अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय ! Agni Purana - 115 Chapter !

अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय ! Agni Purana - 115 Chapter !

अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय गया-यात्राकी विधि ! गयायात्राविधिः !

अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय ! Agni Purana - 115 Chapter !

अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय ! Agni Purana - 115 Chapter !

अग्निरुवाच
उद्यतश्चेद्गयां यातुं श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीवेशं ग्रामस्यापि प्रदक्षिणं ॥११५.००१

कृत्वा प्रतिदिनङ्गच्छेत्संयतश्चाप्रतिग्रही ।
गृहाच्चलितमात्रस्य गयया गमनं प्रति ॥११५.००२

स्वर्गारोहणसोपानं पितॄणान्तु पदे पदे ।
ब्रह्मज्ञानेन किं कार्यं गोगृहे मरणेन किं ॥११५.००३

किं कुरुक्षेत्रवासेन यदा पुत्रो गयां व्रजेत् ।
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥११५.००४

पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किन्न दास्यति ।
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ॥११५.००५

वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।
काङ्क्षन्ति पितरः पुत्रं नरकाद्भयभीरवः ॥११५.००६

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
मुण्डनञ्चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥११५.००७

न कालादिर्गयातीर्थे दद्यात्पिण्डांश्च नित्यशः ।
पक्षत्रयनिवासी च पुनात्यासप्ततमं कुलं ॥११५.००८

अष्टकासु च वृद्धौ च गयायां मृतवासरे ।
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह ॥११५.००९

पित्रादिनवदैवत्यं तथा द्वादशदैवतं ।
प्रथमे दिवसे स्नायात्तीर्थे ह्युत्तरमानसे ॥११५.०१०

उत्तरे मानसे पुण्ये आयुरारोग्यवृद्धये ।
सर्वाघौघविघाताय स्नानं कुर्याद्विमुक्तये ॥११५.०११

सन्तर्प्य देवपित्रादीन् श्राद्धकृत्पिण्डदो भवेत् ।
दिव्यान्तरिक्षभौमस्थान् देवान् सन्तर्पयाम्यहं ॥११५.०१२

दिव्यान्तरिक्षभौमादि पितृमात्रादि तर्पयेत् ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥११५.०१३

माता पितामही चैव तथैव प्रपितामही ।
मातामहः प्रमातामहो वृद्धप्रमातामहः ॥११५.०१४

तेभ्योऽन्येभ्य इमान् पिण्डानुद्धाराय ददाम्यहं ।
ओं नमः सूर्यदेवाय सोमभौमज्ञरूपिणे ॥११५.०१५

जीवशुक्रशनैश्चारिराहुकेतुस्वरूपिणे ।
उत्तरे मानसे स्नाता उद्धरेत्सकलं कुलं ॥११५.०१६

सूर्यं नत्वा व्रजेन्मौनी नरो दक्षिणमानसं।
दक्षिणे मानसे स्नानं करोमि पितृतृप्तये ॥११५.०१७

गयायामागतः स्वर्गं यान्तु मे पितरोऽखिलाः ।
श्राद्धं पिण्डन्ततः कृत्वा सूर्यं नत्वा वदेदिदं ॥११५.०१८

ओं नमो भानवे भर्त्रे भवाय भव मे विभो ।
भुक्तिमुक्तिप्रदः सर्वपितॄणां भवभावितः ॥११५.०१९

कव्यवाहोऽनलः सोमो यमश्चैवार्यमा तथा ।
अग्निष्वात्ता वर्हिषद आज्यपाः पितृदेवताः ॥११५.०२०

आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह ।
मदीयाः पितरो ये च मातृमातामहादयः ॥११५.०२१

तेषां पिण्डप्रदाताहमागतोऽस्मि गयामिमां ।
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणपूजितं ॥११५.०२२

नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतं ।
सिद्धानां प्रीतिजननैः पापानाञ्च भयङ्करैः ॥११५.०२३

लेलिहानैर्महानागै रक्ष्यते चैव नित्यशः ।
तत्र स्नात्वा दिवं यान्ति क्रीडन्ते भुवि मानवाः ॥११५.०२४

फल्गुतीर्थं ततो गच्छेन्महानद्यां स्थितं परं ।
नागाज्जनार्दनात्कूपाद्वटाच्चोत्तरमानसात् ॥११५.०२५

एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ।
मुण्डपृष्ठनगाद्याश्च सारात्सारमथान्तरं ॥११५.०२६

यस्मिन् फलति श्रीर्गौर्वा कामधेनुर्जलं मही ।
दृष्टिरम्यादिकं यस्मात्फल्गुतीर्थं न फल्गुवत् ॥११५.०२७

फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरं ।
एतेन किं न पर्याप्तं नृणां सुकृतकारिणां ॥११५.०२८

पृथिव्यां यानि तीर्थानि आसमुद्रात्सरांसि च ।
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥११५.०२९

फल्गुतीर्थे तीर्थराजे करोति स्नानमादृतः ।
पितॄणां ब्रह्मलोकाप्त्यै आत्मनो भुक्तिमुक्तये ॥११५.०३०

स्नात्वा श्राद्धी पिण्डदोऽथ नमेद्देवं पितामहं ।
कलौ माहेश्वरा लोका अत्र देवो गदाधरः ॥११५.०३१

पितामहो लिङ्गरूपी तन्नमामि महेश्वरं ।
गदाधरं बलं काममनिरुद्धं नरायणं ॥११५.०३२

ब्रह्मविष्णुनृसिंहाख्यं वराहादिं नमाम्यहं ।
ततो गदाधरं दृष्ट्वा कुलानां शतमुद्धरेत् ॥११५.०३३

धर्मारण्यं द्वितीयेऽह्नि मतङ्गस्याश्रमे वरे ।
मतङ्गवाप्यां संस्नाय श्राद्धकृत्पिण्डदो भवेत् ॥११५.०३४

मतङ्गेशं सुसिद्धेशं नत्वा चेदमुदीरयेत् ।
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ॥११५.०३५

मयागत्य मतङ्गेऽस्मिन् पितॄणां निष्कृतिः कृता ।
स्नानतर्पणश्राद्धादिर्ब्रह्मतीर्थेऽथ कूपके ॥११५.०३६

तत्कूपयूपयोर्मध्ये श्राद्धं कुलशतोद्धृतौ ।
महाबोधतरुं नत्वा धर्मवान् स्वर्गलोकभाक् ॥११५.०३७

तृतीये ब्रह्मसरसि स्नानं कुर्याद्यतव्रतः ।
स्नानं ब्रह्मसरस्तीर्थे करोमि ब्रह्मभूतये ॥११५.०३८

पितॄणां ब्रह्मलोकाय ब्रह्मर्षिगणसेविते ।११५.०३९
तर्पणं श्राद्धकृत्पिण्डं प्रदद्यात्तु प्रसेचनं ।
कुर्याच्च वाजपेयार्थी ब्रह्मयूपप्रदक्षिणं ॥

एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददाति ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥११५.०४०

ब्रह्माणञ्च नमस्कृत्य कुलानां शतमुद्धरेत् ।
फल्गुतीर्थे चतुर्थेऽह्नि स्नात्वा देवादितर्पणं ॥११५.०४१

कृत्वा श्राद्धं सपिण्डञ्च गयाशिरसि कारयेत् ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥११५.०४२

तत्र पिण्डप्रदानेन कुलानां शतमुद्धरेत् ।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥११५.०४३

मुण्डपृष्ठे शिरः साक्षाद्गयाशिर उदाहृतं ।
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रमं कृतं ॥११५.०४४

अमृतं तत्र वहति पितॄणां दत्तमक्षयं ।
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहं ॥११५.०४५

रुद्रपादं नरः स्पृष्ट्वा नेह भूयोऽभिजायते ।
शमीपत्रप्रमाणेन पिण्डं दत्वा गयाशिरे॥११५.०४६

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
पायसेनाथ पिष्टेन सक्तुना चरुणा तथा ॥११५.०४७

पिण्डदानं तण्डुलैश्च गोधूमैस्तिलमिश्रितैः ।
पिण्डं दत्वा रुद्रपदे कुलानां शतमुद्धरेत् ॥११५.०४८

तथा विष्णुपदे श्राद्धपिण्डदो ह्यृणमुक्तिकृत् ।
पित्रादीनां शतकुलं स्वात्मानं तारयेन्नरः ॥११५.०४९

तथा ब्रह्मपदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।
दक्षिणाग्निपदे तद्वद्गार्हपत्यपदे तथा ॥११५.०५०

पदे वाहवनीयस्य श्राद्धी यज्ञफलं लभेत् ।
आवसथ्यस्य चन्द्रस्य सूर्यस्य च गणस्य च ॥११५.०५१

अगस्त्यकार्त्तिकेयस्य श्राद्धी तारयते कुलं ।
आदित्यस्य रथं नत्वा कर्णादित्यं नमेन्नरः ॥११५.०५२

कनकेशपदं नत्वा गयाकेदारकं नमेत् ।
सर्वपापविनिर्मुक्तः पितॄन् ब्रह्मपुरं नयेत् ॥११५.०५३

विशालोऽपि गयाशीर्षे पिण्डदोऽभूच्च पुत्रवान् ।
विशालायां विशालोऽभूद्राजपुत्रोऽब्रवीद्द्विजान् ॥११५.०५४

कथं पुत्रादयः स्युर्मे द्विजा ऊचुर्विशालकं ।
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥११५.०५५

विशालोऽपि गयाशीर्षे पितृपिण्डान्ददौ ततः।
दृष्ट्वाकाशे सितं रक्तं पुरुषांस्तांश्च पृष्टवान् ॥११५.०५६

के यूयं तेषु चैवैकः सितः प्रोचे विशालकं ।
अहं सितस्ते जनक इन्द्रलोकं गतः शुभान् ॥११५.०५७

मम रक्तः पिता पुत्र कृष्णश्चैव पितामहः ।
अब्रवीन्नरकं प्राप्ता त्वया मुक्तीकृता वयं ॥११५.०५८

पिण्डदानाद्ब्रह्मलोकं व्रजाम इति ते गताः ।
विशालः प्राप्तपुत्रादिः राज्यं कृत्वा हरिं ययौ ॥११५.०५९

प्रेतराजः स्वमुक्त्यै च वणिजञ्चेदमब्रवीत् ।
प्रेतैः सर्वैः सहार्तः सन् सुकृतं भुज्यते फलं ॥११५.०६०

श्रवणद्वादशीयोगे कुम्भः सान्नश्च सोदकः ।
दत्तः पुरा स मध्याह्ने जीवनायोपतिष्ठते ॥११५.०६१

धनं गृहीत्वा मे गच्छ गयायां पिण्डदो भव ।
वणिग्धनं गृहीत्वा तु गयायां पिण्डदोऽभवत् ॥११५.०६२

प्रेतराजः सह प्रेतैर्मुक्तो नीतो हरेः पुरं ।
गयाशीर्षे पिण्डदानादात्मानं स्वपितॄंस्तथा ॥११५.०६३

पितृवंशे सुता ये च मातृवंशे तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥११५.०६४

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
क्रियालोपगता ये च जात्यन्धाः पुङ्गवस्तथा ॥११५.०६५

विरूपा आमगर्भा ये ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतां ॥११५.०६६

ये केचित्प्रेतरूपेण तिष्ठन्ति पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥११५.०६७

पिण्डो देयस्तु सर्वेभ्यः सर्वैर्वै कुलतारकैः ।
आत्मनस्तु तथा देयो ह्यक्षयं लोकमिच्छता ॥११५.०६८

पञ्चमेऽह्नि गदालोले स्नायान्मन्त्रेण बुद्धिमान् ।
गदाप्रक्षालने तीर्थे गदालोलेऽतिपावने ॥११५.०६९

स्नानं करोमि संसारगदशान्त्यै जनार्दन ।
नमोऽक्षयवटायैव अक्षयस्वर्गदायिने ॥११५.०७०

पित्रादीनामक्षयाय सर्वपापक्षयाय च ।
श्राद्धं वटतले कुर्याद्ब्राह्मणानाञ्च भोजनं ॥११५.०७१

एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।
किम्पुनर्बहुभिर्भुक्तैः पितॄणां दत्तमक्षयं ॥११५.०७२

गयायामन्नदाता यः पितरस्तेन पुत्रिणः ।
वटं वटेश्वरं नत्वा पूजयेत्प्रपितामहं ॥११५.०७३

अक्षयांल्लभते लोकान् कुलानां शतमुद्धरेत् ।
क्रमतोऽक्रमतो वापि गयायात्रा महाफला ॥११५.०७४

इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम पञ्चदशाधिकशततमोऽध्यायः ॥

अग्नि पुराण - एक सौ पंद्रहवाँ अध्याय !-हिन्दी मे -Agni Purana - 115 Chapter!-In Hindi

अग्निदेव कहते हैं - यदि मनुष्य गया जानेको  उद्यत हो तो विधिपूर्वक श्राद्ध करके तीर्थयात्रीका वेष धारणकर अपने गाँवकी परिक्रमा कर ले; फिर प्रतिदिन पैदल यात्रा करता रहे। मन और इन्द्रियोंको वशमें रखे। किसीसे कुछ दान न ले। गया जानेके लिये घरसे चलते ही पग-पगपर पितरोंके लिये स्वर्गमें जानेकी सीढ़ी बनने लगती है। यदि पुत्र (पितरोंका श्राद्ध करनेके लिये) गया चला जाय तो उससे होनेवाले पुण्यके सामने ब्रह्मज्ञानकी क्या कीमत है? गौओंको संकटसे छुड़ानेके लिये प्राण देनेपर भी क्या उतना पुण्य होना सम्भव है? फिर तो कुरुक्षेत्रमें निवास करनेकी भी क्या आवश्यकता है? पुत्रको गयामें पहुँचा हुआ देखकर पितरोंके यहाँ उत्सव होने लगता है। वे कहते हैं- 'क्या यह पैरोंसे भी जलका स्पर्श करके हमारे तर्पणके लिये नहीं देगा?' ब्रह्मज्ञान, गयामें किया हुआ श्राद्ध, गोशालामें मरण और कुरुक्षेत्रमें निवास- ये मनुष्योंकी मुक्तिके चार साधन हैं। नरकके भयसे डरे हुए पितर पुत्रकी अभिलाषा रखते हैं। वे सोचते हैं, जो पुत्र गयामें जायगा, वह हमारा उद्धार कर देगा ॥ १-६३॥ 
मुण्डन और उपवास - यह सब तीर्थोंके लिये साधारण विधि है। गयातीर्थमें काल आदिका कोई नियम नहीं है। वहाँ प्रतिदिन पिण्डदान देना चाहिये। जो वहाँ तीन पक्ष (डेढ़ मास) निवास करता है, वह सात पीढ़ीतकके पितरोंको पवित्र कर देता है। अष्टका' तिथियोंमें, आभ्युदयिक कार्योंमें तथा पिता आदिकी क्षयाह-तिथिको भी यहाँ गयामें माताके लिये पृथक् श्राद्ध करनेका विधान है। अन्य तीर्थोंमें स्त्रीका श्राद्ध उसके पतिके साथ ही होता है। गयामें पिता आदिके क्रमसे 'नव देवताक' अथवा 'द्वादशदेवताक' श्राद्ध करना आवश्यक है ॥ ७-९३॥
पहले दिन उत्तर-मानस-तीर्थमें स्नान करे। परम पवित्र उत्तर-मानस-तीर्थमें किया हुआ स्नान आयु और आरोग्यकी वृद्धि, सम्पूर्ण पापराशियोंका विनाश तथा मोक्षकी सिद्धि करनेवाला है; अतः वहाँ अवश्य स्नान करे। स्रानके बाद पहले देवता और पितर आदिका तर्पण करके श्राद्धकर्ता पुरुष पितरोंको पिण्डदान दे। तर्पणके समय यह भावना करे कि 'मैं स्वर्ग, अन्तरिक्ष तथा भूमिपर रहनेवाले सम्पूर्ण देवताओंको तृप्त करता हूँ।' स्वर्ग, अन्तरिक्ष तथा भूमिके देवता आदि एवं  पिता-माता आदिका तर्पण करे। फिर इस प्रकार कहे - 'पिता, पितामह और प्रपितामह; माता, पितामही और प्रपितामही तथा मातामह, प्रमातामह और वृद्ध-प्रमातामह - इन सबको तथा अन्य पितरोंको भी उनके उद्धारके लिये मैं पिण्ड देता हूँ। सोम, मङ्गल और बुधस्वरूप तथा बृहस्पति, शुक्र, शनैश्चर, राहु और केतुरूप भगवान् सूर्यको प्रणाम है।' उत्तर-मानस-तीर्थमें स्नान करनेवाला पुरुष अपने समस्त कुलका उद्धार कर देता है ॥ १०- १६ ॥
सूर्यदेवको नमस्कार करके मनुष्य मौन- भावसे दक्षिण-मानस-तीर्थको जाय और यह भावना करे -'मैं पितरोंकी तृप्तिके लिये दक्षिण- मानस-तीर्थमें स्नान करता हूँ। मैं गयामें इसी उद्देश्यसे आया हूँ कि मेरे सम्पूर्ण पितर स्वर्गलोकको चले जायँ।' तदनन्तर श्राद्ध और पिण्डदान करके भगवान् सूर्यको प्रणाम करते हुए इस प्रकार कहे - 'सबका भरण-पोषण करनेवाले भगवान् भानुको नमस्कार है। प्रभो! आप मेरे अभ्युदयके साधक हों। मैं आपका ध्यान करता हूँ। आप मेरे सम्पूर्ण पितरोंको भोग और मोक्ष देनेवाले हों। कव्यवाट्, अनल, सोम, यम, अर्यमा, अग्निष्वात्त, बर्हिषद तथा आज्यप नामवाले महाभाग पितृ- देवता यहाँ पदार्पण करें। आपलोगोंके द्वारा सुरक्षित जो मेरे पिता-माता, मातामह आदि पितर हैं, उनको पिण्डदान करनेके उद्देश्यसे मैं इस गयातीर्थमें आया हूँ।' मुण्डपृष्ठके उत्तर भागमें देवताओं और ऋषियोंसे पूजित जो 'कनखल' नामक तीर्थ है, वह तीनों लोकोंमें विख्यात है। सिद्ध पुरुषोंके लिये आनन्ददायक और पापियोंके लिये भयंकर बड़े-बड़े नाग, जिनकी जीभ लपलपाती रहती है, उस तीर्थकी प्रतिदिन रक्षा करते हैं। वहाँ स्नान करके मनुष्य इस भूतलपर सुखपूर्वक क्रीडा करते और अन्तमें स्वर्गलोकको जाते हैं ॥ १७-२४॥ तत्पश्चात् महानदीमें स्थित परम उत्तम फल्गु- तीर्थपर जाय। यह नाग, जनार्दन, कूप, वट और उत्तर-मानससे भी उत्कृष्ट है। इसे 'गयाका शिरोभाग' कहा गया है। गयाशिरको ही 'फल्गु-तीर्थ' कहते हैं। यह मुण्डपृष्ठ और नग आदि तीर्थकी अपेक्षा सारसे भी सार वस्तु है। इसे 'आभ्यन्तर-तीर्थ' कहा गया है। जिसमें लक्ष्मी, कामधेनु गौ, जल और पृथ्वी सभी फलदायक होते हैं तथा जिससे दृष्टि रमणीय, मनोहर वस्तुएँ फलित होती हैं, वह 'फल्गु-तीर्थ' है। फल्गु-तीर्थ किसी हलके- फुलके तीर्थके समान नहीं है। फल्गु-तीर्थमें स्नान करके मनुष्य भगवान् गदाधरका दर्शन करे तो इससे पुण्यात्मा पुरुषोंको क्या नहीं प्राप्त होता? भूतलपर समुद्र-पर्यन्त जितने भी तीर्थ और सरोवर हैं, वे सब प्रतिदिन एक बार फल्गु- तीर्थमें जाया करते हैं। जो तीर्थराज फल्गु-तीर्थमें श्रद्धाके साथ स्नान करता है, उसका वह स्नान पितरोंको ब्रह्मलोककी प्राप्ति करानेवाला तथा अपने लिये भोग और मोक्षकी सिद्धि करनेवाला होता है ॥ २५-३० ॥
श्राद्धकर्ता पुरुष स्नानके पश्चात् भगवान् ब्रह्माजीको प्रणाम करे। (उस समय इस प्रकार कहे) 'कलियुगमें सब लोग महेश्वरके उपासक हैं; किंतु इस गया-तीर्थमें भगवान् गदाधर उपास्यदेव हैं। यहाँ लिङ्गस्वरूप ब्रह्माजीका निवास है, उन्हीं महेश्वरको मैं नमस्कार करता हूँ। भगवान् गदाधर (वासुदेव), बलराम (संकर्षण), प्रद्युम्न, अनिरुद्ध, नारायण, ब्रह्मा, विष्णु, नृसिंह तथा वराह आदिको मैं प्रणाम करता हूँ।' तदनन्तर श्रीगदाधरका दर्शन करके मनुष्य अपनी सौ पीढ़ियोंका उद्धार कर देता है। दूसरे दिन धर्मारण्य-तीर्थका दर्शन करे। वहाँ मतङ्ग मुनिके श्रेष्ठ आश्रममें मतङ्ग-वापीके जलमें स्नान करके श्राद्धकर्ता पुरुष पिण्डदान करे। वहाँ मतङ्गेश्वर एवं सुसिद्धेश्वरको मस्तक झुकाकर इस प्रकार कहे -' सम्पूर्ण देवता प्रमाणभूत होकर रहें, समस्त लोकपाल साक्षी हों, मैंने इस मतङ्ग-तीर्थमें आकर पितरोंका उद्धार कर दिया।' तत्पश्चात् ब्राह्म-तीर्थ नामक कूपमें स्नान, तर्पण और श्राद्ध आदि करे। उस कूप और यूपके मध्यभागमें किया हुआ श्राद्ध सौ पीढ़ियोंका उद्धार करनेवाला है। वहाँ धर्मात्मा पुरुष महाबोधि वृक्षको नमस्कार करके स्वर्गलोकका भागी होता है। तीसरे दिन नियम एवं व्रतका पालन करनेवाला पुरुष 'ब्रह्म-सरोवर' नामक तीर्थमें स्नान करे। उस समय इस प्रकार प्रार्थना करे- 'मैं ब्रह्मर्षियोंद्वारा सेवित ब्रह्म-सरोवर-तीर्थमें पितरोंको ब्रह्मलोककी प्राप्ति करानेके लिये स्नान करता हूँ।' श्राद्धकर्ता पुरुष तर्पण करके पिण्डदान दे। फिर वृक्षको सींचे। जो वाजपेय-यज्ञका फल पाना चाहता हो, वह ब्रह्माजीद्वारा स्थापित यूपकी प्रदक्षिणा करे ॥ ३१-३९ ॥ 
उस तीर्थमें एक मुनि रहते थे, वे जलका घड़ा और कुशका अग्रभाग हाथमें लिये आमके पेड़की जड़में पानी देते थे। इससे आम भी सींचे गये और पितरोंकी भी तृप्ति हुई। इस प्रकार एक ही क्रिया दो प्रयोजन सिद्ध करनेवाली हो गयी। ब्रह्माजीको नमस्कार करके मनुष्य अपनी सौ पीढ़ियोंका उद्धार कर देता है। चौथे दिन फल्गु- तीर्थमें स्नान करके देवता आदिका तर्पण करे। फिर गयाशीर्षमें श्राद्ध और पिण्डदान करे। गयाका क्षेत्र पाँच कोसका है। उसमें एक कोस केवल 'गयाशीर्ष' है। उसमें पिण्डदान करके मनुष्य अपनी सौ पीढ़ियोंका उद्धार कर सकता है। परम बुद्धिमान् महादेवजीने मुण्डपृष्ठमें अपना पैर रखा है। मुण्डपृष्ठमें ही गयासुरका साक्षात् सिर है, अतएव उसे 'गया-शिर' कहते हैं। जहाँ साक्षात् गयाशीर्ष है, वहीं फल्गु-तीर्थका आश्रय है। फल्गु अमृतकी धारा बहाती है। वहाँ पितरोंके उद्देश्यसे किया हुआ दान अक्षय होता है। दशाश्वमेध-तीर्थमें स्नान तथा ब्रह्माजीका दर्शन करके महादेवजीके चरण (रुद्रपाद) का स्पर्श करनेपर मनुष्य पुनः इस लोकमें जन्म नहीं लेता। गयाशीर्षमें शमीके पत्ते बराबर पिण्ड देनेसे भी नरकोंमें पड़े हुए पितर स्वर्गको चले जाते हैं और स्वर्गवासी पितरोंको मोक्षकी प्राप्ति होती है। वहाँ खीर, आटा, सत्तू, चरु और चावलसे पिण्डदान करे। तिलमिश्रित गेहूँसे भी रुद्रपादमें पिण्डदान करके मनुष्य अपनी सौ पीढ़ियोंका उद्धार कर सकता है ॥ ४०-४८ ॥ इसी प्रकार 'विष्णुपदी में भी श्राद्ध और पिण्डदान करनेवाला पुरुष पितृ ऋणसे छुटकारा पाता है और पिता आदि ऊपरकी सौ पीढ़ियों तथा अपनेको भी तार देता है। 'ब्रह्मपद में श्राद्ध करनेवाला मानव अपने पितरोंको ब्रह्मलोकमें पहुँचाता है। दक्षिणाग्नि, गार्हपत्य-अग्नि तथा आहवनीय-अग्निके स्थानमें श्राद्ध करनेवाला पुरुष यज्ञफलका भागी होता है। आवसथ्याग्नि, चन्द्रमा, सूर्य, गणेश, अगस्त्य और कार्तिकेयके स्थानमें श्राद्ध करनेवाला मनुष्य अपने कुलका उद्धार कर देता है। मनुष्य सूर्यके रथको नमस्कार करके कर्णादित्यको मस्तक झुकावे। कनकेश्वरके पदको प्रणाम करके गया-केदार-तीर्थको नमस्कार करे। इससे मनुष्य सब पापोंसे छुटकारा पाकर अपने पितरोंको ब्रह्मलोकमें पहुँचा देता है। विशाल भी गयाशीर्षमें पिण्डदान करनेसे पुत्रवान् हुए। 
कहते हैं, विशाला नगरीमें एक 'विशाल' नामसे प्रसिद्ध राजपुत्र थे। उन्होंने ब्राह्मणों से पूछा- 'मुझे पुत्र आदिकी उत्पत्ति किस प्रकार होगी ?' यह सुनकर ब्राह्मणोंने विशालसे कहा- 'गयामें पिण्डदान करनेसे तुम्हें सब कुछ प्राप्त होगा।' तब विशालने भी गयाशीर्षमें पितरोंको पिण्डदान किया। उस समय आकाशमें उन्हें तीन पुरुष दिखायी दिये, जो क्रमशः श्वेत, लाल और काले थे। विशालने उनसे पूछा- 'आप लोग कौन हैं ?' उनमेंसे एक श्वेतवर्णवाले पुरुषने विशालसे कहा -'मैं तुम्हारा पिता हूँ; मेरा वर्ण श्वेत है; मैं अपने शुभकर्मसे इन्द्रलोकमें गया था। बेटा! ये लाल रंगवाले मेरे पिता और काले रंगवाले मेरे पितामह थे। ये नरकमें पड़े थे; तुमने हम सबको मुक्त कर दिया। तुम्हारे पिण्डदानसे हमलोग ब्रह्मलोकमें जा रहे हैं।' यों कहकर वे तीनों चले गये। विशालको पुत्र-पौत्र आदिकी प्राप्ति हुई। उन्होंने राज्य भोगकर मृत्युके पश्चात् भगवान् श्रीहरिको प्राप्त कर लिया ॥ ४९-५९ ॥ एक प्रेतोंका राजा था, जो अन्य प्रेतोंके साथ बहुत पीड़ित रहता था। उसने एक दिन एक वणिक्से अपनी मुक्तिके लिये इस प्रकार कहा- 'भाई! हमारे द्वारा एक ही पुण्य हुआ था, जिसका फल यहाँ भोगते हैं। पूर्वकालमें एक बार श्रवण नक्षत्र और द्वादशी तिथिका योग आनेपर हमने अन्न और जलसहित कुम्भदान किया था; वही प्रतिदिन मध्याह्नके समय हमारी जीवन रक्षाके लिये उपस्थित होता है। तुम हमसे धन लेकर गया जाओ और हमारे लिये पिण्डदान करो।' वणिक्ने उससे धन लिया और गयामें उसके निमित्त पिण्डदान किया। उसका फल यह हुआ कि वह प्रेतराज अन्य सब प्रेतोंके साथ मुक्त होकर श्रीहरिके धाममें जा पहुँचा। गयाशीर्षमें पिण्डदान करनेसे मनुष्य अपने पितरोंका तथा अपना भी उद्धार कर देता है ॥ ६०-६३ ॥
वहाँ पिण्डदान करते समय इस प्रकार कहना चाहिये- 'मेरे पिताके कुलमें तथा माताके वंशमें और गुरु, श्वशुर एवं बन्धुजनोंके वंशमें जो मृत्युको प्राप्त हुए हैं, इनके अतिरिक्त भी जो बन्धुबान्धव मरे हैं, मेरे कुलमें जिनका श्राद्ध- कर्म - पिण्डदान आदि लुप्त हो गया है, जिनके कोई स्त्री-पुत्र नहीं रहा है, जिनके श्राद्ध-कर्म नहीं होने पाये हैं, जो जन्मके अंधे, लँगड़े और विकृत रूपवाले रहे हैं, जिनका अपक्व गर्भके रूपमें निधन हुआ है, इस प्रकार जो मेरे कुलके ज्ञात एवं अज्ञात पितर हों, वे सब मेरे दिये हुए इस पिण्डदानसे सदाके लिये तृप्त हो जायँ। जो कोई मेरे पितर प्रेतरूपसे स्थित हों, वे सब यहाँ पिण्ड देनेसे सदाके लिये तृप्तिको प्राप्त हों।' अपने कुलको तारनेवाली सभी संतानोंका कर्तव्य है कि वे अपने सम्पूर्ण पितरोंके उद्देश्यसे वहाँ पिण्ड दें तथा अक्षय लोककी इच्छा रखनेवाले पुरुषको अपने लिये भी पिण्ड अवश्य देना चाहिये  ॥ ६४-६८ ॥
बुद्धिमान् पुरुष पाँचवें दिन 'गदालोल' नामक तीर्थमें स्नान करे। उस समय इस मन्त्रका पाठ करे- 'भगवान् जनार्दन ! जिसमें आपकी गदाका प्रक्षालन हुआ था, उस अत्यन्त पावन 'गदालोल' नामक तीर्थमें मैं संसाररूपी रोगकी शान्तिके लिये स्नान करता हूँ ॥ ६९ ॥
'अक्षय स्वर्ग प्रदान करनेवाले अक्षयवटको नमस्कार है। जो पिता-पितामह आदिके लिये अक्षय आश्रय है तथा सब पापोंका क्षय करनेवाला है, उस अक्षय वटको नमस्कार है।'- यों प्रार्थना कर वटके नीचे श्राद्ध करके ब्राह्मण-भोजन करावे ॥ ७०-७१ ॥ वहाँ एक ब्राह्मणको भोजन करानेसे कोटि ब्राह्मणोंको भोजन करानेका पुण्य होता है। फिर यदि बहुत-से ब्राह्मणोंको भोजन कराया जाय, तब तो उसके पुण्यका क्या कहना है? वहाँ पितरोंके उद्देश्यसे जो कुछ दिया जाता है, वह  अक्षय होता है। पितर उसी पुत्रसे अपनेको पुत्रवान् मानते हैं, जो गयामें जाकर उनके लिये अन्नदान करता है। वट तथा वटेश्वरको नमस्कार करके अपने प्रपितामहका पूजन करे। ऐसा करनेवाला पुरुष अक्षय लोकमें जाता है और अपनी सौ पीढ़ियोंका उद्धार कर देता है। क्रमसे हो या बिना क्रमसे, गयाकी यात्रा महान् फल देनेवाली होती है॥ ७२-७४ ॥ 
इस प्रकार आदि आग्नेय महापुराणमें ' गया-यात्राकी विधिका वर्णन' नामक एक सौ पंद्रहवाँ अध्याय पूरा हुआ ॥ ११५ ॥

टिप्पणियाँ