अग्नि पुराण - सत्तानबेवाँ अध्याय ! Agni Purana - 97 Chapter !

अग्नि पुराण - सत्तानबेवाँ अध्याय ! Agni Purana - 97 Chapter !

अग्नि पुराण सत्तानबेवाँ अध्याय- शिव-प्रतिष्ठाकी विधिका वर्णन ! शिवलिङ्गप्रतिष्ठाविधि !

अग्नि पुराण - सत्तानबेवाँ अध्याय ! Agni Purana - 97 Chapter !

अग्नि पुराण - सत्तानबेवाँ अध्याय ! Agni Purana - 97 Chapter !

ईश्वर उवाच
प्रातर् नित्पविधिं कृत्वा द्वारपालप्रपूजनं ।
प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत् ॥ १॥

दिक्पतींश् च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं ।
अष्टमुष्टिकया लिङ्गं वह्निं सन्पर्प्य च क्रमात् ॥ २॥

शिवाज्ञातस्ततो गच्छेत् प्रासादं शस्त्रमुच्चरन् ।
तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना ॥ ३॥

न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया ।
तस्मान् मध्यं परित्यज्य यवार्धेन यवेन वा ॥ ४॥

किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् ।
मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं ॥ ५॥

सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां ।
अथवानेन मन्त्रेण शिवस्यासनरूपिणीं ॥ ६॥

ॐ नमो व्यापिनि भगवति स्थिरे ऽचले ध्रुवे ।
ह्रं लं ह्रीं स्वाहा
त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं ॥ ७॥

इत्युक्त्वा च समभ्यर्च्य6 निरुध्याद्रौद्रमुद्रया  ।
वज्रादीनि च रत्नानि तथोशीरादिकौषधीः ॥ ८॥

लोहान् हेमादिकांस्यन्तान् हरितालादिकांस् तथा ।
धान्यप्रभृतिशस्त्रांश् च पूर्वमुक्ताननुक्रमात् ॥ ९॥

प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान् ।
भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः ॥ १०॥

पूर्वादिषु च गर्तेषु न्यसेदेकैकशः क्रमात् ।
हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं  ॥११॥

सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा ।
प्रक्षिपेन्मध्यगर्तादौ1 यद्वा मेरुं सुवर्णजं ॥ १२॥

मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं ।
पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां ॥ १३॥

सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत् ।
स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं ॥ १४॥

सुवर्णं कृशरायुक्तं पद्मनालं ततो न्यसेत् ।
देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं ॥ १५॥

प्रकल्प्य पायसेनाथ लिप्त्वा7 गुग्गुलुनाथवा ।
श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं ॥ १६॥

दिक्पतिभ्यो बलिं दत्वा समाचान्तो ऽथ देशिकः ।
शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये ॥ १७॥

शस्त्रेण वा शतं सम्यग् जुहुयात् पूर्णया सह ।
एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः ॥ १८॥

समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः ।
गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश् च दिशि स्थितैः ॥ १९॥

चतुर्भिः सह कर्तव्या देवयज्ञस्य पृष्ठतः ।
प्रासादादि1 परिभ्रम्य भद्राख्यद्वारसम्मुखं ॥ २०॥

लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत् ।
द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला ॥ २१॥

द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते ।
वर्जयन्6 द्वारसंस्पर्शं द्वारेणैव महेश्वरं ॥ २२॥

देवगृहसमारम्भे कोणेनापि प्रवेशयेत् ।
अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गे ऽपि सर्वतः ॥ २३॥

गृहे प्रवेशनं द्वारे लोकैर् अपि समीरितं ।
अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं ॥ २४॥

अथ पीठे8 च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं ।
तूर्यमङ्गलनिर्घेषैर् दूर्वाक्षतसमन्वितं ॥ २५॥

समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् ।
अपनीय घटं श्वभ्राद् देशिको मूर्तिपैः सह ॥ २६॥

मन्त्रं सन्धारयित्वा तु विलिप्तं कुङ्कुमादिभिः ।
शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं ॥ २७॥

लयान्तं मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत् ।
अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च ॥ २८॥

अर्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनं ।
विधाय सीसकं नाभिदीर्घाभिः सुसमाहितः ॥ २९॥

श्वभ्रं वालुकयापुर्य ब्रूयात् स्थिरीभवेति च ।
ततो लिङ्गे स्थिरीभूते ध्यात्वा सकलरूपिणं ॥ ३०॥

मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं न्यसेत् ।
स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत् ॥ ३१॥

तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं ।
सव्ये स्थाने च वक्रे च चलिते स्फुटितेपि वा ॥ ३२॥

जुहुयान् मूलमन्त्रेण बहुरूपेण वा शतं ।
कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत् ॥ ३३॥

युक्तं न्यासादिभिर्लिङ्गं कुर्वन्नेवं न दोषभाक् ।
पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं ॥ ३४॥

गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् ।
सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं ॥ ३५॥

ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः ।
संस्थाप्य कलशैर् अन्यैस्तद्वत् पञ्चामृतादिभिः ॥ ३६॥

विलिप्य चन्दनाद्यैश् च  सम्पूज्य जगदीश्वरं ।
उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया ॥ ३७॥

ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं ।
कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ ॥ ३८॥

ज्ञानी लिङ्गे क्रियापीठे विनास्य स्नापयेत्ततः ।
गन्धैर् विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत् ॥ ३९॥

स्रग्धूपदीपनैवेद्यैर् हृदयेन फलानि च ।
विनिवेद्य यथाशक्ति समाचम्य महेश्वरं ॥ ४०॥

दत्वार्घं च जपं कृत्वा निवेद्य वरदे करे ।
चन्द्रार्कतारकं यावन् मन्त्रेण शैवमूर्तिपैः ॥ ४१॥

स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे ।
प्रणम्येव वहिर्गत्वा हृदा वा प्रणवेन वा ॥ ४२॥

संस्थाप्य वृषभं पश्चात् पूर्ववद्वलिमाचरेत् ।
न्यूनादिदोषमोषाय ततो मृत्युजिता शतं ॥ ४३॥

शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च ।
ज्ञानाज्ञानकृतं यच्च तत् पूरय महाविभो ॥४४॥

हिरण्यपशुभूम्यादि गीतवाद्यादिहेतवे ।
अम्बिकेशाय तद् भक्त्या शक्त्या सर्वं निवेदयेत् ॥ ४५॥

दानं महोत्सवं पश्चात् कुर्याद्दिनचतुष्टयं ।
त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन् मूर्तिपैः सह ॥ ४६॥

चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा ।
निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम् ॥ ४७॥

दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः ।
निर्माल्यापनयं कृत्वा स्नापयित्वा तु पूजयेत् ॥ ४८॥

पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः ।
विहाय लिङ्गचैतन्यं कुर्यात् स्थाणुविसर्जनं ॥ ४९॥

असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं ।
आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता ॥ ५०॥

प्रतिष्ठान्ते क्वचित् प्रोक्तं स्थिराद्याहुतिसप्तकं ।
स्थिरस् तथाप्रमेयश्चानादिबोधस्तथैव च ॥५१॥

नित्योथ सर्वगश् चैवाविनाशी दृष्ट एव च ।
एते गुणा महेशस्य सन्निधानाय कीर्तिताः ॥ ५२॥

ॐ नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः ।
एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत् ॥ ५३॥

कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं ।
संस्नाप्य तद् द्वितीयन्तु कर्तृस्नानाय धारयेत् ॥ ५४॥

दत्वा बलिं समाचम्य वहिर्गच्छेत् शिवाज्ञया ।
जगतीवाह्यतश् चण्डमैशान्यान्दिशि मन्दिरे ॥५५॥

धामगर्भप्रमाणे च सुपीठे कल्पितासने ।
पूर्ववन् न्यासहोमादि विधाय ध्यानपूर्वकं ॥५६॥

संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः पूजयेत्ततः ।
अङ्गानि पूर्वयुक्तानि ब्रह्माणी त्वर्चना यथा ॥ ५७॥

एवं सद्योजाताय ॐ ह्रूं फट्  नमः । ॐ विं
वामदेवाय ह्रूं फट् नमः । ॐ बुं अघोराय ह्रूं
फट् नमः । ॐ तत्पुरुषाय वौमीशानाय च ह्रूं फट् ॥
जपं विवेद्य सन्तर्प्य विज्ञाप्य नतिपूर्वकं ।
देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव ॥ ५८॥

न्यूनाधिकञ्च यत्किञ्चित् कृतमज्ञानतो मया ।
तवत्प्रसादेन चण्डेश तत् सर्वं परिपूरय ॥ ५९॥

वाणलिङ्गे वाणरोहे6 सिद्धलिङ्गे स्वयम्भुवि ।
प्रतिमासु च सर्वासु न चण्डो ऽधिकृतो भवेत् ॥६०॥

अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि ।
अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया ॥ ६१॥

पूर्वस्थापितकुम्भे न स्नापयेत् स्नापकः स्वयं ।
स्थापकं यजमानोपि सम्पूज्य च महेशवत् ॥ ६२॥

वित्तशाठ्यं विना दद्याद् भूहिरण्यादि दक्षिणां ।
मूर्तिमान् विधिवत् पश्चात् जापकान् ब्राह्मणांस् तथा ॥ ६३॥

देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि भोजयेत् ।
यदत्र सम्मुखीभावे स्वेदितो भगवन्मया ॥ ६४॥

क्षमस्व नाथ तत् सर्वं कारुण्याम्बुनिधं मम ।
इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः ॥ ६५॥

प्रतिष्ठापुण्यसद्भावं स्फुरत्तारकसप्रभं ।
कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् ॥६६॥

ततः पाशपतोपेतं प्रणम्य परमेश्वरं ।
ततो ऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत् ॥ ६७॥

स्थातव्यं भवता तावद् यावत् सन्निहितो हरः ।
गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं ॥ ६८॥

सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं ।
अन्ये देवादयः स्थाप्या मन्त्रैर् आगमसम्भवैः ॥ ६९॥

आदिवर्णस्य भेदाद्वा सुतत्त्वव्याप्तिभाविताः ।
साध्य प्रमुखदेवाश् च सरिदोषधयस् तथा ॥ ७०॥

क्षेत्रपाः किन्नराद्याश् च पृथिवीतत्त्वमाश्रिताः ।
स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित् ॥ ७१॥

भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः ।
अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं ॥ ७२॥

तन्मात्रादिप्रधानान्तं पदमेतत् त्रिकं हरेः ।
नाट्येशगणमातॄणां यक्षेशशरजन्मनां ॥ ७३॥

अण्डजाः शुद्धविद्यान्तं पदं गणपतेस् तथा ।
मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां ॥ ७४॥

पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं ।
कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं॥ ७५॥

प्रतिक्षिपेत् पीठगर्ते च पञ्चब्रह्मशिलां विना ।
षड्भिर्विभाजिते गर्ते त्यक्त्वा भावञ्च पृष्ठतः ॥ ७६॥

स्थापनं पञ्चमांशे च यदि वा वसुभाजिते ।
स्थापनं सप्तमे भागे प्रतिमासु सुखावहं ॥ ७७॥

धारणाभिर्विशुद्धिः स्यात् स्थापने लेपचित्रयोः ।
स्नानादि मानसन्तत्र शिलारत्नादिवेशनं ॥ ७८॥

नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं ।
पूजा निरम्बुभिः पुष्पैर् यथा चित्रं न दुष्यति ॥ ७९॥

विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते ।
पञ्चभिर्वा त्रिभिर्वापि पृथक् कुर्याद् विभाजिते ॥०८०॥

भगत्रयेण भागांशो भवेद्भागद्वयेन वा ।
स्वपीठेष्वपि तद्वत् स्याल्लिङ्गेषु तत्त्वभेदतः ॥ ८१॥

सृष्टिमन्त्रेण संस्कारो विधिवत् स्फाटिकादिषु ।
किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं ॥ ८२॥

योजनं पिण्डिकायाश् च मनसा परिकल्पयेत् ।
स्वयम्भूवाणलिङ्गादौ संस्कृतौ नियमो न हि ॥ ८३॥

स्नापनं संहितामन्त्रैर् न्यासं होमञ्च कारयेत् ।
नदीसमुद्ररोहाणां स्थापनं पूर्ववन् मतं ॥८४॥

ऐहिकम् मृण्मयं लिङ्गं पिष्टकादि च तक्षणात् ।
कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः ॥ ८५॥

समादाय ततो मन्त्रानात्मानं सन्निधाय च ।
तज्जले प्रक्षिपेल्लिङ्गं वत्सरात् कामदं भवेत् ॥०८६॥

विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् ।
इत्य् आग्नेये महापुराणे शिवप्रतिष्ठा8 नाम सप्तनवतितमो ऽध्यायः ॥

अग्नि पुराण - सत्तानबेवाँ अध्याय !-हिन्दी मे -Agni Purana - 97 Chapter !-In Hindi

भगवान् शिव कहते हैं - स्कन्द ! प्रातः काल। नित्य-कर्मके अनन्तर द्वार-देवताओंका पूजन करके मण्डपमें प्रवेश करे। पूर्वोक्त विधिसे देहशुद्धि आदिका अनुष्ठान करे। दिक्पालोंका, शिव कलशका तथा वार्धानी (जलपात्र) का पूजन करके अष्टपुष्पिकाद्वारा शिवलिङ्गकी अर्चना करे और क्रमशः आहुति दे, अग्निदेवको तृप्त करे। तदनन्तर शिवकी आज्ञा ले 'अस्त्राय फट्।' का उच्चारण करते हुए मन्दिरमें प्रवेश करे तथा 'अस्त्राय हुं फट्।' बोलकर वहाँक विघ्नोंका अपसारण करे ॥ १-३॥ शिलाके ठीक मध्यभागमें शिवलिङ्गकी स्थापना न करे; क्योंकि वैसा करनेपर वेध-दोषकी आशङ्का रहती है। इसलिये मध्यभागको त्यागकर एक या आधा जौ किंचित् ईशान भागका आश्रय ले आधारशिलामें शिवलिङ्गकी स्थापना करे। मूल मन्त्रका उच्चारण करते हुए उस (अनन्त) नाम-धारिणी, सर्वाधारस्वरूपिणी, सर्वव्यापिनी शिलाको सृष्टियोगद्वारा अविचल भावसे स्थापित करे। अथवा निम्नाङ्कित मन्त्रसे शिवकी आसनस्वरूपा उस शिलाकी पूजा करे-'ॐ नमो व्यापिनि भगवति स्थिरेऽचले ध्रुवे ह्रीं लं ह्रीं स्वाहा।' पूजनसे पहले यों कहे- 'आधारशक्ति- स्वरूपिणि शिले ! तुम्हें भगवान् शिवकी आज्ञासे यहाँ नित्य-निरन्तर स्थिरतापूर्वक स्थित रहना चाहिये।'- ऐसा कहकर पूजन करनेके पश्चात् अवरोधिनी-मुद्रासे शिलाको अवरुद्ध (स्थिरतापूर्वक स्थापित) कर दे ॥४-८॥ हीरे आदि रत्न, उशीर (खश) आदि ओषधियाँ, लौह और सुवर्ण, कांस्य आदि धातु, हरिताल, आदि, धान आदिके पौधे तथा पूर्वकथित अन्य वस्तुएँ क्रमशः एकत्र करे और मन-ही-मन भावना करे कि 'ये सब वस्तुएँ कान्ति, आरोग्य, देह, वीर्य और शक्तिस्वरूप हैं। इस प्रकार एकाग्रचित्तसे भावना करके लोकपाल और शिवसम्बन्धी मन्त्रोंद्वारा पूर्वादि कुण्डोंमें इन  वस्तुओंमेंसे एक-एकको क्रमशः डाले। सोने अथवा ताँबेके बने हुए कछुए या वृषभको द्वारके सम्मुख रखकर नदीके किनारेकी या पर्वतके शिखरकी मिट्टीसे युक्त करे और उसे बीचके कुण्ड आदिमें डाल दे। अथवा सुवर्णनिर्मित मेरुको मधूक, अक्षत और अञ्जनसे युक्त करके उसमें डाले अथवा सोने या चाँदीकी बनी हुई पृथ्वीको सम्पूर्ण बीजों और सुवर्णसे संयुक्त करके उस मध्यम कुण्डमें डाले। अथवा सोने, चाँदी या सब प्रकारके लोहसे निर्मित सुवर्णमय केसरोंसे युक्त कमल या अनन्त (शेषनाग) की मूर्तिको उसमें छोड़े ॥ ९-१५॥ शक्तिसे लेकर मूर्ति-पर्यन्त अथवा शक्तिसे लेकर शक्ति-पर्यन्त तत्त्वका देवाधिदेव महादेवके लिये आसन निर्मित करके उसमें खीर या गुग्गुलका लेप करे। तत्पश्चात् वस्त्रसे गर्तको आच्छादित करके कवच और अस्त्र-मन्त्रद्वारा उसकी रक्षा करे। फिर दिक्पालोंको बलि देकर आचार्य आचमन करे। शिला और गर्तके सङ्ग- दोषकी निवृत्तिके लिये शिवमन्त्र से अथवा अस्त्र-मन्त्रसे विधिपूर्वक सौ आहुतियाँ दे। साथ ही पूर्णाहुति भी करे। वास्तु देवताओंको एक एक आहुति देकर तृप्त करनेके पश्चात् हृदय- मन्त्रसे भगवान्को उठाकर मङ्गल-वाद्य और मङ्गल-पाठ आदिके साथ ले आवे ॥ १६-१९ ॥
गुरु भगवान्के आगे-आगे चले और चार दिशाओंमें स्थित चार मूर्तिपालोंके साथ यजमान स्वयं भगवान्की सवारीके पीछे-पीछे चले। मन्दिर आदिके चारों ओर घुमाकर शिवलिङ्गको भद्र- द्वारके सम्मुख नहलावे और अर्घ्य देकर उसे मन्दिरके भीतर ले जाय। खुले द्वारसे अथवा द्वारके लिये निश्चित स्थानसे शिवलिङ्गको मन्दिरमें जाय। इन सबके अभावमें द्वार बंद करनेवाली शिलासे शून्य-मार्गसे अथवा उस शिलाके ऊपरसे होकर मन्दिरमें प्रवेशका विधान है। दरवाजेसे ही महेश्वरको मन्दिरमें ले जाय, परंतु उनका द्वारसे स्पर्श न होने दे। यदि देवालयका समारम्भ हो रहा हो तो किसी कोणसे भी शिवलिङ्गको मन्दिरके भीतर प्रविष्ट कराया जा सकता है। व्यक्त अथवा स्थूल शिवलिङ्गके मन्दिर प्रवेशके लिये सर्वत्र यही विधि जाननी चाहिये। घरमें प्रवेशका मार्ग द्वार ही है, इसका साधारण लोगोंको भी प्रत्यक्ष अनुभव है। यदि बिना द्वारके घरमें प्रवेश किया जाय तो गोत्रका नाश होता है-ऐसी मान्यता है ॥ २०-२४ ॥
तदनन्तर पीठपर, द्वारके सामने शिवलिङ्गको स्थापित करके नाना प्रकारके वाद्यों तथा मङ्गलसूचक ध्वनियोंके साथ उसपर दूर्वा और अक्षत चढ़ावे तथा 'समुत्तिष्ठ नमः' - ऐसा कहकर महापाशुपत- मन्त्रका पाठ करे। इसके बाद आचार्य गर्तमें रखे हुए घटको वहाँसे हटाकर मूर्तिपालकोंके साथ यन्त्रमें स्थापित करावे और उसमें कुङ्कुम आदिका लेप करके, शक्ति और शक्तिमान्की एकताका चिन्तन करते हुए लयान्त मूल मन्त्रका उच्चारण करके, उस आलम्बनलक्षित घटका स्पर्शपूर्वक पुनः गर्तमें ही स्थापना करा दे। ब्रह्मभागके एक अंश, दो अंश, आधा अंश अथवा आठवें अंशतक या सम्पूर्ण ब्रह्मभागका ही गर्तमें प्रवेश करावे। फिर नाभिपर्यन्त दीर्घाओंके साथ शीशेका आवरण देकर, एकाग्रचित्त हो, नीचेके गर्तको बालूसे पाट दे और कहे - ' भगवन्! आप सुस्थिर हो जाइये ' ॥ २५-३० ॥
तदनन्तर लिङ्गके स्थिर हो जानेपर सकल (सावयव) रूपवाले परमेश्वरका ध्यान करके, शक्त्यन्त-मूल-मन्त्रका उच्चारण करते हुए, शिवलिङ्गके स्पर्शपूर्वक उसमें निष्कलीकरण-न्यास करे। जब शिवलिङ्गकी स्थापना हो रही हो, उस समय जिस-जिस दिशाका आश्रय ले, उस-उस दिशाके दिक्पाल-सम्बन्धी मन्त्रका उच्चारण करके पूर्णाहुति पर्यन्त होम करे और दक्षिणा दे। यदि शिवलिङ्गसे शब्द प्रकट हो अथवा उसका मुख्यभाग हिले या फट-फूट जाय तो मूल मन्त्रसे या 'बहुरूप' मन्त्रद्वारा सौ आहुतियाँ दे। इसी प्रकार अन्य दोष प्राप्त होनेपर शिवशास्त्रोक्त शान्ति करे। उक्त विधिसे यदि शिवलिंगमें न्यासका विधान किया जाय तो कर्ता दोषका भागी नहीं होता। तदनन्तर लक्षणस्पर्शरूप पीठबन्ध करके गौरीमन्त्रसे उसका लय करे। फिर पिण्डीमें सृष्टिन्यास करे ॥ ३१-३५ ॥
लिङ्गके पार्श्वभागमें जो संधि (छिद्र) हो, उसको बालू एवं वज्रलेपसे भर दे। तत्पश्चात् गुरु मूर्तिपालकोंके साथ शान्तिकलशके आधे जलसे शिवलिङ्गको नहलाकर, अन्य कलशों तथा पञ्चामृत आदिसे भी अभिषिक्त करे। फिर चन्दन आदिका लेप लगा, जगदीश्वर शिवकी पूजा करके, उमा- महेश्वर-मन्त्रोंद्वारा लिङ्गमुद्रासे उन दोनोंका स्पर्श करे। इसके बाद छहों अध्वाओंके न्यासपूर्वक त्रितत्त्वन्यास करके, मूर्तिन्यास, दिक्पालन्यास, अङ्गन्यास एवं ब्रह्मन्यासपूर्वक ज्ञानाशक्तिका लिङ्गमें तथा क्रियाशक्तिका पीठमें न्यास करनेके पश्चात् स्नान करावे ॥ ३६-३९ ॥
गन्धका लेपन करके धूप दे और व्यापकरूपसे शिवका न्यास करे। हृदय मन्त्रद्वारा पुष्पमाला, धूप, दीप, नैवेद्य और फल निवेदन करे। यथाशक्ति इन वस्तुओंको निवेदित करनेके पश्चात् महादेवजीको आचमन करावे। फिर विशेषार्ध्य देकर मन्त्र जपे और भगवान्के वरदायक हाथमें उस जपको अर्पित करनेके पश्चात् इस प्रकार कहे- 'हे नाथ! जबतक चन्द्रमा, सूर्य और तारोंकी स्थिति रहे, तबतक मूर्तीशों तथा मूर्तिपालकोंके साथ आप स्वेच्छापूर्वक ही इस मन्दिरमें सदा स्थित रहें।' ऐसा कहकर प्रणाम करनेके पश्चात् बाहर जाय और हृदय या प्रणव- मन्त्रसे वृषभ (नन्दिकेश्वर) की स्थापना करके, फिर पूर्ववत् बलि निवेदन करे। तत्पश्चात् न्यूनता आदि दोषके निराकरणके लिये मृत्युञ्जय- मन्त्रसे सौ बार समिधाओंकी आहुति दे एवं शान्तिके लिये खीरसे होम करे ॥ ४०-४४ ॥
इसके बाद यों प्रार्थना करे - ' महाविभो ! ज्ञान अथवा अज्ञानपूर्वक कर्ममें जो त्रुटि रह गयी है, उसे आप पूर्ण करें।' यों कहकर यथाशक्ति सुवर्ण, पशु एवं भूमि आदि सम्पत्ति तथा गीत- वाद्य आदि उत्सव, सर्वकारणभूत अम्बिकानाथ शिवको भक्तिपूर्वक समर्पित करे। तदनन्तर चार दिनोंतक लगातार दान एवं महान् उत्सव करे। मन्त्रज्ञ आचार्यको चाहिये कि उत्सवके इन चार दिनोंमेंसे तीन दिनोंतक तीनों समय मूर्तिपालकोंके साथ होम करे और चौथे दिन पूर्णाहुति देकर, बहुरूप सम्बन्धी मन्त्रसे चरु निवेदित करे। सभी कुण्डोंमें सम्पाताहुतिसे शोधित चरु अर्पित करना चाहिये। उक्त चार दिनोंतक निर्माल्य न हटावे। चौथे दिनके बाद निर्माल्य हटाकर, स्नान करानेके पश्चात् पूजन करे। सामान्य लिङ्गोंमें साधारण मन्त्रोंद्वारा पूजा करनी चाहिये। लिङ्ग-चैतन्यको छोड़कर स्थाणु-विसर्जन करे। आसाधारण | लिङ्गोंमें 'क्षमस्व' इत्यादि कहकर विसर्जन करे ॥ ४५-५० ॥  आवाहन, अभिव्यक्ति, विसर्ग, शक्तिरूपता और प्रतिष्ठा- ये पाँच बातें मुख्य हैं। कहीं-कहीं प्रतिष्ठाके अन्तमें स्थिरता आदि गुणोंकी सिद्धिके लिये सात आहुतियाँ देनेका विधान है। भगवान् शिव स्थिर, अप्रमेय, अनादि, बोधस्वरूप, नित्य, सर्वव्यापी, अविनाशी एवं आत्मतृप्त हैं। महेश्वरकी संनिधि या उपस्थितिके लिये ये गुण कहे गये हैं। आहुतियोंका क्रम इस प्रकार है-'ॐ नमः शिवाय स्थिरो भव नमः स्वाहा।' - इत्यादि। इस प्रकार इस कार्यका सम्पादन करके शिव-कलशकी भाँति दो कलश और तैयार करे। उनमेंसे एक कलशके जलसे भगवान् शिवको स्नान कराकर, दूसरा यजमानके स्नानके लिये रखे। (कहीं-कहीं 'कर्मस्थानाय धारयेत्।' ऐसा पाठ है। इसके अनुसार दूसरे कलशका जल कर्मानुष्ठानके लिये स्थापित करे, यह अर्थ समझना चाहिये।) इसके बाद बलि देकर आचमन करनेके पश्चात् शिवकी आज्ञासे बाहर जाय ॥ ५१-५५॥
याग-मण्डपके बाहर मन्दिरके ईशानकोणमें चण्डका स्थापन-पूजन करे। फिर मण्डपमें धामके गर्भके बराबर उत्तम पीठपर आसनकी कल्पना करके, पूर्ववत् न्यास, होम, आदिका अनुष्ठान करे। फिर ध्यानपूर्वक 'सद्योजात' आदिकी स्थापना करके, वहाँ ब्रह्माङ्गोंद्वारा विधिवत् पूजन करे। ब्रह्माङ्गोंका वर्णन पहले किया जा चुका है। अब जिस प्रकार मन्त्रद्वारा पूजन किया जाता है, उसे सुनो-'ॐ वं सद्योजाताय हूं फट् नमः। ॐ विं वामदेवाय हूं फट् नमः । ॐ बुं अघोराय हूं फट् नमः।' इसी प्रकार 'ॐ वें तत्पुरुषाय हूं फट् नमः।' तथा 'ॐ वों ईशानाय हूं फट् नमः।'- ये मन्त्र हैं ॥ ५६-५९॥ इस प्रकार जप निवेदन करके, तर्पण करनेके पश्चात्, स्तुतिपूर्वक विज्ञापना देकर चण्डेशसे प्रार्थना करे- 'हे चण्डेश! जबतक श्रीमहादेवजी यहाँ विराजमान हैं, तबतक तुम भी इसके समीप विद्यमान रहो। मैंने अज्ञानवश जो कुछ भी न्यूनाधिक कर्म किया है, वह सब तुम्हारे कृपाप्रसादसे पूर्ण हो जाय। तुम स्वयं उसे पूर्ण करो।' जहाँ बाणलिङ्ग (नर्मदेश्वर) हो, जहाँ चल लोहमय (सुवर्णमय) लिङ्ग हो, जहाँ सिद्धलिङ्ग (ज्योतिर्लिङ्गादि) तथा स्वयम्भूलिङ्ग हों, वहाँ और सब प्रकारकी प्रतिमाओंपर चढ़े हुए निर्माल्यमें चण्डेशका अधिकार नहीं होता है। अद्वैतभावनायुक्त यजमानपर तथा स्थण्डिलेश- विधिमें भी चण्डेशका अधिकार नहीं है। चण्डका पूजन करके स्स्रापक (अभिषेक करनेवाला गुरु) स्वयं ही पत्नी और पुत्रसहित यजमानको पूर्व-स्थापित कलशके जलसे स्नान करावे। यजमान भी स्त्रापक गुरुका महेश्वरकी भाँति पूजन करके, धनकी कंजूसी छोड़कर, उन्हें भूमि और सुवर्ण आदिकी दक्षिणा दे ॥ ६०-६४३ ॥
तत्पश्चात् मूर्तिपालकों तथा जपकर्ता ब्राह्मणोंका, ज्योतिषीका और शिल्पीका भी भलीभाँति विधिवत् पूजन करके दीनों और अनाथों आदिको भोजन करावे। इसके बाद यजमान गुरुसे इस प्रकार प्रार्थना करे- 'हे भगवन्! यहाँ सम्मुख करनेके लिये मैंने आपको जो कष्ट दिया है, वह सब आप क्षमा करें; क्योंकि नाथ! आप करुणाके सागर हैं, अतः मेरा सारा अपराध भूल जायँ।'इस प्रकार प्रार्थना करनेवाले यजमानको सद्गुरु | अपने हाथसे कुश, पुष्प और अक्षतपुञ्जके साथ प्रतिष्ठाजनित पुण्यकी सत्ता समर्पित करे, जिसका स्वरूप चमकते हुए तारोंके समान दीप्तिमान् है ॥ ६५- ६८ ॥ तदनन्तर, पाशुपत मन्त्रका जप करके, परमेश्वरको प्रणाम करनेके अनन्तर, भूतगणोंको बलि अर्पित करे और इस प्रकार उन सबको समीप लाकर यों निवेदन करे -' आपलोगोंको तबतक यहाँ स्थित रहना चाहिये, जबतक महादेवजी यहाँ विराजमान हैं।' वस्त्र आदिसे युक्त याग मण्डपको गुरु अपने अधिकारमें ले ले तथा समस्त उपकरणोंसे युक्त स्नापन-मण्डपको शिल्पी ग्रहण करे। अन्य देवता आदिकी आगमोक्त मन्त्रोंद्वारा स्थापना करनी चाहिये। सूर्यके वर्णभेदके अनुसार उन देवता आदिके वर्णभेद समझने चाहिये। वे अपने तैजस-तत्वमें व्याप्त हैं-ऐसी भावना करनी चाहिये। साध्य आदि देवता, सरिताएँ, ओषधियाँ, क्षेत्रपाल और किंनर आदि- ये सब पृथ्वीतत्त्वके आश्रित हैं। कहीं-कहीं सरस्वती, लक्ष्मी और नदियोंका स्थान जलमें बताया गया है ॥ ६९-७३ ॥ भुवनाधिपतियोंका स्थान वही है, जहाँ उनकी स्थिति है। अहंकार, बुद्धि और प्रकृति- ये तीन तत्त्व ब्रह्माके स्थान हैं। तन्मात्रासे लेकर प्रधान- पर्यन्त तीन तत्त्व श्रीहरिके स्थान हैं। नाट्येश, गण, मातृका, यक्षराज, कार्तिकेय तथा गणेशका अण्डजादि शुद्ध विद्यान्त-तत्त्व है। मायांश देशसे लेकर शक्ति-पर्यन्त तत्त्व शिवा, शिव तथा उग्रतेजवाले सूर्यदेवका स्थान है। व्यक्त प्रतिमाओंके लिये ईश्वर-पर्यन्त पद बताया गया है। स्थापनाकी सामग्रीमें जो कूर्म आदिका वर्णन किया गया है तथा जो रत्न आदि पाँच वस्तुएँ कही गयी हैं, उन सबको देवपीठके गर्तमें डाल दे, परंतु पाँच ब्रह्मशिलाओंको उसमें न डाले ॥ ७४-७७ ॥
मन्दिरके गर्भका छः भागोंमें विभाजन करके छठे भागको त्याग दे और पाँचवें भागमें देवताकी स्थापना करे। अथवा मन्दिरके गर्भका आठ भाग करके सातवें भागमें प्रतिमाओंकी स्थापना करे तो वह सुखावह होता है। लेप अथवा चित्रमय विग्रहकी स्थापनामें पञ्चभूतोंकी धारणाओंद्वारा विशुद्धि होती है। वहाँ स्नान आदि कार्य जलसे नहीं, मानसिक किये जाते हैं। वैसे विग्रहोंको शिला एवं रत्न आदिके भवनमें रखना चाहिये। उनमें नेत्रोन्मीलन तथा आसन आदिकी कल्पना अभीष्ट है। इनकी पूजा जलरहित पुष्पोंसे करनी चाहिये, जिससे चित्र दूषित न हो ॥ ७८-८१ ॥ अब चल लिङ्गोंके लिये स्थापनाकी विधि बतायी जाती है। गर्भस्थानके पाँच अथवा तीन भाग करके एक भागको छोड़ दे और तीसरे या दूसरे भागमें चल लिङ्गकी स्थापना करे। इसी प्रकार उनके पीठोंके लिये भी करना चाहिये। लिङ्गोंमें तत्त्वभेदसे पूजनकी प्रक्रियामें भेद होता है। स्फटिक आदिके लिङ्गोंमें इष्टमन्त्रसे (अथवा सृष्टि-मन्त्रसे) विधिवत् संस्कार होना चाहिये। इसके सिवा वहाँ ब्रह्मशिला एवं रत्नप्रभूतिका निवेदन अपेक्षित नहीं है ॥ ८२-८४॥
पिण्डिकाकी योजना भी मनसे ही कर लेनी चाहिये। स्वयम्भूलिङ्ग और बाणलिङ्ग आदिमें संस्कारका नियम नहीं है। उन लिङ्गोंको संहिता- मन्त्रोंसे स्नान करना चाहिये। वैदिक विधिसे ही उनके लिये न्यास और होम करना चाहिये। नदी, समुद्र तथा रोह-इनके स्थापन करानेका विधान पूर्ववत् है  इहलोकमें जो मृत्तिका आदिके अथवा आटे आदिके शिवलिङ्गका पूजन किया जाता है, वह तात्कालिक होता है। अर्थात् पूजन-कालमें ही लिङ्ग-निर्माण करके वीक्षणादि विधानसे उनकी शुद्धि करे। तत्पश्चात् विधिवत् पूजन करना चाहिये। पूजनके पश्चात् मन्त्रोंको लेकर अपने-आपमें स्थापित करे और उस लिङ्गको जलमें डाल दे। एक वर्षतक ऐसा करनेसे वह लिङ्ग और उसका पूजन मनोवाञ्छित फल देनेवाला होता है। विष्णु आदि देवताओंकी स्थापनाके मन्त्र अलग हैं। उन्हींके द्वारा उनकी स्थापना करनी चाहिये ॥ ८५-८६ ॥
इस प्रकार आदि आग्नेय महापुराण में 'शिव-प्रतिष्ठाकी विधिका वर्णन' नामक सत्तानबेवाँ अध्याय पूरा हुआ ॥ ९७ ॥

टिप्पणियाँ