नाभि कमल से ब्रह्मा का प्रादुर्भाव तथा उस कमल का साङ्गोपाङ्ग वर्णन | nabhi kamal se brama ka pradurbhav tatha us kamal ka sangopaang varnan
मत्स्य पुराण एक सौ उनहत्तरवाँ अध्याय
नाभि कमल से ब्रह्माका प्रादुर्भाव तथा उस कमल का साङ्गोपाङ्ग वर्णन
अथ योगवतां श्रेष्ठमसृजद् भूरितेजसम् ।
स्त्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम् ॥ १
मत्स्यभगवान्ने कहा- राजर्षे । तदनन्तर नारायणने अनेकों योजन विस्तारवाले उस स्वर्णमय कमलमें सम्पूर्ण लोकोंकी रचना करनेवाले ब्रह्माको उत्पन किया। १
यस्मिन् हिरण्मये पदो बहुयोजनविस्तृते।
सर्वतेजोगुणमयं पार्थिवैर्लक्षणैर्वृतम् ॥ २
तच्च पद्म पुराणज्ञाः पृथिवीरूपमुत्तमम् ।
नारायणसमुद्भूतं प्रवदन्ति महर्षयः ॥ ३
या पद्मा सा रसा देवी पृथिवी परिचक्ष्यते।
ये पद्मसारगुरवस्तान् दिव्यान् पर्वतान् विदुः ॥ ४
हिमवन्तं च मेरुं च नीलं निषधमेव च।
कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ॥ ५
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च।
उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ॥ ६
एते देवगणानां च सिद्धानां च महात्मनाम्।
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ॥ ७
एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रियाः ॥ ८
एभ्यो यत् स्त्रवते तोयं दिव्यामृतरसोपमम्।
दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ॥ ९
स्मृतानि यानि पद्मस्य केसराणि समंततः ।
असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ॥ १०
यानि पद्मस्य पर्णानि भूरीणि तु नराधिप।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥ ११
यान्यधोभागपर्णानि ते निवासास्तु भागशः ।
दैत्यानामुरगाणां च पतङ्गानां च पार्थिव ॥ १२
तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम्।
महापातककर्माणो मज्जन्ते यत्र मानवाः ॥ १३
पद्मस्यान्तरतो यत्तदेकार्णवगता मही।
प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ॥ १४
एवं नारायणस्यार्थे मही पुष्करसम्भवा।
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः ॥ १५
एतस्मात् कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः ।
याज्ञिकैर्वेदद्दृष्टान्तैर्यज्ञे पद्मविधिः स्मृतः ॥ १६
एवं भगवता तेन विश्वेषां धारणाविधिः ।
पर्वतानां नदीनां च हृदानां चैव निर्मितः ॥ १७
विभुस्तथैवाप्रतिमप्रभावःप्रभाकराभो वरुणासितद्युतिः ।
शनैः स्वयम्भूः शयनं सृजत्तदा जगन्मयं पद्मविधिं महार्णवे ॥ १८
इति श्रीमात्स्ये महापुराणे पद्योद्भवप्रादुर्भावे एकोनसप्तत्यधिकशततमोऽध्यायः ॥ १६९॥
इस प्रकार श्रीमत्स्यमहापुराणके पयोद्भवप्रादुर्भाव-प्रसङ्गमें एक सी उनहत्तरवाँ अध्याय सम्पूर्ण हुआ ॥ १६९॥
टिप्पणियाँ