अग्नि पुराण - एक सौ सत्रहवाँ अध्याय ! Agni Purana - 117 Chapter !

अग्नि पुराण - एक सौ सत्रहवाँ अध्याय ! Agni Purana - 117 Chapter !

अग्नि पुराण एक सौ सत्रहवाँ अध्याय श्राद्ध-कल्प

अग्नि पुराण - एक सौ सत्रहवाँ अध्याय ! Agni Purana - 117 Chapter !

अग्नि पुराण - एक सौ सत्रहवाँ अध्याय ! Agni Purana - 117 Chapter !

अग्निरुवाच
कात्यायनो मुनीनाह यथा श्राद्धं तथा वदे ।
गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥११७.००१

काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।
सम्याद्य च पदर्क्षे च पूर्वेद्युश्च निमन्त्रयेत् ॥११७.००२

यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।
अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान् ॥११७.००३

वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।
स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥११७.००४

उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।
एवं मातामहादेश्च शाकैरपि च कारयेत् ॥११७.००५

तदह्नि ब्रह्मचारी स्यादकोपोऽत्वरितो मृदुः ।
सत्योऽप्रमत्तोऽनध्वन्यो अस्वाध्यायश्च वाग्यतः ॥११७.००६

सर्वांश्च पङ्क्तिमूर्धन्यान् पृच्छेत्प्रश्ने तथासने ।
दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥११७.००७

विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।
विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥११७.००८

विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।
पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥११७.००९

तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।
सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥११७.०१०

यवोऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ।
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।११७.०११

प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । 
इति श्रीश्च तेति ददेत्पुष्पं पात्रे हैमेऽथ राजते ॥११७.०११

औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।
देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥११७.०१२

एकैकस्य एकैकेन सपवित्रकरेषु च ।
विश्वे देवा एष वोऽर्घः स्वाहा च पितरेष ते ॥११७.०१३

अवधैवं पितामहदेः संस्रवात्प्रथमे चरेत् ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥११७.०१४

अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।
घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥११७.०१५

कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निकोऽनले ।
अनग्निकः पितृहस्ते सपवित्रे तु मन्त्रतः ॥११७.०१६

अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय पितृमतेऽथ यमायाङ्गिरसे परे ॥११७.०१७

हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।
पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति
जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥११७.०१८

अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।
जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥११७.०१९

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहयै नित्यमेव नमो नमः॥११७.०२०

तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात्सकृत्सकृत् ।
गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥११७.०२१

तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।
शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥११७.०२२

उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।
दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥११७.०२३

आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।
अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः॥११७.०२४

अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥११७.०२५

श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ।
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥११७.०२६

याचितारश्च नः सन्तु मा च याचिस्म कञ्चन ।
स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान् ॥११७.०२७

स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां ।
पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥११७.०२८

स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।
अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥११७.०२९

यथाशक्ति प्रदद्याच्च दैवे पैत्रेऽथ वाचयेत् ।
विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥११७.०३०

आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।
गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥११७.०३१

एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।
एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥११७.०३२

नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।
तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥११७.०३३

उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।
अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ॥११७.०३४

सपिण्डीकरणं वक्ष्ये अब्दान्ते मध्यतोऽपि वा ।
पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥११७.०३५

सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।
गन्धोदकेन युक्तानि पूरयित्वाभिषिञ्चति ॥११७.०३६

प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।
पूर्ववत्पिण्डदानादि प्रेतानां पितृता भवेत् ॥११७.०३७

अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।
जपेत्पितृमन्त्रवर्जं पूर्वाह्णे तत्प्रदक्षिणं ॥११७.०३८

उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह ।
तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥११७.०३९

दध्यक्षतवदराद्याः पिण्डा नान्दीमुखान् पितॄन् ।
आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥११७.०४०

नान्दीमुखाश्च पितरो वाचयिष्येऽथ पृच्छति ।
नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥११७.०४१

नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः ।
मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥११७.०४२

स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् ।
तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥११७.०४३

मासन्तृप्तिस्तथारण्यैः कन्दमूलफलादिभिः ।
मत्स्यैर्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥११७.०४४

चतुरो रौरवेणाथ पञ्च षट्छागलेन तु ।
कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥११७.०४५

मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।
संवत्सरन्तु गव्येन पयसा पायसेन वा ॥११७.०४६

वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।
खड्गमांसं कालशाकं लोहितच्छागलो मधु ॥११७.०४७

महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं ।
मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥११७.०४८

तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य पाठकः ।
त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥११७.०४९

कम्यानां कल्पमाख्यास्ये प्रतिपत्सु धनं बहु ।
स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥११७.०५०

पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि ।
कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥११७.०५१

नवम्याञ्च एकशफा दशम्याङ्गोगणो भवेत् ।
एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥११७.०५२

ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः ।
मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं ॥११७.०५३

सप्त व्याधा दशारण्ये मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥११७.०५४

तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरमध्वानं यूयन्तेभ्योऽवसीदत ॥११७.०५५

श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।
श्राद्धं कुर्याच्च पुत्रादिः पितुर्जीवति तत्पितुः ॥११७.०५६

तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।
पितुः पितामस्हस्याथ परस्य प्रपितामात्॥११७.०५७

एवं मात्रादिकस्यापि तथा मातामहादिके ।
श्राद्धकल्पं पठेद्यस्तु स लभेत्श्राद्धकृत्फलं ॥११७.०५८

तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।
अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥११७.०५९

तृतीया चैव माघस्य तथा भाद्रपदस्य च ।
फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥११७.०६०

आषाढस्यापि दशमी माघमासस्य सप्तमी ।
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥११७.०६१

कर्तिकी फाल्गुनी तद्वज्ज्यैष्ठे पञ्चदशी सिता ।
स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥११७.०६२

गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।
श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी ॥११७.०६३

गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥६४॥११७
इत्याग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमोऽध्यायः ॥

अग्नि पुराण - एक सौ सत्रहवाँ अध्याय !-हिन्दी मे -Agni Purana - 117 Chapter!-In Hindi

अग्निदेव कहते हैं- महर्षि कात्यायनने मुनियोंसे जिस प्रकार श्राद्धका वर्णन किया था, उसे बतलाता हूँ। गया आदि तीर्थोंमें, विशेषतः संक्रान्ति आदिके अवसरपर श्राद्ध करना चाहिये। अपराह्नकालमें, अपरपक्ष (कृष्णपक्ष) में, चतुर्थी तिथिको अथवा उसके बादकी तिथियोंमें श्राद्धोपयोगी सामग्री एकत्रित कर उत्तम नक्षत्रमें श्राद्ध करे। श्राद्धके एक दिन पहले ही ब्राह्मणोंको निमन्त्रित करे। संन्यासी, गृहस्थ, साधु अथवा स्नातक तथा श्रोत्रिय ब्राह्मणोंको, जो निन्दाके पात्र न हों, अपने कर्मोंमें लगे रहते हों और शिष्ट एवं सदाचारी हों- निमन्त्रित करना चाहिये। जिनके शरीरमें सफेद दाग हों, जो कोढ़ आदिके रोगोंसे ग्रस्त हों, ऐसे ब्राह्मणोंको छोड़ दे; उन्हें श्राद्धमें सम्मिलित न करे। निमन्त्रित ब्राह्मण जब स्नान और आचमन करके पवित्र हो जायँ तो उन्हें देवकर्ममें पूर्वाभिमुख बिठावे। देव-श्राद्ध, पितृ-श्राद्धमें तीन-तीन ब्राह्मण रहें अथवा दोनोंमें एक-एक ही ब्राह्मण हों। इस प्रकार मातामह आदिके श्राद्धमें भी समझना चाहिये। शाक आदिसे भी श्राद्ध कर्म करावे ॥ १-५ ॥
श्राद्धके दिन ब्रह्मचारी रहे, क्रोध और उतावली न करे। नम्र, सत्यवादी और सावधान रहे। उस दिन अधिक मार्ग न चले, स्वाध्याय भी न करे, मौन रहे। सम्पूर्ण पंक्तिमूर्धन्य (पंक्तिमें सर्वश्रेष्ठ अथवा पंक्तिपावन) ब्राह्मणोंसे प्रत्येक कर्मके विषयमें पूछे। आसनपर कुश बिछावे। पितृकर्ममें कुशोंको दुहरा मोड़ देना चाहिये। पहले देव- कर्म, फिर पितृ-कर्म करे। देव-धर्ममें स्थित ब्राह्मणोंसे पूछे- 'मैं विश्वेदेवोंका आवाहन करूँगा।' ब्राह्मण आज्ञा दें -' आवाहन करो', तब 'विश्वेदेवास आगत शृणुताम इमः हवम्, एदं बर्हिर्निषीदत' (यजु० ७।३४) - इस मन्त्रके द्वारा विश्वेदेवोंका आवाहन करके आसनपर जौ छोड़े तथा 'विश्वेदेवाः शृणुतेमः हवं मे ये अन्तरिक्षे य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥' (यजु० ३३।५३) - इस मन्त्रका जप करे। तत्पश्चात् पितृकर्ममें नियुक्त ब्राह्मणोंसे पूछे - 'मैं पितरोंका आवाहन करूँगा।' ब्राह्मण कहें- 'आवाहन करो।' तब 'उशन्तस्त्वा०" इस मन्त्रका पाठ करते हुए आवाहन करे। फिर 'अपहता असुरा रक्षा:सि वेदिषदः ।।' (यजु० २।२९) - इस मन्त्रसे तिल बिखेरकर 'आयन्तु नः०" इत्यादि मन्त्रका जप करे। इसके बाद पवित्रकसहित अर्घ्यपात्रमें 'शं नो देवी० मन्त्रसे जल डाले ॥ ६-१०॥ इस तदनन्तर 'यवोऽसि" इस मन्त्रसे जौ देकर पितरोंके निमित्त सर्वत्र तिलका उपयोग करे। (पितरोंके अर्घ्यपात्रमें भी 'शं नो देवी' इस मन्त्रसे जल डालकर) 'तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितृल्लोकान् पृणीहि नः स्वधा।' यह मन्त्र पढ़कर तिल डाले। फिर 'श्रीश्च ते लक्ष्मीश्च पल्याव- होरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्नि- षाणामुं म इषाण सर्वलोकं म इषाण ॥' (यजु० ३१।२२) इस मन्त्रसे अर्घ्यपात्रमें फूल छोड़े। अर्घ्यपात्र सोना, चाँदी, गूलर अथवा पत्तेका होना चाहिये। उसीमें देवताओंके लिये सव्यभावसे और पितरोंके लिये अपसव्यभावसे उक्त वस्तुएँ रखनी चाहिये। एक-एकको एक-एक अर्घ्यपात्र पृथक् पृथक् देना उचित है। पितरोंके हाथोंमें पहले पवित्री रखकर ही उन्हें अर्घ्य देना चाहिये ॥ ११-१३ ॥ 
तत्पश्चात् (देवताओंके अर्घ्यपात्रको बायें हाथमें लेकर उसमें रखी हुई पवित्रीको दाहिने हाथसे निकालकर देव-भोजन पात्रपर पूर्वाग्र करके रख दे। उसके ऊपर दूसरा जल देकर अर्घ्यपात्रको ढककर) निम्नाङ्कित मन्त्र पढ़े- 'ॐ या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः। हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शः स्योनाः सुहवा भवन्तु ॥' फिर (जौ, कुश और जल हाथमें लेकर संकल्प पढ़े) 'ॐ अद्यामुकगोत्राणां पितृपितामह- प्रपितामहानाम् अमुकामुकशर्मणाम् अमुकश्राद्धसम्बन्धिनो विश्वेदेवाः एष वो हस्तायः स्वाहा।'- यों कहकर देवताओंको अर्घ्य देकर पात्रको दक्षिण भागमें सीधे रख दे। इसी प्रकार पिता आदिके लिये भी अर्घ्य दे। उसका संकल्प इस प्रकार है- 'ओमद्य अमुकगोत्र पितः अमुकशर्मन् अमुकश्राद्धे एष हस्तार्घ्यः ते स्वधा।'
इसी तरह पितामह आदिको भी दे। फिर सब अर्घ्यका अवशेष पहले पात्रमें डाल दे अर्थात् प्रपितामहके अर्घ्यमें जो जल आदि हो, उसे पितामहके पात्रमें डाल दे। इसके बाद वह सब पिताके अर्घ्यपात्रमें रख दे। पिताके अर्घ्यपात्रको पितामहके अर्घ्यपात्रके ऊपर रखे। फिर उन दोनोंको प्रपितामहके अर्घ्यपात्रके ऊपर रख दे। तत्पश्चात् तीनोंको पिताके आसनके वामभागमें 'पितृभ्यः स्थानमसि।' ऐसा कहकर उलट दे। तदनन्तर वहाँ देवताओं और पितरोंके लिये गन्ध, पुष्प, धूप, दीप तथा वस्त्र आदिका दान किया जाता है ॥ १४-१६ ॥
उसके बाद श्राद्धकर्ता पुरुष पात्रमेंसे घृतयुक्त अन्न निकालकर ब्राह्मणोंसे पूछे- 'मैं अग्निमें इस अन्नका हवन करूँगा।' ब्राह्मण आज्ञा दें- 'करो'। तब साग्निक पुरुष तो अग्निमें हवन करे और निरग्निक पुरुष पवित्रीयुक्त पितरके हाथ (अथवा जल) में मन्त्रसे आहुति दे। पहली आहुति 'अग्नये कव्यवाहनाय स्वाहा।' (यजु० २।२९) कहकर दे। दूसरी आहुति 'सोमाय पितृमते स्वाहा।' (यजु० २।२९) इस मन्त्रसे दे। दूसरे विद्वानोंका मत है कि 'यम' एवं 'अङ्गिरा' के उद्देश्यसे आहुति दें। हवनसे शेष बचे हुए अन्नमेंसे क्रमशः देवताओं और पितरोंके पात्रोंमें परोसे और पात्रको हाथसे ढक दे। उस समय निम्नाङ्कित मन्त्रका जप करे - 'ॐ पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि इदं विष्णुर्विचक्रमे त्रेधा
स्वाहा। निदधे पदम् समूढमस्य पाश्सुरे स्वाहा ॥ कृष्ण हव्यमिदं रक्ष मदीयम्।' (यजु० ५।१५) ऐसा पढ़कर अन्तमें ब्राह्मणके अँगूठेका स्पर्श करावे। (देवपात्रोंपर 'यवोऽसि यवयास्मद्- द्वेषो यवयारातीः।' इस मन्त्रसे जौ छींटे) और पितरोंके पात्रोंपर 'अपहता असुरा रक्षा सि वेदिषदः।' इस मन्त्रसे तिल छींटकर संकल्पपूर्वक अन्न अर्पण करे। तदनन्तर 'जुषध्वम्।' (आपलोग अन्न ग्रहण करें) ऐसा कहकर गायत्री मन्त्र आदिका जप करे ॥ १७ - २१ ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च। नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥ ३
'इस मन्त्रका भी जप करे। पितरोंको तृप्त जानकर पात्रमें अन्न बिखेरे। फिर एक-एक बार सबको जल दे। पूर्ववत् सव्यभावसे गायत्री-जप करके 'मधु वाता' इस ऋचाका जप करे। इसके बाद ब्राह्मणोंसे पूछे- 'आपलोग तृप्त हो गये?' ब्राह्मण करें- 'हाँ, हम तृप्त हो गये।' तदनन्तर शेष अन्नको ब्राह्मणोंकी आज्ञा लेकर एकमें मिला दे और पिण्ड बनानेके लिये पात्रसे बाहर निकाले और पितरोंके उच्छिष्ट अन्नके पास ही अवनेजन करके कुशोंपर संकल्पपूर्वक तीन  पिण्डदान करे। दूसरोंका मत है कि ब्राह्मण जब भोजनके पश्चात् हाथ-मुँह धोकर आचमन कर लें, तब पिण्डदान देना चाहिये। आचमनके पश्चात् जल, फूल और अक्षत दे ॥ २२-२५ई ॥
फिर अक्षय्योदक देकर मनुष्य आशीर्वादकी प्रार्थना करे'। 'ॐ अघोराः पितरः सन्तु।' (मेरे पितर सौम्य हों।) ऐसा कहकर जल गिरावे, फिर प्रार्थना करे - 'हमारा गोत्र सदा ही बढ़ता रहे, हमारे दाता भी निरन्तर अभ्युदयशील हों, वेदोंकी पठन-पाठन-प्रणाली बढ़े। संतानोंकी भी वृद्धि हो। हमारी श्रद्धामें कमी न आवे; हमारे पास देने योग्य बहुत सामान संचित रहे; हमारे यहाँ अन्न भी अधिक हो। हम अतिथियोंको प्राप्त करते रहें अर्थात् हमारे घरपर अतिथियोंका  शुभागमन होता रहे। हमारे पास माँगनेवाले आवें, किंतु हम किसीसे न माँगें।' फिर स्वधा- वाचनके लिये पिण्डोंपर पवित्रकसहित कुश बिछावे और ब्राह्मणोंसे पूछे- 'मैं स्वधा-वाचन कराऊँगा।' ब्राह्मण आज्ञा दें- 'स्वधा-वाचन कराओ।' तब श्राद्धकर्ता पुरुष इस प्रकार कहे-
'ब्राह्मणो ! आपलोग मेरे पिता, पितामह और प्रपितामहके लिये स्वधा वाचन करें।' ब्राह्मण कहें- 'अस्तु स्वधा ।' तदनन्तर 'ऊर्जा वहन्तीरमृतं घृतं पयः कीलालं परिस्तुतम् स्वधा स्थ तर्पयत मे पितृन्' (यजु० २। ३४) - इस मन्त्रसे कुशोंपर दुग्ध-मिश्रित जलकी दक्षिणाग्रधारा गिरावे, फिर (सव्य होकर देवार्घ्यपात्रको हिला दे और पितरोंके) अर्घ्यपात्रको उत्तान करके देवश्राद्ध  तथा पितृश्राद्धकी प्रतिष्ठाके लिये यथाशक्ति क्रमशः सुवर्ण और रजतकी दक्षिणा दे। इसके बाद 'विश्वेदेवाः प्रीयन्ताम्।' - ऐसा कहकर देवताओंका विसर्जन करे और 'वाजेवाजेऽबत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥' (यजु० २१।११) - इस मन्त्रसे पिता आदिका विसर्जन करे ॥ २६-३२ ॥ 
(तत्पश्चात् सव्यभावसे 'देवताभ्यश्च०' इत्यादि पढ़कर भगवान्का स्मरण करे। फिर अपसव्यभावसे रक्षादीपको बुझा दे। उसके बाद सव्यभावसे भगवान्से प्रार्थना करे- 'प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद् विष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥' इत्यादि) तदनन्तर 'आ मा वाजस्य०' (यजु० ९।१९) इत्यादि मन्त्र पढ़कर ब्राह्मणके पीछे-पीछे जाय और ब्राह्मणकी परिक्रमा करके अपने घरमें जाय। प्रत्येक मासकी अमावस्याको इसी प्रकार पार्वण श्राद्ध करना चाहिये ॥ ३३ ॥
अब मैं एकोद्दिष्ट श्राद्धका वर्णन करूँगा। यह श्राद्ध पूर्ववत् ही करे। इसमें इतनी ही विशेषता है कि एक ही पवित्रक, एक ही अर्घ्य और एक ही पिण्ड देना चाहिये। इसमें आवाहन, अग्निकरण और विश्वेदेव-पूजन नहीं होता। जहाँ तृप्ति पूछनी हो, वहाँ 'स्वदितम् ?' ऐसा प्रश्न करे। ब्राह्मण उत्तर दे-'सुस्वदितम्।', 'उपतिष्ठताम्' - कहकर अर्पण करे। अक्षय्योदक भी दे। विसर्जनके समय 'अभिरम्यताम्' का उच्चारण करे। ब्राह्मण कहें - 'अभिरताः स्मः।' शेष सभी बातें पूर्ववत् करनी चाहिये ॥ ३४-३६ ॥ अब सपिण्डीकरणका वर्णन करूँगा। यह वर्षके अन्तमें और मध्यमें भी होता है। इसमें पितरोंके लिये तीन पात्र होते हैं और प्रेतके लिये एक पात्र अलग होता है। चारों अर्घ्यपात्रोंमें पवित्री, तिल, फूल, चन्दन और जल डालकर भर दिया जाता है। फिर उन्हींसे श्राद्धकर्ता पुरुष अर्घ्य देता है। 'ये समाना: ०' (यजु० १९।४५-४६) इत्यादि दो मन्त्रोंसे प्रेतके अर्घ्यपात्रको क्रमशः तीनों पितरोंके अर्घ्यपात्रमें मिलाया जाता है। इसी प्रकार पिण्डदान, दान आदि पूर्ववत् करके प्रेतके पिण्डको पितरोंके पिण्डमें मिलाया जाता है। इससे प्रेतको ' पितृ' पदवी प्राप्त होती है ॥ ३७ - ३९ ॥
अब 'आभ्युदयिक' श्राद्ध बतलाता हूँ। इसकी सब विधि पूर्ववत् है। इसमें पितृसम्बन्धी मन्त्रके अतिरिक्त अन्य मन्त्रोंका जप करना चाहिये। पूर्वाह्नकालमें आभ्युदयिक श्राद्ध और उसकी प्रदक्षिणा करनी चाहिये। इसमें कोमल कुश ही उपचार है। यहाँ तिलके स्थानपर जौका ही उपयोग होता है। ब्राह्मणोंसे पितरोंकी तृप्तिके लिये प्रश्न करते समय 'सम्पन्नम् ?' का प्रयोग करना चाहिये। ब्राह्मण उत्तर दे 'सुसम्पन्नम्'। इसमें दही, अक्षत और बेर आदिके ही पिण्ड होते हैं। आवाहनके समय पूछे- 'मैं 'नान्दीमुख' नामवाले पितरोंका आवाहन करूँगा।' इसी प्रकार अक्षय्य- तृप्तिके लिये 'प्रीयताम्' ऐसा कहे। फिर पूछे- 'मैं नान्दीमुख पितरोंका तृप्ति-वाचन कराऊँगा।' ब्राह्मणोंकी आज्ञा लेकर कहे- 'नान्दीमुखाः पितरः प्रीयन्ताम्।' (नान्दीमुख पितर तृप्त एवं प्रसन्न हों।) (माता, पितामही, प्रपितामही) पिता, पितामह, प्रपितामह और (सपत्नीक) मातामह, प्रमातामह तथा वृद्धप्रमातामह - ये नान्दीमुख पितर हैं ॥ ४०-४४ ॥ आभ्युदयिक श्राद्धमें 'स्वधा' का प्रयोग न करे और युग्म ब्राह्मणोंको भोजन करावे। अब मैं पितरोंकी तृति बतलाता हूँ। ग्राम्य अन्नसे तथा जंगली कन्द, मूल, फल आदिसे एक मासतक पितरोंकी तृप्ति बनी रहती है और गायके दूध एवं खीरसे एक वर्षतक पितरोंकी तृप्ति रहती है तथा वर्षा ऋतुमें त्रयोदशीको विशेषतः मघा नक्षत्रमें किया हुआ श्राद्ध अक्षय होता है। मन्त्रका पाठ करनेवाला, अग्निहोत्री, शाखाका अध्ययन करने- वाला, छहों अङ्गोंका विद्वान्, त्रिणाचिकेत, त्रिमधु, धर्मद्रोणका पाठ करनेवाला, त्रिसुपर्ण तथा बृहत् सामका ज्ञाता - ये ब्राह्मण पंक्तिपावन (पंक्तिको पवित्र करनेवाले) माने गये हैं ॥ ४५-४७ ॥ अब काम्य श्राद्धकल्पका वर्णन करूँगा। प्रतिपदाको श्राद्ध करनेसे बहुत धन प्राप्त होता है। द्वितीयाको श्राद्ध करनेसे श्रेष्ठ स्त्री मिलती है। चतुर्थीको किया हुआ श्राद्ध धर्म और कामको देनेवाला है। पुत्रकी इच्छावाला पुरुष पञ्चमीको श्राद्ध करे। षष्ठीके श्राद्धसे मनुष्य श्रेष्ठ होता है। सप्तमीके श्राद्धसे खेतीमें लाभ होता और अष्टमीके श्राद्धसे अर्थकी प्राप्ति होती है। नवमीको श्राद्धका अनुष्ठान करनेसे एक खुरवाले घोड़े आदि पशु प्राप्त होते हैं। दशमीके श्राद्धसे गो-समुदायकी उपलब्धि होती है। एकादशीके श्राद्धसे परिवार और द्वादशीके श्राद्धसे धन-धान्य बढ़ता है। त्रयोदशीको श्राद्ध करनेसे अपनी जातिमें श्रेष्ठता प्राप्त होती है। चतुर्दशीको उसीका श्राद्ध किया जाता है, जिसका शस्त्रद्वारा वध हुआ है। अमावास्याको सम्पूर्ण मृत व्यक्तियोंके लिये श्राद्ध करनेका विधान है।॥ ४८-५१। 'जो दशार्णदेशके वनमें सात व्याध थे, वे कालंजर गिरिपर मृग हुए, शरद्वीपमें चक्रवाक हुए तथा मानस सरोवरमें हंस हुए। वे ही अब कुरुक्षेत्रमें वेदोंके पारंगत विद्वान् ब्राह्मण हुए हैं। अब उन्होंने दूरतकका मार्ग तय कर लिया है; तुमलोग उनसे बहुत पीछे रहकर कष्ट पा रहे  हो।' श्राद्ध आदिके अवसरपर इसका पाठ करनेसे श्राद्ध पूर्ण एवं ब्रह्मलोक देनेवाला होता है। यदि पितामह जीवित हो तो पुत्र आदि अपने पिताका तथा पितामहके पिता और उनके भी पिताका श्राद्ध करे। यदि प्रपितामह जीवित हो तो पिता, पितामह एवं वृद्धप्रपितामहका श्राद्ध करे। इसी प्रकार माता आदि तथा मातामह आदिके श्राद्धमें भी करना चाहिये। जो इस श्राद्धकल्पका पाठ करता है, उसे श्राद्ध करनेका फल मिलता है ॥ ५२-५६॥ उत्तम तीर्थमें, युगादि और मन्वादि तिथिमें किया हुआ श्राद्ध अक्षय होता है। आश्विन शुक्ला नवमी, कार्तिककी द्वादशी, माघ तथा भाद्रपदकी तृतीया, फाल्गुनकी अमावास्या, पौष शुक्ला एकादशी, आषाढ़की दशमी, माघमासकी सप्तमी, श्रावण कृष्णपक्षकी अष्टमी, आषाढ़, कार्तिक, फाल्गुन तथा ज्येष्ठकी पूर्णिमा - ये तिथियाँ स्वायम्भुव आदि मनुसे सम्बन्ध रखनेवाली हैं। इनके आदिभागमें किया हुआ श्राद्ध अक्षय होता है। गया, प्रयाग, गङ्गा, कुरुक्षेत्र, नर्मदा, श्रीपर्वत, प्रभास, शालग्रामतीर्थ (गण्डकी), काशी, गोदावरी तथा श्रीपुरुषोत्तमक्षेत्र आदि तीर्थोंमें श्राद्ध उत्तम होता है ॥ ५७-६३॥
इस प्रकार आदि आग्नेयू महापुराणमें 'श्राद्ध-कल्पका वर्णन' नामक एक सौ सत्रहवाँ अध्याय पूरा हुआ ॥ ११७

टिप्पणियाँ