गणेश मानस पूजा ! Ganesh Manas Puja
Ganesh Manas Puja |
गणेश मानस पूजा ! Ganesh Manas Puja
गृत्समद उवाच
विघ्नेशवीर्याणि विचित्रकाणि बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मर्जगन्मङ्गलकं कुरुष्व ॥१॥
एवं मया प्रार्थित-विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥२॥
शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥३॥
द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोद समोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥४॥
रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥५॥
सिद्धया च बुद्धया सह विघ्नराज! पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥६॥
ततः सुवस्त्रेण गणेशपादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥७॥
कर्पूर-एलादि-सुवासितं तु सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन ! त्वं कृपाकटाक्षेण विलोकयाशु ॥८॥
प्रवाल-मुक्ताफल-हारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्थ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥९॥
सौधं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाऽऽचम्य विनायकं त्वं भक्ताश्च भक्तेश सुरक्षयाशु ॥१०॥
सुवासितं चम्पक-जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि सर्वाङ्गमेवं तव सेवनाय ॥११॥
ततः सुखोष्णेन जलेन चाऽहमनेकतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥१२॥
ततः पयः स्नानमचिन्त्यभावं गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामयत्वं चित्तेन दत्तं च जलस्य चैवम् ॥१३॥
ततो घृतस्नानमपारवन्ध सुतीर्थजो विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥१४॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहर्तृ विघ्नेश मायां हि निवारयाशु ॥१५॥
सुदक्षपङ्कस्तमथो गृहाण स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥१६॥
ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकेस्तं ह्यभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥१८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनाश्च रक्ष ॥१९॥
आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं नमो यथा तारकसंयुतं तु ॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गुणनाथ तत्त्वं गृहाण भक्तोद्धरकारणाय ॥२१॥
आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥२२॥
उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद् वै कुरुष्व हेरम्ब च तेन पूर्णम् ॥२३॥
सहस्त्रशीर्षं मनसाश्रयं त्वद्दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥२४।
विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥२५॥
शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कझुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश दतानि दन्तस्य च शोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तथाऽङ्गुलीष्वाङ्गुलिकं गणेश चित्तेन संशोभय तत्परेश ॥२९॥
विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि च बाहुषु त्वम् ॥३०॥
प्रवाल-मुक्ताफल-रत्नजांस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला उरोदरे शोभय विघ्नराज ॥३१॥
चन्द्रं ललाटे गणनाथ पूर्ण वृद्धि क्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिन्तामणि चिन्तितदं परेश हृद्देशगं ज्योतिमयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥३३॥
नाभौ फणीशं च सहस्त्रशीर्षं संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥३४॥
विघ्नेश ज्योतिर्गणदीपनं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥
हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव ।
सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥
इत्यादि-नानाविध-भूषणानि तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदंकेषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७॥
सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त गृहाण ते त्वंगविलेपनार्थम् ॥ ३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धैरंगेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९॥
घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि ।
भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥
गृहाण भो चम्पकमालतीनि जलपंकजानि स्थलपंकजानि ।
चित्तेन दत्तानि च मल्लिकादि पुष्पाणि नानाविधवृक्षजानि ॥ ४१॥
पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२॥
दूर्वांकुरान् वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान ।
गृहाण विघ्नेश्वर संख्यया त्वं हीनाश्च सर्वोपरि वक्रतुण्ड ॥ ४३॥
दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४॥
दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-तैलादि-संभूतममोघदृष्टे ॥ ४५॥
भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविध-षड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥
ततः करोद्वर्तनकं गृहाण सौगन्ध्युक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८॥
पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोंछनं हस्तमुखेकरोमि ॥ ४९॥
द्राक्षादि-रम्भाफल-चूतकानि खार्जूर-कार्कन्धुक-दाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०॥
पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥
अष्टांगयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२॥
ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-संछादितके प्रसीद ॥ ५३॥
ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥
गृहाण लम्बोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् ।
सौवर्ण-मुद्रादिक-मुख्यभावां, पाहि प्रभो विश्वमिदं गणेश ॥। ५५॥
राजोपचारान् विविधान् गृहाण हस्त्यश्व-छत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजंगमांस्ते ॥ ५६॥
दानाय नानाविधरूपकांस्ते गृहाण दत्तान् मनसा मया वै ।
पदार्थभूतान् स्थिर-जंगमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥
मन्दारपुष्पाणि शमीदलानि दूर्वांकुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८॥
ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि ।
सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर-शोभनार्थम् ॥ ५९॥
ततः शुकाद्याः शिव-विष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥६०॥
वामाङ्गके भक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥६१॥
गणेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेशा मायासु सांख्यप्रदचित्तरूपा ॥६२॥
प्रमोदमोदाः खलु पृष्ठभागे गणेश्वरं भावयुतो भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तस्य पुरो भजन्ते ॥६३॥
गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ताच्छत्रुस्तथा ह्यप्सरसो विचित्रम् ॥६४॥
इत्यादि-नानाविध-भावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै करोमि नानाविधदीपयुक्तम् ॥६५॥
चतुर्भुजं पाशधरं गणेशं तथाऽङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं महोदरं चैकरदं गजास्यम् ॥६६॥
सर्पोपवीतं गुणकर्णधारं विभूतिभिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥६७॥
ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥६८॥
आरार्तिकां कर्पूरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्तौघहरा निजानाम् ॥६९॥
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥
अपारवृत्त्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश ।
युक्तं श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥७१॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
संख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद् वै ॥७२॥
नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्या विविधस्वरूपाम् ।
संख्याविहीनां मनसा कृतां ते सिद्धया च बुद्धया परिपालयाशु ॥७३॥
न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण ।
दूर्वाकुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥७४॥
क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयामि मनसा गणेश ॥७५॥
ततः प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाऽभिवन्द्य ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
उत्थाय विघ्नेश्वर एव तस्मादतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥७७॥
सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैर्भक्तेर्गणेशस्य च खेलयामि ॥७८॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥
गणेशपादोदकपानकं च द्युच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्य-सन्धारणकं सुभोज्यी लम्बोदरस्यास्तु हि मुक्तशेषम् ॥८०॥
यद्यत्करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
ततस्तु शय्यां परिकल्पयामि मन्दार-कूर्पासक-वस्त्रयुक्ताम् ।
सुवास-पुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥८२॥
सिद्धया च बुद्धया सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥
एतादृशं सौख्यमयोघशक्ते देहि प्रभो मानसजं गणेशम् ।
मह्यं च तेनैव कृतार्थरूपो भवामि भक्त्या रसलालसोऽहम् ॥८४
गार्ग्य उवाच
एवं नित्यं महाराज गृत्समादो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥
य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥
यद्यदिच्छति तत्तद् वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥८८॥
इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा समाप्ता ॥
ये भी पढ़ें:-
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
टिप्पणियाँ