दुर्ग-निर्माण की विधि तथा राजा द्वारा दुर्ग में संग्रहणीय उपकरणों का विवरण | durg-nirmaan kee vidhi tatha raaja dvaara durg mein sangrahaneey upakaranon ka vivaran
मत्स्य पुराण दो सौ सतरहवाँ अध्याय
दुर्ग-निर्माण की विधि तथा राजा द्वारा दुर्ग में संग्रहणीय उपकरणों का विवरण
मत्स्य उवाच
राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ।
रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ १
मत्स्यभगवान्ने कहा- राजन् ! जहाँ प्रचुर मात्रामें घास-भूसा और लकड़ी वर्तमान हो, स्थान रमणीय हो, पड़ोसी राजा विनम्र हो, वैश्य और शूद्रलोग अधिक मात्रामें रहते हों। १
वैश्यशूद्रजनप्रायमनाहार्ये तथा परैः ।
किञ्चिद् ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ २
अदेवमातृकं रम्यमनुरक्तजनान्वितम् ।
करैरपीडितं चापि बहुपुष्यफलं तथा ॥ ३
अगम्यं परचक्राणां तद्वासगृहमापदि ।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥ ४
सरीसृपविहीनं च व्याघ्घ्रतस्करवर्जितम् ।
एवंविधं यथालाभं राजा विषयमावसेत् ॥ ५
तत्र दुर्गं नृपः कुर्यात् षण्णामेकतमं बुधः ।
धन्वदुर्गं महीदुर्ग नरदुर्गं तथैव च ॥ ६
वाक्ष चैवाम्बुदुर्ग च गिरिदुर्गं च पार्थिव।
सर्वेषामेव दुर्गाणां गिरिदुर्ग प्रशस्यते ॥ ७
दुर्गं च परिखोपेतं वप्राट्टालकसंयुतम् ।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥ ८
गोपुरं सकपाटं च तत्र स्यात् सुमनोहरम्।
सपताकं गजारूढो येन राजा विशेत् पुरम् ॥ ९
चतस्त्रश्च तथा तत्र कार्यास्त्वायतवीथयः ।
एकस्मिस्तत्र वीथ्यग्रे देववेश्म भवेद् दृढम् ॥ १०
वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।
धर्माधिकरणं कार्य वीथ्यग्रे च तृतीयके ॥ ११
चतुर्थे त्वथ वीथ्यग्रे गोपुरं च विधीयते।
आयतं चतुरग्रं वा वृत्तं वा कारयेत् पुरम् ॥ १२
मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च।
अर्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥ १३
अर्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसन् ।
अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता । १४
राज्ञा कोशगृहं कार्य दक्षिणे राजवेश्मनः ।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥ १५
गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी।
आग्नेये च तथा भागे आयुधागारमिष्यते ॥ १६
महानसं च धर्मज्ञ कर्मशालास्तथापराः ।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ १७
मन्त्रिवेदविदां चैव चिकित्साकर्तुरेव च।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ १८
गवां स्थानं तथैवात्र तुरगाणां तथैव च।
उत्तराभिमुखा श्रेणी तुरगाणां विधीयते ॥ १९
दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः ।
तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ॥ २०
कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः ।
धारयेदश्वशालासु सवत्सां धेनुमेव च ॥ २१
अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥ २२
अस्तं गते न कर्तव्यो देवदेवे दिवाकरे।
तत्र तत्र यथास्थानं राजा विज्ञाय सारथीन् ॥ २३
दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ।
योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४
दद्यादावसथान् दुर्गे कालमन्त्रविदां शुभान्।
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ २५
आहरेत भृशं राजा दुर्गे हि प्रबला रुजः।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥ २६
न बहूनामतो दुर्गे विना कार्ये तथा भवेत्।
दुर्गे च तत्र कर्तव्या नानाप्रहरणान्विताः ॥ २७
सहस्त्रघातिनो राजंस्तैस्तु रक्षा विधीयते।
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ २८
संचयश्चात्र सर्वेषामायुधानां प्रशस्यते।
धनुषां क्षेपणीयानां तोमराणां च पार्थिव ॥ २९
शराणामथ खङ्गानां कवचानां तथैव च।
लगुडानां गुडानां च हुडानां परिधैः सह ॥ ३०
अश्मनां च प्रभूतानां मुद्रराणां तथैव च।
त्रिशूलानां पट्टिशानां कुठाराणां च पार्थिव ॥ ३१
प्रासानां च सशूलानां शक्तीनां च नरोत्तम।
परश्वधानां चक्राणां वर्मणां चर्मभिः सह ॥ ३२
कुद्दालरज्जुवेत्राणां पीठकानां तथैव च।
तुषाणां चैव दात्राणामङ्गाराणां च संचयः ॥ ३३
सर्वेषां शिल्पिभाण्डानां संचयश्चात्र चेष्यते ।
वादित्राणां च सर्वेषामोषधीनां तथैव च ॥ ३४
यवसानां प्रभूतानामिन्धनस्य च संचयः ।
गुडस्य सर्वतैलानां गोरसानां तथैव च ॥ ३५
वसानामथ मज्जानां स्नायूनामस्थिभिः सह।
गोचर्मपटहानां च धान्यानां सर्वतस्तथा ।। ३६
तथैवाभ्रपटानां च यवगोधूमयोरपि ।
रत्नानां सर्ववस्त्राणां लौहानामप्यशेषतः ॥ ३७
कलायमुद्रमाषाणां चणकानां तिलैः सह।
तथा च सर्वसस्यानां पांसुगोमययोरपि ॥ ३८
शणसर्जरसं भूर्ज जतु लाक्षा च टङ्कणम्।
राजा संचिनुयाद् दुर्गे यच्चान्यदपि किञ्चन ॥ ३९
कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा।
मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥ ४०
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक्।
कर्तव्यानि महाभाग यत्नेन पृथिवीक्षिता ॥ ४१
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ।। ४२
जीवकर्षभकाकोलमामलक्याटरूषकान् ।
शालपर्णी पृश्निपर्णी मुद्रद्मपर्णी तथैव च ॥ ४३
माषपर्णी च मेदे द्वे शारिवे द्वे बलात्रयम् ।
वीरा श्वसन्ती वृष्या च बृहती कण्टकारिका ॥ ४४
शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भ रेणुका।
मधुपर्णी विदार्ये द्वे महाक्षीरा महातपाः ।। ४५
धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः ।
पर्णी शताह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः ।। ४६
शुक्रातिशुक्रकाश्मर्यश्छत्रातिच्छत्रवीरणाः ।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥ ४७
सिंही च सहदेवी च विश्वेदेवाश्वरोधकम् ।
मधुकं पुष्पहंसाख्या शतपुष्या मधूलिका ॥ ४८
शतावरीमधूके च पिप्पलं तालमेव च।
आत्मगुप्ता कफलाख्या दार्विका राजशीर्षकी ॥ ४९
राजसर्षपधान्याकमृष्यप्रोक्ता तथोत्कटा।
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥ ५०
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपुष्पिका।
पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे ॥ ५१
कसेरुका तु काश्मीरी बिल्वशालूककेसरम् ।
तुषधान्यानि सर्वाणि शमी धान्यानि चैव हि ॥ ५२
क्षीरं क्षौद्रं तथा तक्रं तैलं मज्जा वसा घृतम् ।
नीपश्चारिष्टकक्षोडवातामसोमबाणकम् ॥५३
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ।
राजा संचिनुयात् सर्वं पुरे निरवशेषतः ॥ ५४
दाडिमाम्रातकौ चैव तिन्तिडीकाम्लवेतसम् ।
भव्यकर्कन्धुलकुचकरमर्दकरूषकम् ॥५५
बीजपूरककण्डूरे मालती राजबन्धुकम् ।
कोलकद्वयपर्णानि द्वयोराम्रातयोरपि ॥ ५६
पारावतं नागरकं प्राचीनारुकमेव च।
कपित्थामलकं चुक्रफलं दन्तशठस्य च ॥ ५७
जाम्बवं नवनीतं च सौवीरकरुषोदके ।
सुरासवं च मद्यानि मण्डतक्रदधीनि च ॥ ५८
शुक्लानि चैव सर्वाणि ज्ञेयमाम्लगणं द्विज।
एवमादीनि चान्यानि राजा संचिनुयात् पुरे ॥ ५९
सैन्धवोद्भिदपाठेयपाक्यसामुद्रलोमकम् ।
कुप्यसौवर्चलाविल्वं बालकेयं यवाह्वकम् ॥ ६०
औव क्षारं कालभस्म विज्ञेयो लवणो गणः ।
एवमादीनि चान्यानि राजा संचिनुयात् पुरे ॥ ६१
पिप्पली पिप्पलीमूलचव्यचित्रकनागरम् ।
कुबेरकं च मरिचं शिग्रुभल्लातसर्षपाः ॥ ६२
कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् ।
कारवी कुञ्चिका याज्या सुमुखा कालमालिका ॥ ६३
फणिज्झकोऽथ लशुनं भूस्तृणं सुरसं तथा।
कायस्था च वयःस्था च हरितालं मनःशिला ॥ ६४
अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा।
जया एरण्डकाण्डीरं शल्लकी हञ्जिका तथा ।। ६५
सर्वपित्तानि मूत्राणि प्रायो हरितकानि च।
संगतानि च मूलानि यटिश्चातिविषाणि च।
फलानि चैव हि तथा सूक्ष्मैला हिङ्गुपत्रिका ॥ ६६
एवमादीनि चान्यानि गणः कटुकसंज्ञितः ।
राजा संचिनुयाद् दुर्गे प्रयत्नेन नृपोत्तम ॥ ६७
मुस्तं चन्दनह्रीबेरकृतमालकदारवः ।
हरिद्रानलदोशीरनक्तमालकदम्बकम् ॥ ६८
दूर्वा पटोलकटुका दन्तीत्वक् पत्रकं वचा।
किराततिक्तभूतुम्बी विषा चातिविषा तथा ॥ ६९
तालीसपत्रतगरं सप्तपर्णविकङ्कताः ।
काकोदुम्बरिका दिव्यास्तथा चैव सुरोद्भवा ॥ ७०
षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका।
रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम् ॥ ७१
दुःस्पर्शा गुरुणी कामा श्यामाकं गन्धनाकुली।
रूपपर्णी व्याघ्घ्रनखं मञ्जिष्ठा चतुरङ्गुला ॥ ७२
रम्भा चैवाङ्कुरास्फीता तालास्फीता हरेणुका।
वेत्राग्रवेतसस्तुम्बी विषाणी लोध्रपुष्पिणी ॥ ७३
मालती करकृष्णाख्या वृश्चिका जीविता तथा ।
पर्णिका च गुडूची च स गणस्तिक्तसंज्ञकः ॥ ७४
एवमादीनि चान्यानि राजा संचिनुयात् पुरे।
अभयामलके चोभे तथैव च बिभीतकम् ॥ ७५
प्रियङ्गुधातकीपुष्पं मोचाख्या चार्जुनासनाः ।
अनन्ता स्त्री तुवरिका श्योणाकं कट्फलं तथा ।। ७६
भूर्जपत्रं शिलापत्रं पाटलापत्रलोमकम् ।
समङ्गात्रिवृतामूलकार्पासगैरिकाञ्जनम् ॥ ७७
विद्रुमं समधूच्छिष्टं कुम्भिका कुमुदोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशपा शमी ॥ ७८
प्रियालपीलुकासारिशिरीषाः पद्मकं तथा।
बिल्वोऽग्निमन्थः प्लक्षश्च श्यामाकं च बको धनम् ॥ ७९
राजादनं करीरं च धान्यकं प्रियकस्तथा।
कङ्कोलाशोकबदराः कदम्बखदिरद्वयम् ॥ ८०
एषां पत्राणि साराणि मूलानि कुसुमानि च।
एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥ ८१
प्रयत्नेन नृपश्रेष्ठ राजा संचिनुयात् पुरे।
कीटाश्च मारणे योग्या व्यङ्गतायां तथैव च ॥ ८२
वातधूमाम्बुमार्गाणां दूषणानि तथैव च।
धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥ ८३
विषाणां धारणं कार्य प्रयत्नेन महीभुजा ।
विचित्राश्चागदा धार्या विषस्य शमनास्तथा ।। ८४
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः ।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥ ८५
भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् ।
कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ॥ ८६
यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् ।
वणिग्जनैश्चावृतमावसेत दुर्गे सुषुप्तं नृपतिः सदैव ॥ ८७
इति श्रीमात्स्ये महापुराणे राजधर्मे दुर्गनिर्माणौषध्यादिसंचयकथनं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥ २१७॥
टिप्पणियाँ