मत्स्य पुराण दो सौ तिरसठवाँ अध्याय
शिव लिङ्ग के निर्माण की विधि
अथातः सम्प्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् ।
सुस्निग्धं च सुवर्ण च लिङ्गं कुर्याद् विचक्षणः ॥ १
सूतजी कहते हैं-ऋषियो। अब मैं लिङ्गके उत्तम लक्षणका वर्णन कर रहा हूँ। चतुर पुरुष अत्यन्त चिकने एवं श्रेष्ठ (बेत) रंगके शिवलिङ्गका निर्माण करे। १
प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते।
लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम् ॥ २
चतुरस्त्रे समे गर्ते ब्रह्मसूत्रं निपातयेत्।
वामेन ब्रह्मसूत्रस्य अर्चा वा लिङ्गमेव च ॥ ३
प्रागुत्तरेण लीनं तु दक्षिणापरमाश्रितम् ।
पुरस्यापरदिग्भागे पूर्वद्वारं प्रकल्पयेत् ॥ ४
पूर्वेण चापरे द्वारं माहेन्द्रं दक्षिणोत्तरम्।
द्वारं विभन्य पूर्व तु एकविंशतिभागिकम् ॥ ५
ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत्।
तस्यार्थं तु त्रिधा कृत्वा भागं चोत्तरतस्त्यजेत् ।। ६
एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्वानं प्रकल्पयेत् ।
भागार्थेन तु यल्लिङ्ग कार्य तदिह शस्यते ॥ ७
पञ्चभागविभक्तेषु त्रिभागो ज्येष्ठ उच्यते ।
भाजिते नवधा गर्ने मध्यमं पाञ्चभागिकम् ॥ ८
एकस्मिन्नेव नवधा गर्ने लिङ्गानि कारयेत्।
समसूत्रं विभज्याथ नवधा गर्भभाजितम् ॥ ९
ज्येष्ठमर्थ कनीयोऽर्थ तथा मध्यममध्यमम् ।
एवं गर्भः समाख्यातस्त्रिभिर्भागैर्विभाजयेत् ॥ १०
ज्येष्ठं तु त्रिविधं ज्ञेयं मध्यमं त्रिविधं तथा।
कनीयस्त्रिविधं तद्वल्लिङ्गभेदा नवैव तु ॥११
नाभ्यर्थमष्टभागेन विभज्याथ समं बुधैः।
भागत्रयं परित्यज्य विष्कम्भं चतुरस्रकम् ॥ १२
अष्टास्रं मध्यमं ज्ञेयं भागं लिङ्गस्य वै ध्रुवम्।
विकीर्णे चेत् ततो गृह्य कोणाभ्यां लाञ्छयेद् बुधः ।। १३
अष्टास्त्रं कारयेत् तद्वदूर्ध्वमप्येवमेव तु।
षोडशास्त्रीकृतं पश्चाद् वर्तुलं कारयेत् ततः ॥ १४
आयामं तस्य देवस्य नाभ्यां वै कुण्डलीकृतम्।
माहेश्वरं त्रिधार्ग तु ऊर्ध्ववृत्तं त्ववस्थितम् ॥ १५
अधस्ताद् ब्रह्मभागस्तु चतुरस्रो विधीयते।
अष्टाग्रो वैष्णवो भागो मध्यस्तस्य उदाहृतः ॥ १६
एवं प्रमाणसंयुक्तं लिङ्गं वृद्धिप्रदं भवेत्।
तथान्यदपि वक्ष्यामि गर्भमार्न प्रमाणतः ॥ १७
गर्भमानप्रमाणेन यल्लिङ्गमुचितं भवेत्।
चतुर्धा तद् विभज्याश्च विष्कम्भं तु प्रकल्पयेत् ॥ १८
देवतायतनं सूत्रं भागत्रयविकल्पितम् ।
अधस्ताच्चतुरस्रं तु अष्टात्रं मध्यभागतः ॥ १९
पूज्यभागस्ततोऽर्थ तु नाभिभागस्तथोच्यते।
आयामे यद् भवेत् सूत्रं नाहस्य चतुररुखके ॥ २०
चतुरस्त्रं परित्यज्य अष्टास्त्रस्य तु यद् भवेत्।
तस्याप्यर्थं परित्यज्य ततो वृत्तं तु कारयेत् ॥ २१
शिरः प्रदक्षिणं तस्य संक्षिप्तं मूलतो न्यसेत् ।
भ्रष्ठपूर्ण भवेल्लिङ्गमधस्ताद् विपुलं च यत् ॥ २२
शिरसा च सदा निम्नं मनोज्ञं लक्षणान्वितम् ।
सौम्यं तु दृश्यते यत्तु लिङ्गं तद् वृद्धिदं भवेत् ॥ २३
अथ मूले च मध्ये तु प्रमाणे सर्वतः समम्।
एवंविधं तु यल्लिङ्ग भवेत् तत् सार्वकामिकम् ॥ २४
अन्यथा यद् भवेल्लिङ्ग तदसत् सम्प्रचक्षते।
एवं रत्नमयं कुर्यात् स्फाटिकं पार्थिवं तथा।
शुभं दारुमयं चापि यद् वा मनसि रोचते ॥ २५
इति श्रीमात्स्ये महापुराणे देवतार्थानुकीर्तनं नाम त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६३॥
इस प्रकार श्रीमत्स्यमहापुराणमें देवतार्थानुकीर्तन नामक दो सौ तिरसठवाँ अध्याय सम्पूर्ण हुआ ॥ २६३॥
टिप्पणियाँ