अग्नि पुराण तीन सौ पचासवाँ अध्याय - Agni Purana 350 Chapter

अग्नि पुराण तीन सौ पचासवाँ अध्याय - Agni Purana 350 Chapter

अग्नि पुराण - तीन सौ पचासवाँ अध्याय काव्य गुण विवेकः ।


अग्निरुवाच ।

अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्य ललिते स्त्रीणां हारो भारयते परं ।। १ ।।

न च वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गुढ़ार्थाद्याः पृथक् कृताः ।। २ ।।

यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ।। ३ ।।

सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते ।
शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ।। ४ ।।

शब्दमाश्रयते काव्यं शरीरं यः स तद्‌गुणः ।
श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ।। ५ ।।

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ।। ६ ।।

गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं ।
यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ।। ७ ।।

विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ।। ८ ।।

अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।
उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ।। ९ ।।

ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ।। १० ।।

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ।। ११ ।।

माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता ।
प्रौढ़िः सामयिकत्वञ्च तद्‌भेदाः षट्‌चकाशति ।। १२ ।।

क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता ।
सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ।। १३ ।।

यत्‌काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ।। १४ ।।

लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ।। १५ ।।

अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः ।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ।। १६ ।।

स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ।। १७ ।।

शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्र्सादः सौभाग्यं यथासङ्‌ख्यं प्रशस्तता ।। १८ ।।

काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । 
पाको राग इति प्राज्ञैः पाठभेदः
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ।। १९ ।।

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ।। २० ।।

यथासङ्‌ख्यमनुद्देशः सामान्यमतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ।। २१ ।।

अदारुणेन शब्देन प्राशसत्यमुपवर्णनं ।
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। २२ ।।

मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ।। २३ ।।

काव्येच्छया विशेषो यः स राग इति गीयते ।
अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ।। २४ ।।

हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ।। २५ ।।

इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्‌चत्बारिंशदधिकत्रिशततमोऽध्यायः ।।

अग्नि पुराण - तीन सौ पचासवाँ अध्याय हिन्दी मे Agni Purana 350 Chapter In Hindi

तीन सौ पचासवाँ अध्याय संधि के सिद्ध रूप

कुमार कार्तिकेय कहते हैं- कात्यायन। अब सिद्ध संधिका वर्णन करूँगा। पहले 'स्वरसंधि बतलायी जाती है- दण्डाग्रम्, साऽऽगता, दधीदम्, नदीहते, मधूदकम्, पितृषभः, लुकारः, तवेदम्, सकलोदकम्, अर्धचौंऽयम्, तवल्कारः, सैषा, सैन्द्री, तवौदनम्, खट्‌वौघोऽभवत्, इत्येवम्, व्यसुधीः, वस्वलंकृतम्, पित्रर्थोपवनम्, दात्री, नायकः, लावकः, नयः, त इह, तयिह इत्यादिः। तेऽत्र, योऽत्र जलेऽकजम्। जहाँ संधि न होकर प्रकृत रूप ही रह जाता है, उसे 'प्रकृतिभाव' कहते हैं। उसके उदाहरण-नो अहो, ऐहि, अ अवेहि, इ इन्द्रकम्, उ उत्तिष्ठ, कवी एतौ, वायु एती, वने इमे, अमी एते, यज्ञभूते एहि देव इमं नय ॥ १-५ ॥ 

अब 'व्यञ्जनसंधि "का वर्णन करूँगा-वाग्यतः । अजेकमातृकः। षडेते। तदिमे। अबादि । वाङ्नीतिः । षण्मुखः। वाङ्मनसम् । इत्यादि। वाग्भावादिः। वावश्लक्ष्णम्। तच्छरीरकम्। तल्लुनाति। तच्चरेत्। क्रुड्डास्ते। सुगण्णिह। भवांश्चरन्। भवांश्छात्रः । भवांष्टीका। भर्वाष्ठकः । भवांस्तीर्थम्। भवांस्थेत्याह। भवाँल्लेखा। भवाञ्जयः। भवाञ्छेते, भवाञ्चशेते, भवाञ्शेते। भवाण्डीनः। सम्भर्त्ता। त्वङ्करिष्यसि इत्यादि ॥ ६-९॥

इसके बादकी पदावलियोंमें विसर्ग- संधि जाननी चाहिये कश्छिन्द्यात्। कचरेत्। कष्टः। कष्ठः। कः स्थः। कश्चलेत्। क खनेत्। क करोति। क पठेत्। क फलेत्। कश्श्वशुरः श्वशुरः। कस्स्वरः, कः स्वरः। कः फलेत्। कः शयिता। कोऽत्रयोधः। क उत्तमः। देवाएते। भो इह। स्वदेवा यान्ति। भगो व्रज। सु पूः। सुदूरात्रिरत्र। वायुर्याति। पुनर्नहि। पुना राति। स यातीह। सैष याति। क ईश्वरः। ज्योतीरूपम्। तवच्छत्रम्। म्लेच्छ धीः। छिद्रमोच्छिदत् ॥ १०-१३ ॥

इस प्रकार आदि आग्नेय महापुराणमें 'संधिसिद्धरूपकथन' नामक तीन सौ पचासवाँ अध्याय पूरा हुआ ॥ ३५०॥

click to read 👇👇

अग्नि पुराण अध्यायः ३२१ ]  [ अग्नि पुराण अध्यायः ३२२ ]  [ अग्नि पुराण अध्यायः ३२३ ]

अग्नि पुराण अध्यायः ३२४ ]  [ अग्नि पुराण अध्यायः ३२५ ]  [ अग्नि पुराण अध्यायः ३२६ ]

अग्नि पुराण अध्यायः ३२७ ]  [ अग्नि पुराण अध्यायः ३२८ ]  [ अग्नि पुराण अध्यायः ३२९ ]

अग्नि पुराण अध्यायः ३३० ]  [ अग्नि पुराण अध्यायः ३३१ ]  [ अग्नि पुराण अध्यायः ३३२ ]

अग्नि पुराण अध्यायः ३३३ ]  [ अग्नि पुराण अध्यायः ३३४ ]  [ अग्नि पुराण अध्यायः ३३५ ]

अग्नि पुराण अध्यायः ३३६ ]  [ अग्नि पुराण अध्यायः ३३७ ]  [ अग्नि पुराण अध्यायः ३३८ ]

अग्नि पुराण अध्यायः ३३९ ]  [ अग्नि पुराण अध्यायः ३४० ]  [ अग्नि पुराण अध्यायः ३४१ ]

अग्नि पुराण अध्यायः ३४२ ]  [ अग्नि पुराण अध्यायः ३४३ ]  [ अग्नि पुराण अध्यायः ३४४ ]

अग्नि पुराण अध्यायः ३४५ ]  [ अग्नि पुराण अध्यायः ३४६ ]  [ अग्नि पुराण अध्यायः ३४७ ]

अग्नि पुराण अध्यायः ३४८ ]  [ अग्नि पुराण अध्यायः ३४९ ]  [ अग्नि पुराण अध्यायः ३५० ]

टिप्पणियाँ