मत्स्य पुराण दो सौ चौंतीसवाँ अध्याय
जलाशय जनित विकृतियाँ और उनकी शान्ति के उपाय
गर्ग उवाच
नगरादपसर्पन्ते समीपमुपयान्ति च।
नद्यो हृदप्रस्त्रवाणि विरसाश्च भवन्ति च ॥ १
गर्गजीने कहा- ब्रह्मन् ! जब नदियाँ, सरोवर या झरने नगरसे दूर हट जाते हैं या अत्यन्त समीप चले आते हैं, सूख जाते हैं, मलिन, कलुषित, संतप्त तथा फेनके समान जन्तुओंसे व्याप्त हो जाते हैं,।१
विवर्ण कलुषं तप्तं फेनवज्ञ्जन्तुसंकुलम् ।
स्नेहं क्षीरं सुरां रक्तं वहन्ते वाकुलोदकाः ॥ २
षण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् ।
जलाशया नदन्ते वा प्रज्वलन्ति कथञ्चन ॥ ३
विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च।
अखाते वा जलोत्पत्तिः सुसत्त्वा वा जलाशयाः ॥ ४
संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत्।
दिव्यमम्भोमयं सर्पिर्मधुतेलावसेचनम् ॥ ५
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥ ६
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विजभोजनार्थम् ।
गावश्च देयाः सितवस्त्रयुक्ता-स्तथोदकुम्भाः सलिलाघशान्त्यै ।। ७
इति श्रीमात्स्ये महापुराणेऽद्भुतशान्तौ सलिलाशयवैकृत्यं नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥
टिप्पणियाँ