें स्थित म्लेच्छ राज्योंके अधीश्वर थे॥-९॥

अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः । 
सभानरश्चाक्षुषश्च परमेघुस्तथैव च ॥ १०

सभानरस्य पुत्रस्तु विद्वान् कोलाहलो नृपः।
कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः ॥ ११

संजयस्याभवत् पुत्रो वीरो नाम पुरंजयः ।
जनमेजयो महाराजः पुरंजयसुतोऽभवत् ॥ १२

जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ।
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाभवत् ॥ १३

महामनाः सुतस्तस्य महाशालस्य धार्मिकः ।
सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः ॥ १४

महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ।
उशीनरं च धर्मज्ञं तितिक्षं चैव तावुभौ ॥ १५

उशीनरस्य पल्यस्तु पञ्च राजर्षिसम्भवाः ।
भृशा कृशा नवा दर्शा या च देवी दृषद्वती ॥ १६

उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः ।
तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥ १७

भृशायास्तु नृगः पुत्रो नवाया नव एव च।
कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतोऽभवत्। 
दृषद्वत्याः सुतश्चापि शिबिरौशीनरो नृपः ॥ १८ 

शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ।
पृथुदर्भः सुवीरश्च केकयो मद्रकस्तथा ॥ १९

तेषां जनपदाः स्फीताः कैकया मद्रकास्तथा।
सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥ २०

सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी। 
नवस्य नवराष्ट्र तु तितिक्षोस्तु प्रजां शृणु ॥ २१

(ययातिके तृतीय पुत्र) अनुके सभानर, चाक्षुष और परमेषु नामक तीन शूरवीर एवं परम धार्मिक पुत्र उत्पन्न हुए। सभानरका पुत्र विद्वान् राजा कोलाहल हुआ। कोलाहलका धर्मात्मा पुत्र संजय नाम से विख्यात था। संजयका पुरंजय नामक वीरवर पुत्र हुआ। महाराज जनमेजय (प्रथम) पुरंजयके पुत्र हुए। राजर्षि जनमेजयसे महाशाल नामक पुत्र पैदा हुआ जो इन्द्रतुल्य तेजस्वी एवं प्रतिष्ठित कीर्तिवाला राजा हुआ। उन महाशालके महामना नामक पुत्र पैदा हुआ जो परम धर्मात्मा, महान् मनस्वी तथा सातों द्वीपोंका अधीश्वर चक्रवर्ती सम्राट् हुआ। महामनाने दो पुत्रोंको जन्म दिया। वे दोनों धर्मज्ञ उशीनर और तितिक्षु नामसे विख्यात हुए। उशीनरकी भृशा, कृशा, नवा, दर्शा और देवी दृषद्वती- ये पाँच पत्नियाँ थीं, जो सभी राजर्षियोंकी कन्याएँ थीं। 

उनके गर्भसे उशीनरके परम धर्मात्मा एवं कुलवर्धक पुत्र उत्पन्न हुए थे। वे सभी उशीनरकी वृद्धावस्थामें महान् तपके फलस्वरूप पैदा हुए थे। भूशाका पुत्र नृग और नवाका पुत्र नव हुआ। कृशाने कृशको जन्म दिया। दर्शाके सुव्रत नामक पुत्र हुआ। दृषद्वतीके पुत्र उशीनर नन्दन राजा शिबि हुए। शिबिके पृथुदर्भ, सुवीर, केकय और मद्रक नामक चार विश्वविख्यात पुत्र हुए। ये सभी शिविगण नामसे भी प्रसिद्ध थे। इनके समृद्धिशाली जनपद केकय (व्यास और शतलजके मध्य पंजाबका पश्चिमोत्तर भाग), मद्रक, सौवीर (सिंधका उत्तरी भाग) और पौर नामसे विख्यात थे। नृगका जनपद केकय और सुव्रतका अम्बष्ठ नामसे प्रसिद्ध था। कृशकी राजधानी वृषलापुरी थी। नव नवराष्ट्रके अधीश्वर थे। अब तितिक्षुकी संततिका वर्णन सुनिये ॥ १०-२१॥

तितिक्षुरभवद् राजा पूर्वस्यां दिशि विश्रुतः । 
वृषद्रथः सुतस्तस्य तस्य सेनोऽभवत् सुतः ॥ २२

सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः । 
जातो मानुषयोन्या तु क्षीणे वंशे प्रजेच्छया ॥ २३

महायोगी तु स बलिर्बद्धो बन्धैर्महात्मना। 
पुत्रानुत्पादयामास क्षेत्रजान् पञ्च पार्थिवान् ॥ २४

अङ्गं स जनयामास वङ्गं सुहां तथैव च।
पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते। 
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ॥ २५

बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः । 
महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ २६

संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः ।
त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ २७

जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम्।
चतुरो नियतान् वर्णान् स वै स्थापयिता प्रभुः ॥ २८

तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्यकास्तथा। 
पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥ २९

ऋषय ऊचुः

कथं बलेः सुता जाताः पञ्च तस्य महात्मनः ।
किं नाम्नी महिषी तस्य जनिता कतमो ऋषिः ॥ ३०

कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् ।
माहात्म्यं च प्रभावं च निखिलेन वदस्व तत् ॥ ३१

सूत उवाच

अथोशिज इति ख्यात आसीद् विद्वान् ऋषिः पुरा।
पत्नी वै ममता नाम बभूवास्य महात्मनः ॥ ३२

उशिजस्य यवीयान् वै भ्रातृपत्नीमकामयत्।
बृहस्पतिर्महातेजा ममतामेत्य कामतः ॥ ३३

उवाच ममता तं तु देवरं वरवर्णिनी।
अन्तर्वल्यस्मि ते भ्रातुज्यॅष्ठस्य तु विरम्यताम् ॥ ३४

अयं तु मे महाभाग गर्भः कुप्येद् बृहस्पते।
औशिजो भ्रातृजन्यस्ते सोपाङ्ग वेदमुद्रिरन् ॥ ३५

अमोघरेतास्त्वं चापि न मां भजितुमर्हसि।
अस्मिन्नेवं गते काले यथा वा मन्यसे प्रभो ॥ ३६

एवमुक्तस्तथा सम्यग् बृहत्तेजा बृहस्पतिः ।
कामात्मा स महात्मापि न मनः सोऽभ्यवारयत् ॥ ३७

सम्बभूवैव धर्मात्मा तया सार्धमकामया।
उत्सृजन्तं तु तद्रेतो वाचं गर्भोऽभ्यभाषत ॥ ३८

भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः ।
अमोघरेतास्त्वं चापि पूर्व चाहमिहागतः ॥ ३९

सोऽशपत् तं ततः कुद्ध एवमुक्तो बृहस्पतिः ।
पुत्रं ज्येष्ठस्य वै भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४०

यस्मात् त्वमीदृशे काले गर्भस्थोऽपि निषेधसि ।
मामेवमुक्तवांस्तस्मात् तमो दीर्घ प्रवेक्ष्यसि ॥ ४१

ततो दीर्घतमा नाम शापादृषिरजायत।
अथौशिजो बृहत्कीर्तिबृहस्पतिरिवौजसा ।। ४२

ऊर्ध्वरेतास्ततोऽसौ वै वसते भ्रातुराश्रमे।
स धर्मान् सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः ।॥ ४३

तस्य भ्राता पितृव्यो यश्चकार भरणं तदा।
तस्मिन् निवसतस्तस्य यदृच्छैवागतो वृषः ॥ ४४

यज्ञार्थमाहृतान् दर्भाश्चचार सुरभीसुतः ।
जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम् ॥ ४५

तेनासौ निगृहीतश्च न चचाल पदात् पदम् । 
ततोऽब्रवीद् वृषस्तं वै मुञ्च मां बलिनां वर ।। ४६

न मयाऽऽसादितस्तात बलवांस्त्वत्समः क्वचित्। 
मम चान्यः समो वापि न हि मे बलसंख्यया। 
मुञ्च तातेति च पुनः प्रीतस्तेऽहं वरं वृणु ॥ ४७

एवमुक्तोऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि। 
एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥ ४८

वृषभ उवाच

नास्माकं विद्यते तात पातकं स्तेयमेव च। 
भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥ ४९

द्विपदां बहवो होते धर्म एष गवां स्मृतः । 
कार्याकार्ये न वागम्यागमनं च तथैव च ॥ ५०

तितिक्षु पूर्व दिशामें विख्यात राजा हुआ। उसका पुत्र वृषद्रथ और वृष्द्रथका पुत्र सेन हुआ। सेनके सुतपा नामक पुत्र उत्पन्न हुआ और सुतपाका पुत्र बलि हुआ। महायोगी बलि अपने वंशके नष्ट हो जानेपर संतानकी कामनासे मानव-योनिमें उत्पन्न हुआ था। इसे महान् आत्मबलसे सम्फा भगवान् विष्णुने वामनरूपसे बन्धनोंद्वारा बाँध लिया था। राजा बलिने पाँच क्षेत्रज पुत्रोंको जन्म दिया जो सभी आगे चलकर पृथ्वीपति हुए। उसने अङ्ग, वङ्ग, सुहा, पुण्ड्र और कलिङ्ग नामक पुत्रोंको पैदा किया जो बलिके क्षेत्रज पुत्र कहलाते हैं। ये बलिपुत्र ब्राह्मणसे उत्पन्न होनेके कारण ब्राह्मण थे और सामर्थ्यशाली बलिके वंशप्रवर्तक हुए। पूर्वकालमें ब्रह्माने प्रसन्न होकर बुद्धिमान् बलिको ऐसा वरदान दिया था कि 'तुम महान् योगी होगे। कल्पपर्यन्त परिमाणवाली तुम्हारी आयु होगी। तुम संग्राममें किसीसे पराजित नहीं होगे। धर्मक विषयमें तुम्हारी बुद्धि उत्तम होगी। तुम त्रिकालदर्शी और असुरवंशमें प्रधान होगे। युद्धमें तुम्हें अनुपम विजय प्राप्त होगी। धर्मके विषयमें तुम तत्त्वार्थदर्शी होगे।' इसीके परिणामस्वरूप सामर्थ्यशाली बलि चारों नियत (ब्राह्मण, क्षत्रिय, वैश्य शूद्र) वर्णोंकी स्थापना करनेवाला हुआ। बलिके पाँचों क्षेत्रज पुत्रोंके वंश भी उन्होंके नामपर अङ्ग, वङ्ग, सुहाक, पुण्ड्र और कलिङ्ग नामसे विख्यात हुए। उनमें अङ्गके वंशका वर्णन सुनिये ॥ २२-५० ॥

सूत उवाच

गवां धर्म तु वै श्रुत्वा सम्भ्रान्तस्तु विसृज्य तम्।
शक्त्यान्नपानदानात् तु गोपतिं सम्प्रसादयत् ॥ ५१

प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः । 
मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥ ५२

ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत ।
कृतावलेपां तां मत्वा सोऽनड्‌वानिव न क्षमे ॥ ५३ 

गोधर्म तु परं मत्वा खुषां तामभ्यपद्यत।
निर्भर्त्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥ ५४

भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात् तमुवाच सा। 
विपर्ययं तु त्वं लकवा अनड्‌वानिव वर्तसे ॥ ५५

गम्यागम्यं न जानीषे गोधर्मात् प्रार्थयन् सुताम्।
दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा ॥ ५६

काष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ।
तस्मात् त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः ॥ ५७

तमुहामार्न वेगेन स्त्रोतसोऽभ्याशमागतः ।
जग्राह तं स धर्मात्मा बलिर्वैरोचनिस्तदा ॥ ५८

अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन् ।
प्रीतश्चैवं वरेणैवच्छन्दयामास वै बलिम् ॥ ५९

तस्माच्च स वरं वने पुत्रार्थे दानवर्षभः ।
संतानार्थ महाभाग भार्यायां मम मानद ।
पुत्रान् धर्मार्थतत्त्वज्ञानुत्पादयितुमर्हसि ॥ ६०

एवमुक्तोऽथ देवर्षिस्तथास्त्वित्युक्तवान् प्रभुः । 
स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत् ।
अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह ।। ६१

शूद्रां धात्रेयिकां तस्मादन्धाय प्राहिणोत् तदा। 
तस्यां काक्षीवदादींश्च शूद्रयोनावृषिर्वशी ॥ ६२

जनयामास धर्मात्मा शूद्रानित्येवमादिकम् । 
उवाच तं बली राजा दृष्ट्वा काक्षीवदादिकान् ॥ ६३

राजोवाच

प्रवीणानृषिधर्मस्य चेश्वरान् ब्रह्मवादिनः । 
विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमाञ्छुचीन् ॥ ६४

ममैव चेति होवाच तं दीर्घतमसं बलिः । 
नेत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत् ॥ ६५

उत्पन्नाः शूद्रयोनौ तु भवच्छन्देऽसुरोत्तम। 
अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव।
प्राहिणोदवमानान्मे शूद्रां धात्रेयिकां नृप ॥ ६६

ततः प्रसादयामास बलिस्तमृषिसत्तमम् ।
बलिः सुदेष्णां तां भार्या भर्त्सयामास दानवः ॥ ६७

पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्। 
तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥ ६८

दघ्ना लवणमिश्रेण त्वभ्यक्तं मधुकेन तु।
लिह मामजुगुप्सन्ती आपादतलमस्तकम्। 
ततस्त्वं प्राप्यसे देवि पुत्रान् वै मनसेप्सितान् ।। ६९

तस्य सा तद्वचो देवी सर्वं कृतवती तदा।
तस्य सापानमासाद्य देवी पर्यहरत् तदा ॥ ७० 

तामुवाच ततः सोऽथ यत् ते परिहृतं शुभे।
विनापानं कुमारं तु जनयिष्यसि पूर्वजम् ॥ ७१

सुदेष्णोवाच

नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम्। 
तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो ॥ ७२

दीर्घतमा उवाच

तवापचाराद् देव्येष नान्यथा भविता शुभे।
नैव दास्यति पुत्रस्ते पौत्रो वै दास्यते फलम् ॥ ७३

तस्यापानं विना चैव योग्यभावो भविष्यति।
तस्माद् दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ७४

प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते।
तेन तिष्ठन्ति ते गर्भे पौर्णमास्यामिवोडुराट् ॥ ७५

भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः । 

तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते ॥ ७६

सूत उवाच

तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत।
अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्यस्तथैव च ॥ ७७ 

वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः।
यस्यैते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥ ७८

प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः ।
ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥ ७९ 

ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् ।
विचार्य यस्माद् गोधर्मं प्रमाणं ते कृतं विभो ॥ ८०

भक्त्या चानन्ययास्मासु तेन प्रीतास्मि तेऽनघ।
तस्मात् तुभ्यं तमो दीर्घमाघ्रायापनुदामि वै ॥ ८१ 

बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि ।
जरां मृत्युं तमश्चैव आनायापनुदामि ते ॥ ८२

सद्यः स घ्रातमात्रस्तु अभितो मुनिसत्तमः ।
आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत् ॥ ८३

ऋषियो। दीर्घतमाके प्रभावसे सुदेष्णाका जो ज्येष्ठ पुत्र उत्पन्न हुआ, उसका नाम अङ्ग था। तत्पश्चात् कलिङ्ग, पुण्ड्र, सुह्य और वङ्गराजका जन्म हुआ। ये पाँचों दैत्यराज बलिके क्षेत्रज पुत्र थे। ये सभी पुत्र महर्षि दीर्घतमाद्वारा बलिको प्रदान किये गये थे। तदनन्तर उन्होंने मानव- योनिमें कई संतानें उत्पन्न कीं। एक बार सुरभि (गौ) दीर्घतमाके पास आकर उनसे बोली- 'विभो । आपने हम लोगोंके प्रति अनन्यभक्ति होनेके कारण भलीभाँति विचारकर पशु-धर्मको प्रमाणित कर दिया है, इसलिये मैं आपपर परम प्रसन्न हूँ। अनघ । आपके शरीरमें बृहस्पतिका अंशभूत जो यह पाप स्थित है, उस घोर अन्धकारको सैंधकर मैं आपसे दूर किये देती हूँ। साथ ही आपके शरीरसे बुढ़ापा,मृत्यु और अंधकारको भी सैंधकर हटा दे रही हूँ।' (ऐसा कहकर सुरभिने उनके शरीरको सूँघा।) सुरभिके सूंघते ही वे मुनिश्रेष्ठ दीर्घतमा तुरन्त दीर्घ आयु, सौन्दर्यशाली शरीर और सुन्दर नेत्रोंसे युक्त हो गये ॥ ५१-८३॥

गोऽभ्याहते तमसि वै गौतमस्तु ततोऽभवत् ।
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ॥ ८४

दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्युपविष्टश्चिरं तपः ।
ततः कालेन महता तपसा भावितस्तु सः ॥ ८५

विधूय मातृजं कायं ब्राह्मणं प्राप्तवान् विभुः ।
ततोऽब्रवीत् पिता तं वै पुत्रवानस्म्यहं त्वया ॥ ८६ 

सत्पुत्रेण तु धर्मज्ञ कृतार्थोऽहं यशस्विना।
मुक्त्वाऽऽत्मानं ततोऽसौ वै प्राप्तवान् ब्रह्मणः क्षयम् ॥ ८७

ब्राह्मण्यं प्राप्य काक्षीवान् सहस्त्रमसृजत् सुतान् ।
कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥ ८८

इत्येष दीर्घतमसो बलेर्वैरोचनस्य च।
समागमो वः कथितः सन्ततिश्चोभयोस्तथा ॥ ८९

इस प्रकार गौद्वारा अन्धकारके नष्ट कर दिये जानेपर वे गौतम नामसे प्रसिद्ध हुए। तदनन्तर  कक्षीवान् अपने पिता गौतमके साथ गिरिव्रजको जाकर उन्हींके साथ निवास करता हुआ चिरकालिक तपस्यामें संलग्न हो गया। वहाँ वह नित्य पिताका दर्शन और स्पर्श करता था। दीर्घकालके पश्चात् महान् तपस्यासे शुद्ध हुए कक्षीवान्ने शूद्रा माताके गर्भसे उत्पन्न हुए शरीरको तपाकर ब्राह्मणत्वकी प्राप्ति कर ली। तब पिता गौतमने उससे कहा- 'बेटा! तुम्हारे जैसे यशस्वी सत्पुत्रसे मैं पुत्रवान् हो गया हूँ। धर्मज्ञ। अब मैं कृतार्थ हो गया।' ऐसा कहकर गौतम अपने शरीरका त्याग कर ब्रह्मलोकको चले गये। ब्राह्मणत्वकी प्राप्ति करके कक्षीवान्ने हजारों पुत्रोंको उत्पन्न किया। कक्षीवान्‌के वे पुत्र कौष्माण्ड और गौतम नामसे विख्यात हुए ॥ ८४-८९॥

बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान्।
कृतार्थः सोऽपि धर्मात्मा योगमायावृतः स्वयम् ॥ ९०

अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः ।
तत्राङ्गस्य तु दायादो राजासीद् दधिवाहनः ॥ ९१

दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः ।
आसीद् दिविरथापत्यं विद्वान् धर्मरथो नृपः ॥ ९२

स हि धर्मरथः श्रीमांस्तेन विष्णुपदे गिरौ।
सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना ॥ ९३

अथ धर्मरथस्याभूत् पुत्रश्चित्ररथः किल।
तस्य सत्यरथः पुत्रस्तस्माद् दशरथः किल ॥ ९४

लोमपाद इति ख्यातस्तस्य शान्ता सुताभवत् ।
अथ दाशरथिवीरश्चतुरङ्गो महायशाः ॥ ९५

ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः ।
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥ ९६

पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह।
चम्पस्य तु पुरी चम्पा पूर्व या मालिनी भवत् ॥ ९७

पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् । 
यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥ ९८

अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्। 
हर्यङ्गस्य तु दायादो जातो भद्ररथः किल ॥ ९९

अथ भद्ररथस्यासीद् बृहत्कर्मा जनेश्वरः ।
बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥ १००

बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम्।
नाम्ना जयद्रथं नाम तस्माद् बृहद्रथो नृपः ॥ १०१

आसीद् बृहद्रथाच्चैव विश्वजिज्जनमेजयः ।
दायादस्तस्य चाङ्गो वै तस्मात् कर्णोऽभवन्नृपः ॥ १०२

कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः ।
एतेऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया।
विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः ॥ १०३

इधर बलिने अपने पाँचों निष्पाप पुत्रोंका अभिनन्दन करके उनसे कहा-'पुत्रो! मैं कृतार्थ हो गया।' स्वयं धर्मात्मा एवं सामर्थ्यशाली बलि योगमायासे समावृत था। वह सम्पूर्ण प्राणियोंसे अदृश्य रहकर कालकी प्रतीक्षा कर रहा था। उन पुत्रोंमें अङ्गका पुत्र राजा दधिवाहन हुआ। राजा दिविरथ दधिवाहनके पुत्र कहे जाते हैं। दिविरथका पुत्र विद्वान् राजा धर्मरथ था। ये धर्मरथ बड़े सम्पत्तिशाली नरेश थे। इन्होंने विष्णुपद पर्वतपर महात्मा शुक्राचार्यक साथ सोमरसका पान किया था। धर्मरथका पुत्र चित्ररथ हुआ। उसका पुत्र सत्यरथ हुआ और उससे दशरथका जन्म हुआ जो लोमपाद नामसे विख्यात था। उसके शान्ता नामकी एक (दत्रिमा) कन्या हुई थी।

दशरथका पुत्र महायशस्वी शूरवीर चतुरङ्ग हुआ। चतुरङ्गका पुत्र पृथुलाक्ष नामसे प्रसिद्ध हुआ। अपने कुलकी वृद्धि करनेवाला यह पृथुलाक्ष महर्षि ऋष्यशृङ्गकी कृपासे पैदा हुआ था। पृथुलाक्षके चम्प नामक पुत्र हुआ। चम्पकी राजधानीका नाम चम्पा (भागलपुर) था, जो पहले मालिनी नामसे प्रसिद्ध थी। पूर्णभद्रकी कृपासे चम्पका पुत्र हर्यङ्ग हुआ। इस राजाके यज्ञमें महर्षि विभाण्डकने मन्त्रोंद्वारा एक ऐसे हस्तीको भूतलपर अवतीर्ण किया था जो शत्रुओंको विमुख कर देनेवाला एवं उत्तम वाहन था। हर्यङ्गका पुत्र भद्ररथ पैदा हुआ। भद्ररथका पुत्र राजा बृहत्कर्मा हुआ। उसका पुत्र बृहद्भानु हुआ। उससे महात्मवान्‌का जन्म हुआ। राजेन्द्र बृहद्धानुने एक अन्य पुत्रको भी उत्पन्न किया था जिसका नाम जयद्रथ था। उससे राजा बृहद्रथका जन्म हुआ। बृहद्रथसे विश्वविजयी जनमेजय पैदा हुआ था। उसका पुत्र अङ्ग था और उससे राजा कर्णकी उत्पत्ति हुई थी। कर्णका वृषसेन और उसका पुत्र पृथुसेन हुआ। द्विजवरो! ये सभी राजा अङ्गके वंशमें उत्पन्न हुए थे, मैंने इनका आनुपूर्वी विस्तारपूर्वक वर्णन कर दिया। अब आप लोग पूरुके वंशका वर्णन सुनिये ॥ ९०-१०३ ॥

ऋषय ऊचुः

कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः ।
एतदिच्छामहे श्रोतुमत्यन्तकुशलो हासि ॥ १०४

ऋषियोंने पूछा- सूतजी ! कर्ण कैसे अधिरथ सूतके पुत्र थे, पुनः किस प्रकार अङ्गके पुत्र कहलाये? इस रहस्यको सुननेकी हम लोगोंकी उत्कट इच्छा है, इसका वर्णन कोजिये; क्योंकि आप कथा कहनेमें परम प्रवीण हैं॥ १०४ ॥

सूत उवाच

बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः ।
तस्य पत्नीद्वयं ह्यासीच्छैब्यस्य तनये ह्युभे।
यशोदेवी च सत्या च तयोर्वशं च मे शृणु ॥ १०५

जयद्रथं तु राजानं यशोदेवी ह्यजीजनत्।
सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥ १०६

विजयस्य बृहत्पुत्रस्तस्य पुत्रो बृहद्रथः।
बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥ १०७

सत्यकर्मणोऽधिरथः सूतश्चाधिरथः स्मृतः ।
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः ।
तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥ १०८

सूतजी कहते हैं- ऋषियो । बृहद्भानुका पुत्र बृहन्मना नामका राजा हुआ। उसके दो पत्नियाँ थीं। वे दोनों शैब्यकी कन्याएँ थीं। उनका नाम यशोदेवी और सत्या था। अब मुझसे उन दोनोंका वंश-वर्णन सुनिये। बृहन्मनाके संयोगसे यशोदेवीने राजा जयद्रथको और सत्याने विश्वविख्यात विजयको जन्म दिया था। विजयका पुत्र बृहत्पुत्र और उसका पुत्र बृहद्रथ हुआ। बृहद्रथका पुत्र महामना सत्यकर्मा हुआ। सत्यकर्माका पुत्र अधिरथ हुआ। यही अधिरथ सूत नामसे भी विख्यात था, जिसने (गङ्गामें बहते हुए) कर्णको पकड़ा था। इसी कारण कर्ण सूत-पुत्र कहे जाते हैं। इस प्रकार कर्णक प्रति जो किंवदन्ती फैली है, उसे पूर्णतया मैंने आप लोगोंसे कह दिया ॥ १०५-१०८ ॥

इति श्रीमात्स्ये महापुराणे सोमवंशेऽष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

इस प्रकार श्रीमत्स्यमहापुराणके सोमवंश-वर्णन प्रसङ्गमें अड़तालीसवाँ अध्याय सम्पूर्ण हुआ ॥ ४८ ॥

टिप्पणियाँ