देवर्षि कृतं - गजानन स्तोत्र ! Devarshi Kritam - Gajanan Stotra

देवर्षि कृतं - गजानन स्तोत्र !

देवर्षी कृत गजानन स्तोत्र, मुद्गल पुराण में है. मुद्गल पुराण, हिंदू धार्मिक ग्रंथ है जो गणेश जी को समर्पित है. इस स्तोत्र का पाठ करने या श्रवण करने से पुत्र-पौत्र की प्राप्ति होती है, धन-धान्य मिलता है, और सभी तरह की संपन्नता मिलती है. इस स्तोत्र का नियमित पाठ करने से अशुभ नहीं होता, सभी तरह के युद्धों में जीत मिलती है, और सभी तरह की यात्राओं में फल मिलता है. हर दिन 21 बार, 21 दिन तक इसका अनुष्ठान करने से सभी तरह की सिद्धि मिलती है. इससे धर्म, अर्थ, काम, पुरुषार्थ, और ब्रह्म ज्ञान भी मिल सकता है. गणेश जी की भक्ति बढ़ाने के लिए इस स्तोत्र का बहुत महत्व है !
गणेश स्तोत्र का जाप करने से मन शांत होता है और जीवन से बुराई दूर रहती है इससे व्यक्ति स्वस्थ और समृद्ध भी बनता है. श्री गजानन महाराज स्तोत्र के और भी कई फ़ायदे हैं, जैसे:-
  • जीवन में आने वाली बाधाएं दूर होती हैं
  • एकाग्रता और फ़ोकस बढ़ता है
  • आंतरिक शांति मिलती है
  • भगवान गणेश का आशीर्वाद मिलता है
  • आस-पास से नकारात्मक ऊर्जा दूर होती है
  • संचार कौशल और बुद्धि में सुधार होता है
Devarshi Kritam - Gajanan Stotra

देवर्षि कृतं - गजानन स्तोत्र ! Devarshi Kritam - Gajanan Stotra

देवर्षय ऊचुः

विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदन्तम् । 
अमेयसांख्येन च लक्ष्यमीशं गजाननं भक्तियुतं भजामः ॥१॥

मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकारहीनं सकलाङ्गकं वै गजाननं भक्तियुतं भजामः ॥२॥

अमेयरूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् । 
अनादि-मध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः ॥३॥

जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् । 
अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजामः ॥४॥ 

न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् ।
 न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुतं भजामः ॥५॥

न विश्वगं तैजसगं न प्राज्ञं समष्टि-व्यष्टिस्थ-मनन्तगं तम् । 
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजामः ॥६॥ 

गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी । 
सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजामः ॥७॥

अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजामः ॥८॥

यदि त्वया नाथ ! धृतं न किञ्चित्तदा कथं सर्वमिदं भजामि ।
अतो महात्मानमचिन्त्यमेवं गजाननं भक्तियुतं भजामः ॥९॥

सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं गजाननं भक्तियुतं भजामः ॥१०॥

सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
अनन्तबाहुं मूषकध्वजं तं गजाननं भक्तियुतं भजामः ॥११॥

सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् ।
द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजामः ॥१२॥

चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजामः ॥१३॥

महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजामः ॥१४॥

रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजामः ॥१५॥

महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजरूपं गजाननं भक्तियुतं भजामः ॥१६॥

शिवादि-देवैश्च खगैश्च वन्धं नरैर्लता-वृक्ष-पशुप्रमुख्यैः ।
चराऽचरैर्लोक-विहीनमेवं गजाननं भक्तियुतं भजामः ॥१७॥

मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथाऽपि देव पुरसंस्थितं तं गजाननं भक्तियुतं भजामः ॥१८॥

वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव ।
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुतं भजामः ॥१९॥

गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । 
गच्छन्ति तेनैव गजाननं तं गजाननं भक्तियुतं भजामः ॥२०॥

पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै। 
विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्तियुतं भजामः ॥२१॥

मुद्गल उवाच

एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२॥

गजानन उवाच 
वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तो दास्यामि वाञ्छितं परम् ॥२३॥

गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥२४॥

देवर्षय ऊचुः

यदि गजानन स्वामिन् ! प्रसन्नो वरदोऽसि मे ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥२५॥

लोभासुरस्य देवेश ! कृता शान्तिसुखप्रदा ।
तया जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२६॥

अधुना देवदेवेश ! कर्मयुक्ता द्विजातयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥२७॥

स्व-स्वधर्मरताः सर्वे कृतास्त्वया गजानन ।
अतः परं वरं ढुण्ढ़े याचमानः किमप्यहो ! ॥२८॥

यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । 
तदा सङ्कटहीनान् वै कुरु त्वं भो गजानन ! ॥२९॥

एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । 
तानुवाच च प्रीत्यात्मा भक्ताधीनः स्वभावतः ॥३०॥

गजानन उवाच

यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥३१॥

भवत्कृतं मदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्ति-प्रदायकम् ॥३२॥

पुत्र-पौत्र-प्रदं पूर्ण धन-धान्य-प्रवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥३३॥

मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विपेन्द्रा अशुभं नैव बाधते ॥३४॥

संग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनादिषु च प्रशस्तं तद्  भविष्यति ॥३५॥

कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥३६॥

एकविंशतिवारं वै चैकविंशद्दिनावधिम् ।
प्रयोगं यः करोत्वेव सर्वसिद्धिभाक् स भवेत् ॥३७॥ 

धर्मा-ऽर्थ-काम-मोक्षाणां ब्रह्मभूतस्य दायकम् । 
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् । 
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥३८॥ 

इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रं सम्पूर्णम् ॥

ये भी पढ़ें:-

श्री गणपति स्तव ]  [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ]  [ गणेश अष्टकं ] 

श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ] 

देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ] 

गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]

गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]

महा गणपति स्तोत्रम्‌ ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]

टिप्पणियाँ