मत्स्य पुराण एक सौ सत्तानबेवाँ अध्याय
महर्षि अत्रिके वंश का वर्णन
मत्स्य उवाच
अत्रिवंशसमुत्पन्नान् गोत्रकारान् निबोध मे।
कर्दमायनशाखेयास्तथा शारायणाश्च ये ॥ १
मत्स्यभगवान्ने कहा- राजेन्द्र ! अब मुझसे महर्षि अत्रिके वंशके उत्पन्न हुए कर्दमायन तथा शारायणशाखीय गोत्रकर्ता मुनियोंका वर्णन सुनिये। १
उद्दालकिः शौणकर्णिरथः शौक़तवश्च ये।
गौरग्रीवो गौरजिनस्तथा चैत्रायणाश्च ये ॥ २
अर्धपण्या वामरथ्या गोपनास्तकिबिन्दवः ।
कर्णजिह्वो हरप्रीतिलैंद्राणिः शाकलायनिः ॥ ३
तैलपश्च सवैलेयो अत्रिर्गोणीपतिस्तथा ।
जलदो भगपादश्च सौपुष्पिश्च महातपाः ॥ ४
छन्दोगेयस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ।
श्यावाश्वश्च तथात्रिश्च आर्चनानश एव च ॥ ५
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
दाक्षिर्बलिः पर्णविश्च ऊर्णनाभिः शिलार्दनिः ॥ ६
बीजवापी शिरीषश्च मौञ्जकेशो गविष्ठिरः ।
भलन्दनस्तथैतेषां त्र्यार्षेयाः प्रवरा मताः ॥ ७
अत्रिर्गविष्ठिरश्चैव तथा पूर्वातिथिः स्मृतः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ८
आत्रेयपुत्रिकापुत्रानत ऊर्ध्वं निबोध मे।
कालेयाश्च सवालेया वामरथ्यास्तथैव च ॥ ९
धात्रेयाश्चैव मैत्रेयास्त्र्यार्षेयाः परिकीर्तिताः ।
अत्रिश्च वामरध्यश्च पौत्रिश्चैव महानृषिः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १०
इत्यत्रिवंशप्रभवास्तवोक्ता महानुभावा नृप गोत्रकाराः ।
येषां तु परिकीर्तितेन नाम्ना पापं समग्रं पुरुषो जहाति ॥ १९
इति श्रीमात्स्ये महापुराणे प्रवरानुकीर्तनेऽत्रिवंशानुकीर्तनं नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७॥
इस प्रकार श्रीमत्स्यमहापुराणके प्रवरानुकीर्तनप्रसङ्गमें अत्रिवंशवर्णन नामक एक सौ सत्तानवेवाँ अध्याय सम्पूर्ण हुआ ॥ १९७॥
टिप्पणियाँ